Bharatiya Darshana (भारतीयं दर्शनम्)
Original price was: ₹300.00.₹270.00Current price is: ₹270.00.
Author | Shashi Kumar |
Publisher | Vidyanidhi Prakashan, Delhi |
Language | Sanskrit |
Edition | 2019 |
ISBN | 978-8186700204 |
Pages | 112 |
Cover | Hard Cover |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | VN0005 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
भारतीयं दर्शनम् (Bharatiya Darshana) भारतीय दर्शनं हि अतीव पुरातनं व्यापकं मौलिकञ्च शास्त्रम्। इदं खलु तत्त्वज्ञानम्, अध्यात्मविद्या, आन्वीक्षिकी, ब्रह्मविद्या, मीमांसा, सम्यग्दर्शन- मित्यादिभिः विविधैरभिधानैरभिधीयते परं सर्वेष्वप्येतेषु अस्य गाम्भीर्य वैशिष्ट्यश्न अविच्छिन्नतया संसूचितमित्यत्र नास्ति संशीतिलेशः। अतएवाह
सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपाद्यते ।।
जीवनस्य चरमोद्देश्यं प्रति सम्प्रेरणं तत्र च श्रेयःप्रेयसोः, ज्ञानकर्मणोः, अध्यात्मभूतयोः, आदर्शव्यवहारयोश्चानवद्यं सन्तुलनं भारतीयदर्शनस्य प्राणभूतम् । तदर्थमत्र वैदिककालादेव सामासिकी दृष्टिर्निदिष्टा यस्यां हि मूलतत्त्वस्य साक्षात्कारार्थ नैकाः सरण्य उपस्थापिताः, परं नास्ति तासां मध्ये काचन विसङ्गतिः- अन्ततोगत्वा ताः सर्वाः पर्यवस्यन्ति परमसत्यस्य चरमान्वेषणे । चत्वारो वेदाः, उपनिषदः, वेदाङ्गानि च तस्यैव व्याख्यानं विदधति, उपाङ्गभूतानि षड्दर्शनानि अपि तदेव विवृण्वन्ति ।
अद्यत्वे यदा एकतो वैज्ञानिकी प्रगतिः भौतिकी च समृद्धिः मानवाय पुष्कलं सौविध्यं प्रदत्तः, अपरतश्च तस्य अन्तःकरणं तृषितम्, अन्तरात्मा च आकुली भूता-तदा विखण्डितव्यक्तित्वस्य जनस्य जीवनेऽखण्डानन्द- सम्पादनाय भारतीयदर्शनस्य सैव सामासिकी दृष्टिरपेक्ष्यते यया विपुलवैमत्य- मध्येऽपि स्वकीयमस्तित्वमक्षुण्णं, स्वरूपञ्च सम्भिन्नतया संरक्षितमिति । अवदाते ऽस्मिन्नुष्ठाने भारतीयदर्शनस्योदात्तादर्शानां प्रकाशयित्री पुनीता वाक् संस्कृतमपि महद् योगदानं विहितवतीति विदितमेवात्रभवतां विद्वद्वरेण्यानाम् । अतएवास्मिन् स्वल्पकाये ग्रन्थे मया भारतीयदर्शनास्योत्सभूतानां वेद-उपनिषद्-वेदाङ्गानाम्, तत्र प्रतिनिधिभूतानां च न्याय-वैशेषिक-मीमांसा- दर्शनानां केचन पक्षाः संस्कृतभाषया समालोच्यन्त इति तत्र विद्वांस एव प्रमाणम् । अहन्तु एतदेव निवेद्य विरमामि –
प्रमाणसिद्धान्तविरुद्धमत्र यत्किञ्चिदुक्तं मतिमान्द्यदोषात् । मात्सर्यमुत्सार्य तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ।।”
Reviews
There are no reviews yet.