Bhashya Vartikam Set of 2 Vols. (बृहदारण्यकोपनिषद् भाष्यवार्तिकम् 2 भागो में)
Original price was: ₹1,150.00.₹1,035.00Current price is: ₹1,035.00.
Author | S Subramaryam Shastri |
Publisher | Dakshinamurty Math Prakashan |
Language | Sanskrit |
Edition | 2023 |
ISBN | 978-81-927165-2-7 |
Pages | 1658 |
Cover | Hard Cover |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | dmm0009 |
Other | Dispatched in 1-3 days |
5 in stock (can be backordered)
CompareDescription
बृहदारण्यकोपनिषद् भाष्यवार्तिकम् 2 भागो में (Bhashya Vartikam Set of 2 Vols.)
ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः
वातिकामृतसंज्ञेन ग्रन्थेन सुधियां ददौ । योऽमृतत्वं नमामस्तं सुरेश्वरसुधानिधिम् ।।
बृहदारण्यकोपनिषद् षडध्यायीरूपा काण्वशाखायां “उषा वा अश्वस्ये” त्यारभ्य प्रवर्तते, माध्यन्दिनशाखायां तु “द्वया ह प्राजापत्या” इत्यारभ्य प्रवर्तते। भगवत्पादैस्तु काण्वशाखीयपाठमाश्रित्यैव भाष्यं व्यरचि। माध्यन्दिनपाठे “उषा वे”ति ब्राह्मणं, तथा “नैवेह किञ्चने”ति ब्राह्मणञ्च अत्रैव दशमकाण्डे गते। अश्वमेधाङ्गभूताश्वोपास्तेः “नैवेह” इत्यादिना अश्वमेधाङ्गभूताग्नौ हिरण्यगर्भोपास्तेश्च वर्णनेन विषयाधिक्यात् काण्त्रशाखीयोपनिषदेव भगवत्पादैः व्याख्यानाय स्वीकृतेति वक्तुं पायंते। तत्रादौ कर्मकाण्डेन सहोपनिषदः सम्बन्धो वक्तव्यः। पूर्वकाण्डेऽश्वमेधान्तानि कर्माण्युक्तानि। तेषां फलं स्वर्गमारभ्य ब्रह्मलोकान्तम्। ब्रह्मलोकश्च अश्वमेधस्यैकस्यैव कर्मणः फलं, तदुक्तम् “अश्वेनैव मेध्येन प्रजापतेस्सायुज्यं सलोकतामाप्नोती” ति “योऽश्वमेधेन यजते देवानामेवायनेनैति” इति च देवायनशब्दितोत्तरायणमार्गं ब्रह्मलोकप्रापकं दर्शयति। उत्तरायणमार्गश्च अहंग्रहोपासकानामेवेत्युत्सर्गः। अयं तु तस्यापवादः वाचनिक इति विवेकः। अश्वमेधोपयोगिनोऽश्वस्यावयवेषु कालादिदृष्टिरत्र विधीयते। सा च दृष्टिः अश्वमेधानधिकृतानां ब्राह्मणादीनां ब्रह्मलोकप्रापिका इत्येष विशेषः।
यद्यपि ब्रह्मलोकान्तं फलं कर्मणा सम्प्राप्येत, तथापीदं फलं संसारान्तर्गतमेव, अश्वमेधादिना च ब्रह्मलोकं गन्तॄणां कर्तृत्वभोक्तृत्वकारणीभूताज्ञानानिवृत्तेः पुनः संसारस्स्यादेव। यदि ब्रह्मलोके ब्रह्मणा सह वेदान्तविचारमकृत्वा केवलं भोगमात्रेण कालं यापयेयुः तदा भुवं प्रति निवर्तेयुः। भगवद्गीतासु तत्र गतानामपि “आ ब्रह्मभुवनाल्लोकाः पुनरार्वातनोऽर्जुन” इति ब्रह्मलोकेन सहैव लोकानां पुरार्वात्तहेतुत्वोक्तेः। “अपुनर्मारमेव गच्छति” (तै० ब्रा० ३-९) “ब्रह्मलोकमभिसम्पद्यते न च पुरावर्तते” इत्यादिकं तु दीर्घकालस्थितिमपेक्ष्य। “इमं मानवमावतं नावर्तन्ते” इत्यत्र अस्मिन् मन्वन्तरे पुरावृत्त्यभावमात्रनिर्देशात्। येषूपासनेषु ब्रह्मलोकं गतानां परब्रह्मप्राप्तिर्वाचनिकी भवति यथा-प्रश्नोपनिषदि पञ्चमस्य प्रणवोपास्तिप्रश्नस्य समाधानप्रसंगे “यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत” इत्यारभ्य “स सामभिरुन्नीयते ब्रह्मलोकं स एतस्मात् परात्परं पुरिशयं पुरुषमीक्षते” इति। यथा वा उपकोसलविद्यायां “ब्रह्मलोकमभिसम्पद्यते न स पुरावर्तते” इत्ति तत्रैवापुनरावृत्तिः स्वीकार्या न तु सर्वत्र। तथा च आत्यन्तिकसंसारनिवृत्तौ अपेक्षितं यत् ब्रह्मात्मसाक्षात्काररूपं ज्ञानं तत्प्रतिपादनार्था उपनिषदिदानोमारभ्यते। तथा च पूर्वोत्तरकाण्डयोरभ्युदयनिःश्रेयससाधनप्रतिपादकत्वेन भेदेऽपि अभ्युदयनिःश्रेयसयोरुभयोरपि पुरुषाभिलषितत्त्वेनैकत्वात् तयोः तत्साधकत्वेन एककार्यकत्वं सम्बन्धः। तथा कर्मकाण्डोपदिष्टानां कर्मणां फलाभिसन्धि परित्यज्य कृतानां बुद्धिशुद्धिद्वारा ब्रह्मसाक्षात्कारहेतुत्वात् हेतुहेतुमन्द्भावः संगतिः।
प्रथमाध्यायः
अत्र सम्बन्धग्रन्थे सकलाद्वैतथास्त्रोपयोगिनोऽर्थ्या एव विस्तरशो विचारिताः तथाहि –
१. गृहस्थः शरीराद्यभिमानवान् अहमस्य कर्मणः कर्ता तत्फलस्य च भोक्तेति निश्चितबुद्धिः कर्माधिकारी। मुमुक्षुः त्यक्ताशेषकर्मा कर्तृत्वादिकमात्मनः नास्तीति शास्त्रान्निश्चितवुद्धिः ज्ञानेऽधिकारीति विशेषः इत्यधि-कारिभेदः शास्त्रस्य।
२. नित्यकर्मानुष्ठानस्यापि स्वर्गादिफलजनकत्वमस्तीत्युपगमात् न नित्यानां मोक्षफलम्।
३. एकस्मिन्नेव जन्मनि निषिद्धकाम्ययोस्त्यागात् विहितानुष्ठानात् प्रारब्धकर्मणां भोगेन क्षयात् सञ्चितानां नित्यानुष्ठानक्लेशादेव क्षये एकस्मिन्नेव जन्मनि मुक्तिः प्राप्तुं शक्येति पक्षस्य विस्तरेण दूषणम्।
४. आत्मज्ञानमपि कर्माङ्गमिति पक्षस्य निरासः, आत्मनः अकर्तृत्वाभोक्तृत्वादिगुणवतः कर्मविरुद्धत्वात्। आत्मज्ञानस्य कर्मानङ्गत्वेऽपि कर्तृत्वादिस्वाभाविकधर्मेषु निश्चयवन्तमादाय शास्त्रप्रामाण्योपपत्तिः।
५. कैवल्यं ज्ञानैकसाध्यं तत्र क्रियाणां निष्कामेन क्रियमाणानां विविदिषायामुपयोगः। “तरति शोकमात्मवित्” इति ब्राह्मणम्।
६. ज्ञानकर्मसमुच्चयस्त्वसम्भावितः तत्त्वज्ञानिनोऽसङ्गाद्वितीयत्वनिश्चयात्।
७. सर्वस्यापि वेदस्य “आम्नायस्य क्रियार्थत्वादि” त्युक्तेः कर्मपरत्वमिति शङ्कानिरासः।
८. प्राभाकराभिमतस्य ‘नियोगः विध्यर्थं’ इति पक्षस्य नियोगस्वरूपखण्डनेन तस्य विध्यर्थत्वखण्डनेन च निराकरणम्।
Reviews
There are no reviews yet.