Bhatti Mahakavyam 1-4 Sarg (भट्टिमहाकाव्यम् 1-4 सर्गः)
Original price was: ₹70.00.₹59.00Current price is: ₹59.00.
Author | Acharya Nalinikantmani Tripathi |
Publisher | Bharatiya Vidya Sansthan |
Language | Sanskrit & Hindi |
Edition | 1st edition |
ISBN | 81-87415-03-7 |
Pages | 226 |
Cover | Paper Back |
Size | 12 x 2 x 18 (l x w x h) |
Weight | |
Item Code | BVS0186 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
भट्टिमहाकाव्यम् 1-4 सर्गः (Bhatti Mahakavyam) व्याकरणप्रक्रियासिद्धशब्दप्रयोगप्रधानं काव्यशास्त्रीयगुणालङ्कारादिमण्डित विवि-धवैलक्षण्यविशिष्ट श्रीमद्रामचरितवर्णनरूपं रावणवधाऽपराऽभिख्यया संस्कृतसाहित्ये समादृतं विद्वल्लोकललामेनाशेषशेमुणीजुषा महाकविना श्रीमद्भट्टिना विरचितमद्वितीयक महाकाव्यं भट्टिकाव्यमिति नाविदितं विद्वद्वराणाम्। इदं हि प्रक्रियाक्रमेण लक्ष्यानुशासनाद्व्याकरणे छन्दो ऽलङ्कारादिकाव्यशास्त्रीयसकलसामग्रीसंजुष्टत्वात् काव्ये चेति व्याकरणसाहित्योभयनिकायसमादृतं प्रायेण द्वादशशतवर्षेभ्यः संस्कृताध्ययनाध्यापनपदवीमारूढं विराजते। अत एव लक्षणग्रन्थेभ्यो ग्लायमानेभ्यश्छात्रेभ्यः कान्तासम्मिततया व्याकरणोपदेशकरूपेणाद्यापि प्रायः सर्वत्र संस्कृतसमाजे प्रचुरप्रसारमेतद् विलोक्यते। पाणिनीयव्याकरणमाधारीकृत्य संदृब्धमिदं महाकाव्यमनधीतव्याकरणशास्त्राणामनभ्यस्त-प्रसिद्धाप्रसिद्धशब्दानाञ्चाध्येतॄणां कृतेऽगम्यं वर्तत इति स्वयं कविरेवाऽन्वभूत-दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम्। हस्तामर्ष इवान्धानां भवेद् व्याकरणादृते।। इति।
एतत्काव्यप्रयुक्तविभिन्नशब्दरूपाणामर्थावबोधो व्याख्यानं विना दुष्करः व्याख्यामाध्यमेनापि व्याकरणाध्ययनगृहीतसंस्काराणां सौकर्येणानधीतव्याकरणानां च भूयसा परिश्रमेण आनन्दोपलब्धिस्संजायत इति मट्टिः स्वयममन्यत-व्याख्यागम्यमिदं काव्यमुत्सवः सुधियामलम्। हता दुर्मेधसश्चाऽस्मिन् विद्वत्प्रियतया मया।। इति। द्वाविंशतिसर्गोपनिबद्धे रुचिरोपजातिमालिनीपुष्पिताग्रागीत्वार्याप्रहर्षिणी-मन्दाक्रान्ता-शार्दूलविक्रीडितस्रग्धरादिछन्दोबद्धेऽनुष्टुब्बहुले चास्मिन् लोकोत्तरचरित्रात्मके ग्रन्थे चत्वारः काण्डाः उपलभ्यन्ते प्रकीर्णकाण्डोऽधिकारकाण्ड प्रसन्नकण्डास्तिङन्तकाण्डश्चेति। तत्र आप्रथमसर्गात्पञ्चमान्तं यावत्प्रसृते प्रकीर्णकाण्डे सामान्यविशेषकार्यप्रदर्शकानि तिङन्तरूपाणि, आषष्ठात् नवमसर्गान्ते सर्गचतुष्टयात्मकेऽधिकारकाण्डे पाणिनीयाष्टायामणा।
Reviews
There are no reviews yet.