Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Jyotirvigyan Shabdakosha (ज्योतिर्विज्ञानशब्दकोषः)

425.00

Author Dr. Surkant Jha
Publisher Chaukhambha Krishnadas Academy
Language Sanskrit & Hindi
Edition 2022
ISBN 978-81-213-0259-8
Pages 614
Cover Hard Cover
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0685
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

ज्योतिर्विज्ञानशब्दकोषः (Jyotirvigyan Shabdakosha)

शङ्करादिगुरुत्रयं गणपतिं पीठत्रयम्भैरवम् । वीरान् द्व्यष्टचतुष्क षष्टिनवकं वीरावलीपञ्चकम् ।

सिद्धोधं बटुकत्रयम्पदयुगं दूतीक्रमं मण्डलम् ।। श्रीमन्मालिनिमन्त्रराज सहितं वन्दे गुरोर्मण्डलम् ।।

तत्र भवतां सुविदितमेवैतत् यत् जगति जनिमतामेक एव वेदः श्रेयोमार्ग- प्रदर्शकः । यतो जनै मन्यन्ते-

‘यदिहास्ति तदन्यत्र यन्त्रेहास्ति न तद् क्वचित्’

अर्थात् यद्वेदे नास्ति, तदन्यत्रोऽपि नह्येव भवितुमर्हति। तस्य वेदस्य षडङ्गभूतानि शिक्षा-कल्प-शब्द-ज्योतिष निरूक्त च्छन्दः शास्त्राणि संदृश्यन्ते । यथा-

शिक्षा कल्पो व्याकरणं निरुक्तं छन्दस्तं च यः।

ज्यौतिषामायनञ्चेति वेदाङ्गानि षडेव तु ।।

तथा च भास्कराचार्य:-

शब्दशास्त्रं मुखं ज्यौतिषं चक्षुषि श्रौत्रमुक्तं निरूक्तं च कल्पः करौ । या तु शिक्षाऽस्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ।।

इत्यनेन तेषु षडङ्गेषु ज्यौतिशास्त्रस्य परिगणनं वर्तते। तत्र तस्य शास्त्रास्यानेन महत्त्वं संलक्ष्यते। यथा च भास्करः–

वेदास्तावद्यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण । शास्त्रादस्मात् कालबोधो यतः स्याद् वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात् ।।

अपि चाह नारदः-

वेदस्य निर्मलं चक्षुज्योंतिः शास्त्रमकल्मषम् । विनैतदखिलं कर्म श्रौतं स्मार्त न सिद्धयति ।।

एवमनेन सिद्धयते यज् ज्यौतिषशास्त्रं विना लोकानां लौकिकं वैदिकं स्मार्तञ्च किमपि कर्म न साफल्यमुपयाति । यतोऽस्मान् वेदो यज्ञं प्रति प्रवर्तयति। सुष्ठुकाले कृतमेव कर्म साफल्यमकाले वैफल्यं प्रयातीति कालज्ञानं ज्यौतिः शास्त्रादेव जायतेऽनेनास्य वेदाङ्गत्वं सार्थकं भवति। षडङ्गेषु ज्योतिःशास्त्रस्य मुख्यत्वमपि भास्करेण निगदितम्। यथा-

वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते।

संयुतोऽपीत्तरैः कर्णनासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चिद् करः ।।

उक्तकथनात् पूर्वमेव लगधेण वेदाङ्गेभ्यो ज्योतिः शास्त्रस्य वरिष्ठता प्रतिपादिता वर्तते। यथा-

यथाशिखा मयूराणां नागानां मणयो यथा। तद्वद् वेदाङ्गशास्त्राणां ज्योतिषं मूर्छिन वर्तते ।।

अतोऽनेनेदं सिद्धं यद् वेदाङ्गेषु ज्योतिषशास्त्रस्य सर्वातिशायि श्रेष्ठत्वं वर्तते। एवं ‘दैवाधीनं जगत् सर्वम्’ इति तथा ‘ग्रहास्ते देवतांशकाः’ इति वचनस्वरशात् सकलं जगद् ग्रहाधीनमेवास्ति। वस्तुतो रविकिरणसंयोगवशादेव सकलं जगज्जातं चरमचरञ्च जीवनं स्थैर्य च प्रत्यहं त्रिकालं वहति’ इत्यनेनैव लोर्कः रविरूपास्यते। तेषां ख-खेचर-भू-भूधर-त्रिदश- दानव-मानवानां स्थितमिति गतिज्ञानं ज्योतिषशास्त्रमन्तरा न केवलं दुर्घटमसम्भवमप्यस्ति। यथा नहि नेत्रं विना किञ्चिदपि जनो निरापदं स्वीयमभिलषितं पदं गन्तुं शक्यते तथा ज्योतिषशास्त्रं (नेत्रं) विना जगतः श्रेयोमार्गः कथमपि न सम्भवतीति।

Reviews

There are no reviews yet.

Be the first to review “Jyotirvigyan Shabdakosha (ज्योतिर्विज्ञानशब्दकोषः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×