Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Jyotish Shastre Digdeshakal Gyanam (ज्योतिषशास्त्रे दिग्देशकालज्ञानम्)

93.00

Author Dr. Nagendra Pandey
Publisher Sampurnananad Sanskrit Vishwavidyalay
Language Sanskrit
Edition 1st edition
ISBN -
Pages 304
Cover Hard Cover
Size 16 x 1 x 24 (l x w x h)
Weight
Item Code SSV0004
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

ज्योतिषशास्त्रे दिग्देशकालज्ञानम् (Jyotish Shastre Digdeshakal Gyanam)

कलाकाष्ठादिरूपेण निमेषघटिकादिना ।

यो वञ्चयति भूतानि तस्मै कालात्मने नमः ।।

विदितचरमिदं यत् सृष्टौ चैतन्यस्य मुख्यत्वेनैव कार्यसञ्चालकत्वं वर्तते । तत्र स्थावर-जीवधारिभ्योऽधिकं जङ्गमप्राणिषु चैतन्यं, जङ्गमप्राणिभ्योऽपि (पशुभ्यः) वैशिष्ट्यपूर्ण चेतनावत्वं मानवेषु विद्यते । मानवाः स्वविशिष्टचैतन्य- शक्त्यैव सर्वाः जडचेतनसृष्टीरतिशेते। ते हि एतद्वलेनैव समाजसंस्थापने प्रभवो बभूवुः । समाजसंस्थापनान्तरं तत्संरक्षणार्थं नियमा अध्यावश्यका अभवन् । ते नियमा आदिममानवेषु धर्मपदव्यपदेश्या अभवन् । धर्मस्वरूपश्चास्माकं वेदेषु धर्मशास्त्रेषु च बहुधोपनिबद्धम् । सत्यमेवोक्तं श्रीविष्णुदत्तशर्माणा यत् “धर्मेण हीना नराः पशुभिःसमानाः” सन्ति । तत्र प्राणिनां मूलप्रवृत्त्य आहारनिद्राभयमैथुनानि सर्वेष्वेव प्राणिषु सामान्येन विद्यन्ते ।

तत्र धर्मस्य मूलतत्वानां व्यवहारे उपयोगार्थमादिमा जनाः स्वयमेव प्रायतन्त । तत्र दण्डस्य दाण्डिकस्य, राज्ञः राज्यस्य च, कापि व्यवस्था नाभवत् । यदुक्तं मनुना-

न वै राज्यं न राजासीत् न दण्ड्यो न च दाण्डिकः । धर्मेणैव प्रजाः सर्वे रक्षन्तिस्म परस्परम् ।।

किन्तु धर्माणां संरक्षणार्थ काले देशे च तेषामेव समुपयोगार्थञ्च नियन्तु रा- वश्यकत्वं जनवर्गोऽन्वभवत् । तत्र भारते धर्मसंरक्षणार्थं वेदशासनमवततार । वेदशासनेन कालः देशश्च नियतीकृतः । तत्रोत्तरायण-दक्षिणायन-विषुवत्र- दर्श-पौर्णमास्येत्येते कालनियामकाः पदार्थाः यज्ञानां कृते महत्वपूर्णाः समभवन् । एतेषां कालानां परिज्ञानं कथं भवेदेतदर्थ गणनाक्रमेण रविचन्द्रयोः गत्योरनुशीलनं प्रागुपस्थितम् । ततः रविगतिगणनार्थ क्षितिजे रवेरुदयाः वेधेन चिह्निता अभवन् । एतेषां चिह्नानां साहाय्येनैव रवेः उत्तरायणस्य दक्षिणायनस्य च पूर्वदिग्गनुरोध-सम्भवि विषुवद्द शस्य च निर्धारणं साफल्येन विहितम् । एतेन निर्धारणेन दिवसानां ह्रासबुद्धिक्रमोऽपि सारत्येनाबगतः । वेदाङ्गज्योतिषे एषः विषयो विस्तरेण प्रतिपादितः, स तु अये समुपस्थापयिष्यते । रविगतिगणनया एब बर्षत्वंयनदिव- *सादीनां निर्धारणं समजनि। तत्र चन्द्रविम्बस्य ह्रासवृद्धचा चन्द्रमासानामपि निर्धारणं कालगणनायां साहाय्यमकरोत् । किन्तु द्वादशचान्द्रमासानां, द्वादशसौर- मासानाच सामञ्जस्यं सारल्येन नाऽभवत्। तत्र वेदे एवाधिमासकल्पनया तस्य सामञ्जस्यं समुपस्थापितमित्यत्रे विस्तरेण प्रतिपादयिष्यते ।

दिनिर्णयार्थ गाजकाः विशेषेण प्रयत्नशीलाः दृश्यन्ते । ते हि कृत्तिका- पुष्य-चित्रा-स्वाति-इत्येभिः नक्षत्रैपूर्वदिग्निर्धाणार्थं नक्षत्रोन्नतत्वं वेधेनावगन्तुं प्रायतन्त” । तन्नतत्वं यदा पूर्वदिक्सम्पाते भवतिस्म तदैव दिनिर्धारणं क्रियतेस्म । किन्तु नैतां समस्यां सारल्येन समाधातुं समर्थास्तेऽभूवन् । ततः शुल्वसूत्रेषु भूपृष्ठोपरिलिखिते वृत्ते रवेः छायाप्रवेशनिर्गमविन्दूभ्यां दिनिर्णयः कृतः। एष एवं प्रयत्नः सर्वथा विज्ञानसम्मतः समभवत् । किन्तु क्वापि स्थिरध्रुवनक्षत्रेणो- त्तरदिनिर्धारणं नोदलेखि। सिद्धान्तकाले ध्रुव एव दिनिर्धारणार्थ ज्योतिविदां कृते प्रधाननक्षत्रमभवत् । ध्रुवतारकोन्न्त्यैव पृथिव्याः गोलस्वरूपं निर्धारितम् । स्वदेशस्याक्षांशोऽपि ध्रुवोन्नत्यैव विश्लेषितः । आहुश्च भास्कराचार्याः –

उदग्दिशं याति यथा यथा नरस्तथा तथा खान्नतमृक्षमण्डलम् । उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः ।।

अन्यच्च –

यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्च भवतोऽक्षलम्बकौ । तौ क्रमाद्विषुवदह न्यहर्दले येऽथवा नतसमुन्नता लवाः ।।

अथ अत्र दिग्देशकालानां स्वरूपं समासतो समीक्ष्यते ।

दिक्परिभाषा-

मानवानां भूतलोपरि व्यवहारप्रवर्तनार्थ दिग्ज्ञानमतितरामावश्यकम् । प्राचीनाचार्याः दर्शने ज्योतिषे च दिशां स्वरूपं प्रतिष्ठापयामासुः । तत्र दार्शनिकाः दिक् स्वरूप द्रव्यत्वेनैवाङ्गीकृतवन्तः । यथाहुः न्यायसिद्धान्तमुक्तावलीकाराः- “क्षित्यप्तेजो मरूद्द्व्योमकालदिग्देहिनो मनः, इति नवद्रव्याणि । क्षितिः पृथ्वी, आपः- जलानि, तेजः वक्तिः, मरुद्वायुः, व्योम आकाशः, कालः समयः, दिग् – आशा, देही = आत्मा, मनः । अत्र दिक्किालयोः द्रव्यत्वं महत्परिमाणत्वादेव स्वीकृतम् । किन्तु आधुनिकानां विचारेण द्रव्यं तदेव, यत् स्प्रष्टुं शक्यते, तथा च वाष्पद्रवपिण्डात्मकेषु त्रिषु रूपेषु परिणमयितुं च शक्यते । परिभाषयानया दिक्कालयोः मूर्तरूपाभावात् द्रव्यत्वं न सिद्धयति, किन्तु अनयोः स्वरूपं व्यवहार- प्रवर्त्तनायैव तथैव कल्पितावेतौ यथा सङ्ख्यानां परिकल्पनम् । संख्या अपि लोकव्यवहारे वस्तूनां गणनायै निदिश्यन्ते । तथैव दिगपि भृपृष्ठस्थखस्य-प्रदेशानां पिण्डानाञ्च निर्देशायैव परिकल्प्यते । तत्र दार्शनिकाः भुवः कन्दुकाकाररुपत्व- मनङ्गीकृत्यैव सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः इति प्रतिपादयन्तिस्म।

भागवतेऽपि मेरोः कल्पना उत्तरस्यामेव विहिता । तत्र सर्वे ग्रहाः, नक्षत्राणि च मेरोः प्रदक्षिणं कुर्वन्तीति स्फुटतयोक्तम् । भागवतकल्पना भूगोलं कन्दुकाकार- मेवाङ्गी करोतीति, तत्रत्य ग्रहगतिकल्पनया स्फुटी भवति । न्यायसिद्धान्तमुक्ता- वलिकाराः – “दूरान्तकादिधीहेतुरेका नित्या दिगुच्यते *” – कथयन्ति । तत्र पृथिव्याः कन्दुका कृतेर्गोलपिण्डत्वस्य च निर्देशो न विहितः। किन्तु भूपृष्ठवासिनां दिग्व्यवहारः, पृथिव्याः पिण्डस्य कन्दुकाकारकल्पनमन्तरेण भूतलप्रदेशस्य निर्देशश्च कथमपि न सम्भवति । अतः प्रथमं तावत् पृथिव्याः कन्दुकाकाररूपत्वेन दिङ्- निर्धारणं क्रियते।

Reviews

There are no reviews yet.

Be the first to review “Jyotish Shastre Digdeshakal Gyanam (ज्योतिषशास्त्रे दिग्देशकालज्ञानम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×