Karikavali (कारिकावली न्यायसिद्धान्तमुक्तावली)
Original price was: ₹200.00.₹170.00Current price is: ₹170.00.
Author | Lokmani Dahal |
Publisher | Chaukhamba Surbharati Prakashan |
Language | Hindi & Sanskrit |
Edition | 2023 |
ISBN | - |
Pages | 344 |
Cover | Paper Back |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | CSP0397 |
Other | Dispatched in 3 days |
10 in stock (can be backordered)
CompareDescription
कारिकावली (Karikavali)
नमः परस्मै महंते कणादाय महर्षये। अक्षपादाय सिद्धाय नमो वात्स्यायनाय च॥
महाप्राज्ञः कौटिल्य उद्घोषयति –
‘प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता’॥ इति।
तत्र प्रत्यक्षागमाश्रितमनुमानं सा अन्वीक्षा। प्रत्यक्षागमाभ्यामीक्षितस्य अनु ईक्षणमन्वीक्षा। तथा प्रवर्तत इत्यान्वीक्षिकी। सा च न्यायविद्या न्यायशास्त्रमेव वा। यद्वा श्रवणादनु ईक्षा अन्वीक्षा उन्नयनम्। तन्निर्वाहिका आन्वीक्षिकीति। सैवान्वीक्षिकी परार्यानुमानापरपर्यायं न्यायशास्त्रमपि कथ्यते। प्रयोजन श्वास्य निःश्रेयसप्राप्तिः। न्यायस्तु प्रमाणैरर्थंपरीक्षणम्। समस्त प्रमाणव्यापारादर्थाधि-गतिर्त्याय इति। नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति तस्य व्युत्पत्तिरुक्ता। न्याय एव तर्कशब्देनाऽप्युच्यते।
सामान्यतो हि कणादप्रणीतं वैशेषिकशास्त्रं गोतमप्रणीतं न्यायशास्त्रन्वोभ एव न्यायशास्त्रमिति व्यपदिश्येते। वैशेषिकसूत्रं हि द्रव्यादिसप्तपदार्थीप्रतिपादकं न्यायसूत्रन्च प्रमाणप्रमेयादिषोडशपदार्थीव्युत्पादकन्छ। कतिपयपक्षेष्वनयोर्मतवैभिन्न्यमपि दृश्यते, कतिपयपक्षेषु मतैक्यमपि। वैशेषिकनये प्रत्यक्षानुमाने एव प्रमाणे नैयायिकमते चत्वार्येव। आद्यनये चाक्षुषमेव प्रत्यक्षमन्त्यनये तु चाक्षुषघ्राणजराशनस्पार्शनादिभेदेन प्रत्यक्षं बहुविधम्। वैशेषिकनये समवायोऽतीन्द्रियः न्यायनये तु प्रत्यक्ष एव। पीलुपाकवादिनो वैशेषिकाः परमाणुपाक-समर्थकाः पिठरपाकवादिनो तैयायिका द्वद्यणुकादावपि पाकस्य समर्थकाः। वैशेषिकनये त्रय एव हेत्वाभासाः-विरुद्धासिद्धसन्दिग्धाः। नैयायिकनये तु पञ्च ते अनैकान्तिकविरुद्धप्रकरणसमसाध्यसमकालातीताः। वैशेषिकनये प्रक्षिप्तशरादेरेक एव वेगः, नैयायिकनये तस्य पतनात्पूर्वमन्तः कियन्तो वेगा भवन्ति। एवं द्वित्वसंशयविभागजविभागादावपि तयोर्भेदः परिलक्ष्यते। एवञ्च नैयायिकाः षोडश- पदार्थानाहुर्वैशेषिकास्तु षट्स्वेव तेषामन्तर्भावमिच्छन्ति। सत्यपि कतिपयपक्षेऽसमानचिन्तने तयोः साम्यमपि दृश्यते कतिपयपक्षेषु। सामान्यतोऽनयोनं विरोधोऽपि साहचर्यमेव। तेन कतिपयेष्वेतद्विषयकार्वाचीनग्रन्थेष्वनयोमिश्ररूपमेव लभ्यते। यथोक्तमन्नम्भट्टेन तर्कसङ्ग्रहस्योपसंहारे –
‘कणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये। अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः’॥ इति।
अन्नम्भट्टस्य तर्कसङ्ग्रहः, विश्वनाथस्य भाषापरिच्छेदः, कोण्डभट्टस्य पदार्थ-दीपिका विवादित्यस्य सप्तपदार्थी एते चान्ये च बहवो न्यायवैशेषिकोभयमिध-ग्रन्याः। एषु हि तर्कसङ्ग्रहप्रभृतयो मन्दाधिकारिणां, पदार्थदीपिकाप्रभृतयो मध्यमाधिकारिणां भाषापरिच्छेदप्रभृतय उत्तमाधिकारिणाच्च ग्रन्थाः। तत्र भाषा-परिच्छेदाख्यः कारिकावल्यपरपर्यायः प्रकृतग्रन्थः श्रीविश्वनायपञ्चाननभट्टाचार्यप्रणीतः।
श्रीविश्वनायपश्वानन भट्टाचार्यः श्रीविद्यानिवासभट्टाचार्यतनयः। सोऽपि वङ्गदेशीयः। स विक्रमानन्त राष्टादशशतकपूर्वार्द्धस्थितिमानिति न्यायसूत्र-वृत्तिस्थेन-
‘रसबाण (र) तिथौ शकेन्द्रकाले बहुले कामतियो शुचौ सिताहे।
अकरोन्मुनिसूत्रवृत्तिमेतां ननु वृन्दाविपिने स विश्वनायः’॥
इति पुष्पिकावाक्येन ज्ञायते। तस्य हि पाण्डित्ये तु प्रकृतग्रन्थ एव परमं प्रमाणम्। अस्य हि ज्ञाताः कृतयः-
१. भाषापरिच्छेदः, २. न्यायसिद्धान्तमुक्तावली भाषापरिच्छेदवृत्तिः, ३. न्यायसूत्रवृत्तिश्च।
तत्र कारिकावली एतद्विषयकग्रन्थकेषु सर्वातिशायित्वेन विराजते। सन्त्यत्र अष्टपष्टद्यधिकैकशतमिताः कारिकाः। तत्र हि मङ्गलाचरणं, पदार्थविभागः, द्रव्य-विभागः, गुणादीनां विभागः, द्रव्यनिरूपणं, तत्रात्मनिरूपणावसरे विभोर्बुद्धधादयो गुणाः, बुद्धिस्तु अनुभूतिः स्मृतिश्चेति द्विविधा अनुभूतिश्च चतुविधेत्यारभ्य प्रत्यक्षानुमानोपमानशब्दानां निरूपणं, मनोनिरूपणम्, गुणसामान्यनिरूपणं विशेषगुणनिरूपणञ्चेति प्रतिपाद्यविषयाः। तत्र कर्मादीनां तु विभागावसर एव निरूपणं कृतम्। तदेपा प्रथमा कारिका-
‘नूतन जलधर रुचये गोपवधूटीदुकूलचौराय। तस्मै कृष्णाय नमः संसारमहीरुहस्य बीजेाय’॥ इति।
न्यायसिद्धान्तमुक्तावली हि तस्यापरा कृतिः। सा च कारिकावल्या वृत्तिरिति तत्रस्येन –
‘निजनिर्मितकारिकावलीमतिसङ्क्षिप्तचिरन्तनोक्तिभिः। विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः’॥
Reviews
There are no reviews yet.