Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Kavya Prakash Rahasyam (काव्यप्रकाश-रहस्यम् काव्यप्रकाश-प्रश्नोत्तरी)

65.00

Author Pt. Sitaram Jayram Joshi
Publisher Chaukhambha Sanskrit Series Office
Language Sanskrit
Edition 2014
ISBN -
Pages 168
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0509
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

काव्यप्रकाश रहस्यम् (Kavya Prakash Rahasyam) काव्यप्रकाशरहस्य नामाऽयमेत्र ग्रन्थः पूर्वरूपं परिवृत्य किश्चिन्नूतनवेषपरिधानेनाधुना जिज्ञासूनां विद्यार्थिनां तथा चान्यविचक्षणानां पुरतो वरीवति। तत्रत्याः प्रथमषडुल्लासा अतिसंक्षिप्ततया विहितत्वात् परीक्षार्थिनां छात्राणां भ्रन्थरहस्यबोधनायातीवापर्याप्ता इति मत्वा ग्रन्थप्रकाशक निर्बन्धादेव परिसंबोधक्षमा यथाभवेयुस्तथा कृत्वा तेऽत्र विनिवेशिताः। अपरखात्रैव साहित्यिकी प्रथिता काऽपि स्पृहणीयपरम्पराऽपि प्रथितुं पारितेति जिज्ञासूनां तदतीव मुदमावहेदित्याशासे। सप्तमोल्लासादारभ्य ग्रन्थसमाप्रिपर्यन्तं तु श्रीदेवदत्तशास्त्रिकृता रचना पूर्ववदेव सन्निधापिता। ग्रन्थगौरवभयात् स भागोऽत्रास्पृष्टो वर्तते। अन्थविस्तरेण तन्मूल्यमपि स्वाभाविकमेव वृद्धिमाप्नुयात्तथाभूते च सति निःस्वच्छात्राणां कृते ग्रन्थप्रापणकाठिन्यं जायेतेति प्रधानभाग एवात्र परिवर्तितस्तिष्ठति। आशंसे चायं नूत्नरूपेण जिज्ञासूनां मनोरञ्जने तथा अन्थस्य सम्यग्बोधविधाने प्रभवेदिति।

ग्रन्थकृत् परिचयस्तस्य चरित्र देश-कालवर्णनेन समासेनैवात्र विहितश्चेत्सोपि तेषामुपकारक्षमो सम्पद्येतेति मत्वाऽतिसंक्षेपेणैवात्र विधीयते। ग्रन्थस्यास्य प्रणेता राजानकपदलाब्छनः श्रीमान् मम्मटभट्टः काश्मीरानलञ्चकार स्वनिवासेनेत्यत्र न वैमत्यं विदुषाम्। भीमसेन-दीक्षितनिर्मितसुधासागराख्यया प्रन्थस्यास्य टीकयेदर्माप विदितं यः ‘अस्य पिता जैय्यटनामधेयः। व्याकरणमहाभाष्यप्रदीपकृत्कैय्यटस्तथा वेदभाष्यकृदुव्वटश्चास्यैव द्वौ कनीयांसौ भ्रातरावास्ताम्। स स्वभ्रातृभ्यां सह वाराणस्यामध्ययनाध्यापनमकरोदि’ति। तथा च भीमसेनः –

श्रीमान् कैयट औवटो ह्यवरजो यच्छात्रतामागतः। भाष्याब्धि निगमं यथाक्रममनुव्याख्याय सिद्धिं गतः॥

इति स्वटीकायाः प्रस्तावश्लोकेषु कथयति। अत्र कैयटोपाध्यायो वैयाकरणः सन् स्वप्रदीपप्रस्तावे आत्मानं जैयटात्मजमभिध्त्ते। उव्वटेन तु स्वोयवेदभाष्ये बज्रटात्मजमात्मानमभित्र्यनक्ति। अतोऽस्य मम्मटभ्रातृत्वं विद्वद्भिविंशङ्कितं सदनिर्णीतं वर्तते। सर्वशास्त्रविशारदोऽपि मम्मटाचार्योऽयं प्रधानतया प्रधानतया वैयाकरणाअणीरेव बभूव, यद्दृढीकरणं काव्यप्रकाशस्थित नेकविधप्रमाण परम्परया सुशकम्। न केवलं भीमसेनेनैव किन्तु तत्पूर्वैरपि तत्पूर्वैरपि टीकाकृद्भिरानन्ददेवनाथतर्कपञ्चाननप्रभृतिभिरयं मम्मटभट्टो वाग्देव्या अवतारत्वेन वर्णितः।

उव्वटोक्तमन्त्रभाष्यप्रस्तावगतश्लोकेन (‘भोजे पृथ्चीं प्रशासति ! इत्युक्तत्वात् ) मम्मटत्य भोजराजसमकालिकत्वमपि ज्ञापितं भवति। अयं जारेश्वरो भोजराजः सृष्टाब्दीय १०१८१०५५ वर्षपर्यन्तं महीं शशासेति शिलालेखस्थिताने कप्रमाणोपन्यासद्वाराऽऽधुनिकै रैतिहासिकैनिश्चप्रचम्। काव्यप्रकाशेऽपि मम्मट भट्टेनैत्रोदात्तालङ्कारोदाहरणावसरे ‘यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम्’ इति भोजनृपतेर्वर्णनं कृत्वा तत्समकालिकत्वं प्रकटीकृतम्।

Reviews

There are no reviews yet.

Be the first to review “Kavya Prakash Rahasyam (काव्यप्रकाश-रहस्यम् काव्यप्रकाश-प्रश्नोत्तरी)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×