Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-14%

Laghu Siddhant Kaumudi (लघुसिद्धान्तकौमुदी)

60.00

Author -
Publisher Gita Press, Gorakhapur
Language Sanskrit
Edition 29th edition
ISBN -
Pages 286
Cover Hard Cover
Size 14 x 1 x 21 (l x w x h)
Weight
Item Code GP0145
Other Code - 116

10 in stock (can be backordered)

Compare

Description

लघुसिद्धान्तकौमुदी (Laghu Siddhant Kaumudi) निखिलेऽस्मिन् पञ्चतत्त्वाञ्चिते वैरिञ्चप्रपञ्चे ऽनादिकालतो बन्धनमुपेत्य प्रारब्धपरिणतिं भुञ्जानानां जनानामाध्यात्मिकादितापत्रयचिन्ता- चक्रव्यूहोत्पाटनपटीयो ज्ञानमेवामनन्ति मोक्षोपायतया निःश्रेयससाधनैकमतयो यतयो महर्षयश्च। तच्च ज्ञानमाम्नायवाङ्मयतात्पर्यपर्यालोचनोल्लसत्- सद्विवेकोद्रेकादेव समधिगन्तुं शक्यत इति नास्ति परोक्षं प्रेक्षावताम्। तात्पर्यपर्यालोचनं च तत्तच्छब्दानुबन्धितत्तदर्थबोधकशक्तिग्रहायत्तम्, शक्तिग्रहस्तु ‘शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याट्यवहारतश्च’ इति वृद्धजनोक्त्या प्राधान्येन व्याकरणादेव बोभवीतीति तदेव सर्वतः प्रागाश्रयणीयं निगमागमार्थसार्थं परिचिचीषुभिः । किञ्च ‘षडङ्गो वेदोऽध्येयो ज्ञेयश्च’ इति विधिश्रवणात् ष‌ड्भिरङ्गैः संवलितस्यैव वेदस्य तत्त्वज्ञानं श्रेयः साधनमभिमतम्ः तेष्वङ्गेषु च ‘छन्दः पादौ तु वेदस्य मुखं व्याकरणं स्मृतम्’ इति वचनाद् व्याकरणमेव मुखमिव प्रमुखतामावहति प्रागध्येतव्यतां चेति नाविदितचरं गीर्वाणवाणीप्रणयिनाम् ।

व्याकरणं च मुख्यतो नवधानुश्रूयते, ‘ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम्। सारस्वतं चापिशलं शाकलं पाणिनीयकम् ॥’ इति तत्त्वनिधावुक्तेः; हनुमन्तमुद्दिश्य ‘सोऽयं नवव्याकरणार्थवेत्ता’ इति वाल्मीकीयवचनाच्च । ननु हनुमतः काले पाणिन्यादेरनुत्पत्त्या नेदं संगच्छत इति चेन्न ‘धाता यथापूर्वमकल्पयत्’ इति श्रुत्या पूर्वपूर्वकल्पोद्भूतपाणिन्यादीनां व्याकरणसत्त्वानुमानात्। तत्रैन्द्रव्याकरणे ‘तामिन्द्रो मव्यतोपक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुच्यते’ इति श्रुतिरेव प्रमाणम्। ‘चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः’ इत्यादिवचनाच्चान्द्रस्यापि सत्तानुमीयते । ‘शताच्च ठन्यतावशते’ इति सूत्रे भाष्ये नामतो निर्देशात् काशकृत्स्नसत्तापि निश्चीयते। कौमारं त्वाग्नेयपुराणे वर्ण्यते, केचित्तु पाणिनिकृतं प्रातिशाख्यसूत्रमेव कौमारमिति वदन्ति। सारस्वतम्, ऋक्तन्त्रापराभिधानं शाकटायनं चाद्यत्वे
मुद्रिते उपलभ्येते । आपिशलं शाकलं  च पाणिनिसूत्रेषु तन्नाम्नोरनुवादादनुमीयेते ।

यद्यप्यद्यत्वे व्याकरणान्युपलभ्यन्ते विविधानि जैनेन्द्राशुबोधकातन्त्राद्यभिधानानि तथापि नैतेषां वेदाङ्गत्वम् । निखिललौकिकालौकिकशब्दानां व्युत्पादकतया पाणिनीयव्याकरणमेव सर्वेषां मूर्धन्यं धन्यं च सद् वेदाङ्गतामाधत्ते । ‘इदमक्षरं छन्दोवर्णशः समनुक्रान्तं ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यः । तं खल्विममक्षरसमाम्नायमित्याचक्षते; ‘न भुक्त्वा न नक्तं ब्रूयाद् ब्रह्मराशिः।’ इति ऋक्तन्त्रव्याकरणोक्त- रीत्याक्षररूपस्यास्य चतुर्दशसूत्रसमूहस्याम्नायत्वं निष्पद्यते, तन्मूलकत्वाच्चेदं वेदशरीरमभ्युपगम्यते ।

Reviews

There are no reviews yet.

Be the first to review “Laghu Siddhant Kaumudi (लघुसिद्धान्तकौमुदी)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×