Meru Tantram (मेरुतन्त्रम्)
Original price was: ₹600.00.₹540.00Current price is: ₹540.00.
Author | - |
Publisher | Khemraj Sri Krishna Das Prakashan, Bombay |
Language | Sanskrit |
Edition | 2017 |
ISBN | - |
Pages | 821 |
Cover | Hard Cover |
Size | 14 x 4 x 22 (l x w x h) |
Weight | |
Item Code | KH0042 |
Other | Dispatched in 1-3 days |
9 in stock (can be backordered)
CompareDescription
मेरुतन्त्रम् (Meru Tantram) विदितमेवैतन्निखिल निगमागमायगाधपाथोधिनिर्मन्यनोत्थितसारसद्रत्नशोभायमानकण्ठकोविदक ण्ठीरवमहाशयानां स्वयशोधवलिमधवलिताखिलदिङ्मण्डलानाम्, यत्किल परमकारुणिकः परमेसंसारापारा कूपारानुष्ठितकर्मसमीरणेरिततरंगेतस्ततश्चाल्यमानानुबो भूयमानानेकदुःखपरंपराणां सकलमानवानां हिताय साङ्गवेददर्शनायुर्वेदाद्युपवेदपुराणादींस्तत्तदषिद्वाराऽऽ विर्भावयामासेति। तत्र सत्स्वपि बहुष्यन्येषु पारलौकिकैहलौकिकफलसाधकेषु दुर्लभवैौदक विधिसामग्रीकाणां साकार्यसिद्धिमभीप्सतामल्पायुषां जनानां न तयेतरदाशुकार्यसिद्धिकारकं यथेदं परमकारुणिकेनान्वर्याभिधानेन जगदंब योमया पृष्टेन भगवता श्रीशंकरेण प्रतिपादितं सर्वोत्तमं मन्त्रशास्त्रम्। उक्तंच-
“विष्णुवीरेष्ठो देवानां हृदानामुद्धिस्तथा। नदीनाञ्च यथा गंगा पर्वतानां हिमालयः।। अश्वत्थः सर्ववृक्षाणां राज्ञामिंद्रो यथा बरः। देवीनाञ्च यथा दुर्गा वर्णानां ब्राह्मणो यथा।। तथा समस्तशास्त्राणां तन्त्र-शास्त्रमनुत्तमम्। सर्वकामप्रदं पुण्यं तंत्र वै वेदसंमितम्।। कीर्तनं देवदेवस्य हरस्य मतमेव च। पावनं श्रद्दधानानामिहलेोके परत्र च।।” तत्र च यामलोड्डीशभूतडागरादीनि ‘चतुःषष्टिश्च तंत्राणि यामलादीनि पार्वति, इति महाविश्वसारतंत्रोक्तेश्चतुःषष्टिसंख्याकानि सन्ति। तत्रच मध्येमेदिनि मेरुरिखेदं मेरुतंत्र पञ्चत्रिंशत्प्रकाशात्मकं सर्वतोप्यधिकं प्रकाशते। अत्रच शिवविष्णुगणेशादित्यगौर्यादीनां गंगायमुनादि- सरितामन्येषामपि मंत्रयंत्रन्यासध्यानपीठशक्ति तत्तदा वरणार्चनादिविधयो वैदिकमंत्रविधयश्च स्पष्टतया प्रतिपादिताः संति। तदेतन्निखिउजनानां सौलन्याय श्रीमत्पंडितरघुनाथशर्मशास्त्रद्वारा त्रिचतुराद-र्शपुस्तकैः संशोद्धय मया स्वकीये “श्रीवेंकटेश्वर” स्टीम्मुद्रणालये शोभनसीसकाक्षरैः स्वच्छमसृणपुष्टपत्रेषु संमुद्रध प्रकाश्यते। तदत्र सन्तुतरां परः सहस्रा धन्यवादाः श्रीमच्छिवाभ्याम् याभ्यां च परोपका रपराभ्यां स्वरांवादरूपेणावनावेतन्मेरुतंत्रं विश्वजनीनमाविभावितमिति। तदनुयेमहानुभावैर्ने पालानवा-सिपण्डितहारहराचार्यदीक्षितैः पुस्तकप्रदानेनैतन्मुद्रणे साहाय्यं व्यधायि तेभ्योपि परः शताः ससंमदं सन्तु धन्यवादाः।
Reviews
There are no reviews yet.