Panchapadika (पञ्चपादिका)
₹100.00
Author | Swami Madhusudananand Giri |
Publisher | Dakshinamurty Math Prakashan |
Language | Sanskrit |
Edition | 2011 |
ISBN | - |
Pages | 188 |
Cover | Paper Back |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | dmm0034 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
पञ्चपादिका (Panchapadika) सवोंपप्लवरहित-प्रत्यगर्थ-ब्रह्मसाक्षात्कारैकनिबन्धो बन्ध-निवृत्त्यात्मा मोक्ष उत्तमः पुरुषार्थः शमादिमन्निष्ठसमननादिश्रवणफलमिति वेदविदां स्थितिः। तात्पर्यावधारणमपि श्रवणं तर्करूपमिति साम्प्रदायिकाः। प्रमाणानुग्राही तर्क इति तार्किकाः। प्रकाशात्ममुनयस्तु ‘सर्वप्रति-बन्धनिरासि चित्तदर्पणम्’ तर्कपदार्थतया व्याकुर्वन्ति। व्यवस्थितरीत्या वेदान्तविचारो हि निःशेषविशेषविरोधिपरमात्मनि तात्पर्यमुपनिषदां निश्चाययति। अव्यवस्थितविचारेण त्वन्यथाऽन्यथा वेदार्थोपवर्णनं दरीदृश्यते। तत्र व्यवस्थानिर्धारणाय श्रीमद्वादरायणाचार्यः प्रणिनाय चतुर्लक्षणीं मीमांसां शारीरकाभिधाम्। तस्या अर्थमाविश्चकार श्रीमच्छङ्कर भगवत्पादाचार्यः स्वकीयेन प्रसन्नगम्भीरेण भाष्येण। आचार्याणां वरिष्ठः शिष्यः श्रीमत्पद्मपादाख्यो गुरुभक्ततल्लजो बहुवारं कृतश्रवणो मन्त्रोपासनादिनिष्णातो विदुषां वरः। सोत्साहं सूत्रभाष्य-व्याख्यानमसौ लिलेख परं चतुःसूत्रीपर्यन्तमेव तत् ‘पञ्चपादिका’ नाम्ना प्रसिद्धम् उपलभ्यते यदाश्रित्य श्रीप्रकाशात्मा ‘विवरणं’ विरचय्य विवरणप्रस्थानं स्थापयामास।
विशेषतोऽध्यासभाष्याभिप्रायः पञ्चपादिकायामिव न व्याख्यान्तरेषु विस्पष्टं प्राकाशीति मन्यन्तेऽध्येतारः। विवरणप्रमेयसङ्ग्रहः पठनपाठने प्रचलिततरो येन पद्मपादीयभावान् अवगच्छन्ति श्रोतारः किन्तु पद्मपादीयशब्दाऽनभिज्ञा विद्यन्ते। एतदालोच्य व्याख्याद्वयोपेतविवरणसंवलिता पञ्चपादिकाऽस्माभिः प्रकासिता। तथाविधोपस्थापने पुस्तकाकारविशालता जायते, तेन पद्मपादीयमात्रदिदृक्षवोनुभवन्ति काठिन्यम्। अतः पञ्चपादिकामूल-मात्रतयैतत् संस्करणं प्रकाश्यते। प्रतिवर्णकं भाष्यं विभज्य मुद्रितं पाठकसौकर्याय। यद्यपि विवरणादिप्रदत्तप्रकाशं विना नैतादृशाचार्य-तथापि शक्यते मूलमामूलमननुसन्धाय वचसामर्थोऽवगन्तुं व्याख्योहापोहायासो नाऽर्थाय कस्मैचिद् भवति। प्रथमं सूत्राणि ततो भाष्यम् अथ पञ्चपादिकां तदनन्तरं विवरणम् – एवं क्रमशोऽध्ययनम् उपयोगीति मतमध्यापकानाम्। एकैकशो ग्रन्थान् समधीत्य भगवत्पूज्य-पादानामाशयम् अवगच्छेयुरधिकारिण इति श्रीदक्षिणामूर्तिर्भगवान् प्रार्थ्यते।
Reviews
There are no reviews yet.