Pratyak Tattvachintamani Set of 2 Vols. (प्रत्यक्तत्त्वचिन्तामणिः 2 भागो में)
Original price was: ₹1,000.00.₹800.00Current price is: ₹800.00.
Author | Shri Krishnapant Shastri |
Publisher | Bharatiya Book Carporation |
Language | Sanskrit |
Edition | 2008 |
ISBN | 81-85122-37-3 |
Pages | 732 |
Cover | Hard Cover |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | TBVP0283 |
Other | Dispatched in 1-3 day |
10 in stock (can be backordered)
CompareDescription
प्रत्यक्तत्त्वचिन्तामणिः 2 भागो में (Pratyak Tattvachintamani Set of 2 Vols.) जयति सतिलकः प्रत्यक्त्तत्त्वचिन्तामणिर्नाम अद्वैतवेदान्तस्या-मुद्रितपूर्व किमप्यपूर्व ग्रन्थरत्नम्। तस्येमं प्रथमभागमच्युतग्रन्थमालार्या संग्रथ्य सर्वसुलभतां नयतामस्माकमहो प्रमोदभरः। मन्ये द्वितीयोऽप्यस्य भागस्तूर्ण प्रकाशमुपैष्यतीति। ग्रन्थरत्नस्यास्य रचयिता मुकुन्द-पदारविन्दमकरन्दास्वादरतमनोमधुपो ब्रह्मानन्दास्वादलुब्धस्तत्रभवान् विपश्चितामपश्चिमः सदानन्दः। वेदान्तसारनिर्मातुः सदानन्दादयमन्यः। तिलकमपि अस्यैव विदुषः कृतिः। विद्वद्वृन्दवन्दितपदारविन्दः कदायं महीमण्डलं मण्डयामासेत्यनुयोगे ऽमुकवत्सरेऽस्य जनिर्जातेति समाधि-दुरभिधः। परन्त्वस्माद् ग्रन्थान्तिमात्पद्यात –
वेदान्तत्तत्त्वमधिगम्य गुरोः श्रुतेश्च
रामात्परं न किमपीति सदैकबुद्धिः।
विद्वन्मणिर्हि शिवलाल इति प्रतीत
स्तेनाहमीरित इमं कृतवान् निबन्धम्।।
इदमवगम्यते यद् शिवलालमहोदयेन प्रेरितो ग्रन्थकर्त्ता ग्रन्थमि – ‘ममारचितवानिति। शिवलालनामानस्तावदनेके पुरुषधौरेयाः समभूवन्। (१) अद्भुतसंग्रहट्टीकाप्रश्नमनोरमाटीकाप्रणेता एकस्तावद् शिवलालः। (२) जातिशाङ्कर्य्यनाम्नो धर्मशास्त्रनिबन्धस्य रचयिताऽपरः शिवलालशुक्ङः। (३) श्यामलारहस्यनिर्माता तृतीयः शिवलालः। (४) सिद्धान्तबिन्दु-प्रदीपिकाप्रणेता तुरीयः शिवलालशर्मा। वाल्मीकिरामायणस्य सुन्दरीटीकाया रामार्चनसोपानस्य च निर्माता पञ्चमः शिवलालपाठक इत्यादयः। एषु को ग्रन्थकृतोऽस्य प्रेरकः शिवलाल इप्ति गवेषणायां क्रियमाणायां ‘रामात्परं न किमपीति सदैकबुद्धिः’ इति विशेषणेन अन्तिमो रामार्चनसोपानादिप्रणेता शिवलालपाठक एवास्य प्रेरक इति विज्ञायते। अस्य महाभागस्य विषये गणकतरङ्गिण्यामित्यमुट्टङ्कितमस्ति-
त्रिस्कन्धज्यौतिषशास्त्रपारदृश्वा पुराणेतिहासत्तत्त्ववेत्ता तन्त्रविद्यैककुशलो वेदान्तादिदर्शनेष्वपि प्रौढिमान् महाभागो ऽयं निखिले भारते वर्षे परां प्रतीतिमुपगतो रामाराधनप्रधानकृतिः कृती काश्यामसीसङ्गमे न्यवसत्। अस्यैव तनयो रामानन्दपाठकः पुरा काशिकराजकीयपाठशालायां सर्वविद्वन्मूर्द्धन्यत्वेन नियुक्त आसीत्। स यदा तत्र नियुक्तिमुपगतस्तस्मिन्नेवावसरे पुत्रार्जिताङ्गलधनधान्याशनभिया गृहं विहाय श्रीसीतारामचरणारविन्दमकरन्दलुब्धचित्तो विरक्तिमुपागमत्। ज्यौतिपादिविद्याकलापेषु परं प्रावीण्यमुपगतोऽव्ययं वास्तुविद्यायामसाधारणीं चातुरीमादधाति स्म। सङ्गीतविद्यारसिकोऽयं सङ्गीतकला-कुशलस्य कस्यचिद्वालकस्य गानेन सन्तुष्टस्तं वास्तुविद्यामपाठ्यत्। तवंश्या अद्यावधि काश्यां कर्णघण्टासविधे शिल्पचतुरा वास्तुविद्यानिपुणाश्च विद्यन्ते। वाल्मीकिरामायणस्य सुन्दरी नाम टीका रामार्चनसोपानश्च विदुषानेन रचिती। गोस्वामितुलसीदासकृतगन्थेषु विदुषोऽस्य परा प्रीतिरासीद्। एतच्छोधिता तुलसीदासकृतविनयपत्रिका काश्यां ज्योतिर्विद्वर श्यामाचरणशर्मसद्मनि अद्यापि वरीवर्ति। तत्रास्ति पद्यमिदम् –
शोधिता शिवलालेन भूबाण वसुचन्द्रके। वर्षे गीतावलिरियं श्रीसीतारामतुष्टये।।
अस्य निधनसमयो न ज्ञायते। विनयपत्रिकाशोधनकाले १८५१ वैक्रमाब्दे यद्यस्य वयः षष्टिवर्षासन्न’ कल्व्यते तदा जन्म १७६१ बैंक-माब्दे समभूदिति ज्ञायते। भारते वर्षे ऽयमतीव प्रख्यातो विविधविद्यात्तत्त्वकुशलः सिद्धरूपश्चासीदिति वृद्धेभ्यः सर्वत्र श्रूयते इति।
Reviews
There are no reviews yet.