Rudrayamalam Set of 2 Vols. (रुद्रयामलम् 2 भागो में)
Original price was: ₹625.00.₹600.00Current price is: ₹600.00.
Author | Aacharya Sri Ram Prasad Tripathi |
Publisher | Sampurnananad Sanskrit Vishwavidyalay |
Language | Sanskrit |
Edition | 2nd edition |
ISBN | - |
Pages | 863 |
Cover | Hard Cover |
Size | 14 x 7 x 22 (l x w x h) |
Weight | |
Item Code | SSV0013 |
Other | Rudrayamalam Set of 2 Vols. |
9 in stock (can be backordered)
CompareDescription
रुद्रयामलम् 2 भागो में (Rudrayamalam Set of 2 Vols.) चतुःषष्टिसंख्याकेषु तन्त्रग्रन्थेषु “राधाख्यं मालिनीतन्त्रं रुद्रयामलमुत्तमम्” इत्युक्त्या यद्यपि रुद्रयामलस्यापि समावेशो दृश्यते, तथापि “सर्गश्च प्रतिसर्गश्च मन्त्रनिर्णय एव च” इत्यादिलक्षणलक्षितात् तन्त्राद् अष्टलक्षणात्मकं यामलं तदपेक्षया वैलक्षष्येनाभिहितम्। तथा हि-
सृष्टिश्व ज्योतिषाख्यानं नित्यकृत्यप्रदीपनम् ।
क्रमसूत्रं वर्णभेदो जातिभेदस्तथैव च ।
युगधर्मश्च संख्यातो यामलस्याष्टलक्षणम् ।। इति ।
अत्र सृष्टिश्वेत्यत्र चशब्देन प्रतिसर्गस्य ग्रहणम्, अथवा ‘युगधसंश्च’ इत्यत्र ‘युगैः सहितो धर्मः’ अनया रीत्या मध्यमपदलोपिसमासेन युगला, पृथग्धर्मस्य ग्रहणमिति रीत्याऽष्टलक्षणत्व यामलस्य बोध्यम्। अथ च “श्रुतं देव मया सर्व रुद्रयामल-सम्भवम्” इत्यस्मिन् विज्ञानभैरवस्यादिमे पद्ये, “रुद्रयामलमन्त्रस्य सारमद्यावधारितम्’ इत्यस्मिन् तदीयोपान्त्यपद्ये च रुद्रयामलस्य निर्देशः स्पष्टमुपलभ्यते। किञ्च, ‘एवं मन्त्र फलावाप्तिरित्येतद्रुद्रयामलम्’ इत्यस्मिन् परात्रिशिकान्तिमश्लोकेऽपि रुद्रयामलस्य प्रशंसामयी चर्चाऽऽयाति। नित्याषोडशिकाणंबे चतुःषष्टितन्त्रपरिगणनावसरे यामलाष्टक मध्येऽस्य गणना विद्यते। ‘अर्थ रत्नाबल्यादिषूद्धृतमुत्तरषट्कमस्यैव भाग इति तत्पुष्पिकावाक्येभ्यः परिज्ञायते। एवं विशिष्टेष्वागमग्रन्थेषु निर्दिष्टस्यास्य वैशिष्टयं प्राचीनत्वं च निर्विवादम्। ग्रन्थस्यास्य मातृकाः प्रायः सर्वेष्वेव ग्रन्थालयेषु समुपलभ्यन्ते। सन्ति च स्तोत्रपटलादीनि बहूनि पुस्तकानि रुद्रयामलान्तर्गततया निर्दिष्टानि।
Reviews
There are no reviews yet.