Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Sanskrit Nibandh Manjari (संस्कृत निबन्ध मञ्जरी)

Original price was: ₹40.00.Current price is: ₹34.00.

Author Dr. Shiv Prasad Sharma
Publisher Bharatiya Vidya Sansthan
Language Sanskrit
Edition 1st Edition
ISBN -
Pages 111
Cover Paper Back
Size 12 x 1 x 18 (l x w x h)
Weight
Item Code BVS0157
Other -

10 in stock (can be backordered)

Compare

Description

संस्कृत निबन्ध मञ्जरी (Sanskrit Nibandh Manjari) व्याकरणसम्बन्धिदोषरहिता व्यवस्थितक्रिया-कारकसमन्विता या भाषा सा संस्कृतभाषा कथ्यते। सम्प्रति अस्माकं देशे अनेकाः भाषाः प्रचलिताः सन्ति। यथा-हिन्दी-बंगाली-मराठी-गुजराती-उड़िया-आसामी प्रभृतयः। सर्वासां भाषाणां जननी संस्कृतभाषा एव अस्ति। संस्कृतभाषाया एव एतासां भाषाणाम् उत्पत्तिः।

अस्माकं भारतीयानां समस्तं साहित्यमपि संस्कृतभाषायामेव वर्तते। अस्माकं सर्वप्राचीन ग्रन्थाश्चत्वारो वेदाः, उपवेदाः, वेदाङ्गानि, दर्शनशास्त्राणि, धर्मशास्त्रम्, अर्थशास्त्रम्, कामशास्त्रम्, पुराणानि, उपपुराणानि, काव्यम्, नाटकञ्चेत्यादि समग्रमपि विशालं ज्ञानविज्ञानवैभवं संस्कृतभाषायामेव निबद्धं वर्तते। वाह्यसाहित्यातिरिक्तं जैनधर्मस्य बौद्धधर्मस्य च महत्त्वपूर्णाः ग्रन्थाः संस्कृतभाषायाामेव लिखिताः सन्ति।

भारतस्य सम्पूर्ण इतिहासः संस्कृतभाषायामेव निबद्धो वर्तते। देवासुराणाम् आख्यानम्, अवताराणां कथाः, महापुरुषाणां चरित्राणि, राजनैतिका वृत्तान्ताः, वंशोपवंशानां विस्तृतं वर्णनं भारतीयानां विदेशेषु गमनं, स्वसंस्कृतेः प्रचारश्चेति सर्वमपि भारतीयमितिवृत्तं संस्कृतस्यैव रामायणमहाभारतपुराणप्रभृतिषु ग्रन्थेषु समुल्लिखितं वर्तते। महर्षिवाल्मीकिविरचितस्य रामायणस्य द्वैपायनवेदव्यासविरचितस्य महाभारतस्य च लोकोत्तरं महत्त्वं वर्तते संसारे साहित्ये च। संस्कृतम् ऋते भारतीयेतिवृत्तपरिज्ञानाय न अन्यः कोऽपि पन्था विद्यते।

एवञ्च भारतीयानां धर्मः, संस्कृतिः, सभ्यता, इतिहासः, सदाचारादीनां विषयाणां कला, ज्ञानम्, रीतिः, नीतिः, किमपि ज्ञानं संस्कृतं विना नैव भवति। अनेनैव कारणेन भारतीयजनतायाः कृते संस्कृतशिक्षाया महती आवश्यकता वर्तते। यतः भारतस्य प्राणभूते द्वे विद्येते-संस्कृतं संस्कृतिश्च। अत एवोक्तम् – “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” इति। यस्य संस्कृतस्य ज्ञानं न भवति, तस्य भारतीयतायाः किमपि ज्ञानं नैव भविष्यति। भारतराष्ट्रस्य विभिन्नप्रदेशेषु सांस्कृतिकदृष्ट्या ऐक्यसंरक्षणाय संस्कृतस्य महती आवश्यकता वर्तते।

Reviews

There are no reviews yet.

Be the first to review “Sanskrit Nibandh Manjari (संस्कृत निबन्ध मञ्जरी)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×