Shwet Durva (श्वेतदूर्वा)
Original price was: ₹200.00.₹170.00Current price is: ₹170.00.
| Author | Dr. Prabhu Nath Divedi |
| Publisher | Sharda Sanskrit Sansthan |
| Language | Sanskrit |
| Edition | 2nd edition, 2017 |
| ISBN | 978-93-81999-95-0 |
| Pages | 119 |
| Cover | Paper Back |
| Size | 14 x 1 x 22 (l x w x h) |
| Weight | |
| Item Code | SSS0101 |
| Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
श्वेतदूर्वा (Shwet Durva) श्वेतदूर्वा इति कथासङ्ग्रहोऽयं कथाकारस्य प्रभुनाथ द्विवेदिनः स्वोपज्ञानां सस्कृतकथानां द्वितीयो ग्रन्थः। अस्य प्रथमं संस्करणं १९९७ तमे खिस्ताब्दे प्रकाशितमासीत्। तदानीमयमुत्तरप्रदेशसंस्कृतसंस्थानतः १९९८ तमस्य खिष्टाब्दस्य विश्रुतेन ‘बाणभट्ट’ इति सर्वोत्कृष्टगद्यसाहित्य पुरस्कारेण सभाजितः। अस्मिन् सङ्ग्रहे कथाकारस्यैक-विंशतिमिताः कथाः समुल्लसन्ति। एताः सर्वाः कथाः प्रायश आकाशवाणीतः प्रसारिताः कथारसिकानां संस्कृत-विदुषां श्रोतृपेयतां गता लोके हार्दिकीं प्रीतिं समवाप्य संस्कृतजगति प्रथिताः सन्ति।
‘कथा कस्मै न रोचत’ इति लोक एव प्रमाणम्। ‘कथायां सरसं वस्तु गद्यैरेव विनिर्मितमिति सहृदया आचार्याः। तद्वस्तु देशकालोपयोगि नूतनैः कल्पनोत्प्रेक्षाभिः संवलितं कान्तासम्मिततयोपदेशयुगिति विराजते श्वेतदूर्वीयासु कथासु। हार्दान्यभिलषितकथातत्त्वान्यपि मृग्यान्यत्र सुधीभिस्समीक्षकैः। आधुनिकसंस्कृतकथानां चर्चासु ‘श्वेतदूर्वा त्वनिवार्यतया सुमहत्स्थानं प्राप्नोति। एतामधिकृत्य क्वचित्क्वचिद्विश्वविद्यालयेषु शोधकार्याण्यपि प्रवर्तमानानि सन्ति।
कथाकारस्य कथाप्रवृत्तिरप्यत्र काचिदनितर साधारणी। कथोपसंहारे सुप्रयुक्ता फलश्रुतिराविष्करोति नूत्नं विचित्रं मार्गम्। वस्तुगुम्फने, संवादसंयोजने, घटनावर्णने, चरित्रचित्रणे रसाभिव्यक्तौ चाप्रतिमा चातुरी कथाकथननिर्वाहनैपुण्यं च प्रतिभात्येव। कल्पितमपि वस्तु सर्वथाऽनुभूतमिव प्रस्तौति कथाकार इत्यस्य वैदग्ध्यवैलक्षण्यम्। ‘श्वेतदूर्वा’ इति कथोपायनं समादरभाजनमिति प्रमाणयत्यस्या नूतनमद्वितीयं द्वितीयं संस्करणमिति शम्।।








Reviews
There are no reviews yet.