Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Srimad Devi Bhagwat Maha Puran (श्रीमद्देवीभागवतमहापुराण मूलमात्रम्)

250.00

Author -
Publisher Gita Press, Gorakhapur
Language Sanskrit
Edition 11th edition
ISBN -
Pages 645
Cover Hard Cover
Size 19 x 3 x 27 (l x w x h)
Weight
Item Code GP0112
Other Code - 1770

9 in stock (can be backordered)

Compare

Description

श्रीमद्देवीभागवतमहापुराण (Srimad Devi Bhagwat Maha Puranam) लोके सर्वजीवानां कृते मातृभावस्य महन्महिमा वर्तते। जनः स्वसर्वाधिकश्रद्धां स्वभावतः मातृचरणयोरेव समर्पयति यतोहि खलु मातुरङ्के स सर्वप्रथमं लोकदर्शनसौभाग्यं लभते। अतः माता एव सर्वेषां प्राणिनामादिगुरुरूपेण प्रतिष्ठिता। तस्याः कारुण्यमनुग्रहश्च बालकानां ऐहिकपारलौकिककल्याणस्य आधारोऽस्ति; एतस्माद्धेतोः ‘मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव’ – श्रुतिवाक्येष्वेषु सर्वप्रथमं मातुरेव स्थानं विद्यते। या भगवती महाशक्तिस्वरूपिणी देवी तथा समष्टिस्वरूपिणी सर्वजगन्माता अस्ति सैव निखिललोकानां कल्याणपथप्रदर्शिका ज्ञानगुरुभूता वर्तते।

वस्तुतः महाशक्तिरेव परब्रह्मरूपेण प्रतिष्ठिता अस्ति या विभिन्नरूपेषु नानाविधाः लीलाः विद्धाति। तस्या एव शक्त्या ब्रह्मा विश्वं सृजति विष्णुः पालयति शिवः संहरते च; अतः इयमेव जगतः सृष्टिपालनसंहारकारिणी आद्या नारायणी शक्तिरस्ति। एषैव महाशक्तिः नवदुर्गाः दशमहाविद्याश्च; इयमेव अन्नपूर्णा जगद्धात्री कात्यायनी ललिताम्बा चास्ति। गायत्री- भुवनेश्वरीकालीताराबगलाषोडशीत्रिपुराधूमावतीमातङ्गीकमलापद्मावतीदुर्गादयः देव्यः अस्या एव भगवत्याः रूपाणि सन्ति। इयमेव शक्तिमती शक्तिश्च; नरश्च नारी चः इयमेव मातृधातृपितामहादिस्वरूपेण अधिष्ठिता विद्यते।

तात्पर्यमिदं यत् परमात्मरूपा महाशक्तिरेव विविधशक्तिरूपेण सर्वत्र क्रीडां कुरुते – ‘शक्तिक्रीडा जगत् सर्वम्।’ शक्तिराहित्यमेव शून्यता। शक्तिरहितो जनः न कुत्रापि समाद्रियते। ध्रुवप्रह्लादौ भक्तिशक्तिकारणादेव सम्पूजिती विद्येते । गोपाङ्गनाः प्रेमशक्तित्वादेव जगत्पूज्याः बभूवुः। हनुमतः भीष्मस्य च ब्रह्मचर्यशक्तिः वाल्मीकिव्यासयोः कवित्वशक्तिः भीमार्जुनयोः शौर्यशक्तिः हरिश्चन्द्रयुधिष्ठिरयोः सत्यशक्तिः शिवाजी- राणाप्रतापयोर्वीरशक्तिश्चैव एतेभ्यो महात्मभ्यः श्रद्धां समादरं चार्पयितुं सर्वजनान् प्रेरयति। सर्वत्र शक्तेरेव प्राधान्यम्। अतः प्रकारान्तरेण अभिधातुं शक्यते यत् – ‘सम्पूर्ण विश्वं महाशक्तेरेव विलासः।’ देवीभागवते स्वयं भगवती उद्घोषयति ‘सर्वं खल्विदमेवाहं नान्यदस्ति सनातनम्’ अर्थात् अहमेव समस्तं विश्वमस्मि, मदतिरिक्तं अन्यत्किमपि सनातनं तत्त्वं न विद्यते।

अद्यप्रभृति सप्तचत्वारिंशद्वर्षेभ्यः पूर्व कल्याणविशेषाङ्करूपेण ‘संक्षिप्तश्रीमद्देवीभागवत- पुराणाङ्कः’ हिन्दीभाषायां प्रकाशितोऽभवत्। कतिपयदिनेभ्यः इयं भावना आसीद्यत् कल्याणविशेषाङ्करूपेण टीकासहितं मूलश्रीमद्देवीभागवतं प्रकाशितं क्रियेत; किंतु एकस्मिन्नेव वर्षे एतद्विशेषाङ्ककार्य सम्भवं नासीत्। अतः निश्चयो जातः यत् श्रीमद्देवीभागवतपुराणस्य मूलश्लोकसंख्यां प्रदाय तस्य हिन्दीभाषायामनुवादः कल्याणविशेषाङ्करूपेण प्रकाशितो भवेत् तथाच केवलं मूलश्लोकसहितं श्रीमद्देवीभागवतं पुस्तकरूपेण पृथक् प्रकाशितं क्रियेत येन अस्य नियमितपाठे नवाह्नपारायणे च सर्वे सौविध्यं प्राप्नुयुरिति। एतदुद्दिश्य मूलश्रीमद्देवीभागवतं भगवत्कृपया तत्रभवतां समक्ष प्रस्तुतं वर्तते। अग्रे हिन्दीभाषायां अनुवादसहितमूल श्रीमद्देवीभागवतस्य प्रकाशनस्यापि विचारो विद्यते। आशासे पाठकजनाः लाभान्विता भविष्यन्ति।

Reviews

There are no reviews yet.

Be the first to review “Srimad Devi Bhagwat Maha Puran (श्रीमद्देवीभागवतमहापुराण मूलमात्रम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×