Surya Siddhant (सूर्य सिद्धान्त)
Original price was: ₹275.00.₹247.00Current price is: ₹247.00.
Author | Shri Kapileshwar Shastri |
Publisher | Chaukhambha Sanskrit Bhawan |
Language | Sanskrit |
Edition | 2023 |
ISBN | 81-86937-59-5 |
Pages | 268 |
Cover | Paper Back |
Size | 14 x 4 x 22 (l x w x h) |
Weight | |
Item Code | CSSO0603 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
सूर्य सिद्धान्त (Surya Siddhant) सकलेऽस्मिन् ब्रह्माण्डगोले सृष्टेर्मूलमन्त्रस्य भगवतो वेदस्य सस्स्वपि बवङ्गेषु वस्तुतो नेत्रस्वाज् ज्योतिश्शास्त्रस्यापामरं यावान्यादृशओपयोग इति विवेचनं तु करकङ्कणावलोकनार्थं दर्पणान्वेषणमिव प्रयासमात्रमेव। तस्य किल ज्योतिश्शास्त्रस्य सिद्धान्त-होरा-संहितेति स्कन्द्वत्रयम्। स्कन्धश्रयेऽपि सर्वेषामपि मूलभूतत्वात् सर्वया युक्तिमत्त्वाच्च सिद्धान्तः सर्वतः श्रेयानित्यत आह शिरोमणी तत्रभवान् भास्कराचार्यः-
जानन् जातकसंहिताः सगणितस्कन्यैकदेशा अपि
ज्योतिश्शास्त्रविचारसारचतुरप्रश्नेष्वकिञ्चिरकरः ।
यः सिद्धान्तमनन्तयुक्तिविततं नो वेत्ति, भित्तौ यथा
राजा चित्रमयोऽयवा सुघटितः काष्ठस्य कण्ठीरवः ।।
गर्जत कुञ्जरवर्जिता नृपचमूरप्यूर्जिताऽश्वादिकै-
रुद्यानं च्युतचूतवृचमथषा पाथोविहीनं सरः ।
योषित् प्रोषितनूतनप्रियतमा यहून भात्युच्चकै-
उयोंतिरशास्त्रमिदं तथैव विबुधाः सिद्धान्तहीनं जगुः ॥ इति ।।
सिद्धान्तलक्षणच तावद् भास्करोक्तम् –
युव्यादिप्रलयान्तकालकलना मानप्रभेदः क्रमाच्-
चारा थुसदां द्विधा व गणितं प्रश्नास्तथा सोत्तराः ।
भूधिष्ण्य ग्रहस्थितेश्च कधनं यन्त्रादि यत्रोच्यते
सिद्धान्तः स उडाइतोऽन्न गणितस्कन्धप्रबन्धे बुधैः ॥ इति ।।
अद्यत्वे केचनार्याः केचन पौरुषाश्वानेके किल सिद्धान्तग्रन्थाः प्रस्तुता नयनपथ- मुपगता भवन्ति। तत्प्रवत्तंकानां मध्ये प्रथमतः श्रीसूर्यस्य संख्यातमित्यतः श्रीसूर्य- सिद्धान्तः सर्वसिद्धान्तमूलमिति सिद्धान्तेष्वयं महनीय इति।
परच प्रचलितोऽयं सूर्यसिद्धान्तः स एव साक्षात्सूर्यसिद्धान्त उताम्य इति वराह- मिहिर कृतपश्च सिद्धान्तिकान्तर्गतसूर्य सिद्धान्तदर्शनाइ बृहत्संहितायां भट्टोत्पलोद्धृत- सूर्यसिद्धान्तवचनाच्च प्रायो बहूनां सन्देहो भवत्येव, प्रकृतग्रन्ये तेषामदर्शनात्।
अथ च १०३६ शकाब्दकालिकेन ज्योतिविस्कमलप्रभाकरेण श्रीभास्करेण स्व- शिरोमणिभगणोपपत्तो ‘अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः’ इत्यादि श्लोकद्वयं सूर्यसिद्धान्तीयमत्यादरेणोद्धृतं तदस्मिन् ग्रन्ये तादृवेबोपलभ्यतेऽतोऽस्य सिद्धान्तस्य प्रचारो भास्करसमयेऽपि (१०३६ जककाले) आसीदिति। प्रकृतप्रन्या-दिगतेन ‘अल्पावशिष्टे तु कृते’ इत्यादिश्लोकेनास्थ सिद्धान्तस्य रचना कृतयुगान्तेऽभू दिस्वतोऽप मतीव प्राचीन इति धियंवाद्यत्वे सर्वसिद्धान्तापेक्षयाऽस्यैव प्रभुरतरपचारो दृश्यते। भारतीवास्तु सिद्धान्तमिमं वेदवन्मन्यन्ते। तथा हि भट्टकमलाकरः-
वेद एवं रवितम्प्रमथास्य वासना कथनमवपचियां हि ।
दोष एव, न गुणो रविणोक्तं तेन युक्तियुतमेव सद्दोयम् ।। इत्याह ।।
कमलाकरानुमतोऽप्ययमेव प्रचलितः सिद्धान्तस्तद्दन्चे (सिद्धान्ततत्वविवेके १५८० शककालिके) प्रकृतसूर्यसिद्धान्तवचनानां बहुपा सनिवेशाद् गम्यते। अवि चाद भारते पञ्चाङ्गनिर्मातारो विद्वांसः ‘स्पष्टतरः सावित्रः’ इति मन्यमानाः प्रकृतसूर्यसिद्धान्तादेव सौरपन्चाङ्गानि कुर्वन्ति। तेषां ग्रहादिसाधने सौलभ्यकामनया श्रीमकरन्दनामा गणकोऽपि प्रकृतसिद्धान्तसारिणी (मकरन्दसारिणीम्) कृतवानतो- ऽयमेव भूतले सर्वथा पूज्यत इति।
अस्य किलाधिकतरं प्रचारं दृष्ट्वा कियन्तो मान्या मनीषिणोऽस्थ ग्रन्यस्येदानी यावत्कियतीष्टीकाञ्चकुः यासु म० म० पण्डितप्रवरश्रीसुधाकर द्विवेदिकृता ‘सुधावर्षिणी’ टीका वर्तमानाध्ययनाध्यापनपरिपाट धा विनिमिता नामानुरूपगुणशालिता च विद्व- ड्रिनिकाममाद्रिता, परश्च साऽप्यन्यायत्ता (बङ्गीर्यशियाटिकसमितिहस्तगता The Asiatic Society of Bengal) अतो नितरामलभ्या। सुधाविष्या अलाभेध्येतृणामध्यापकानाच वैकल्यं विलोक्य संस्कृतसंस्कृतेरेकतमोपासकेन ‘बाराणसेय-चौक्षम्बासंस्कृतपुस्तकालयाध्यक्षेण गोलोकवासि-क्षेष्टिवर-हरिदासगुहा मज-चाबूत्री जयकृष्णदासगुप्तमहोक्ष्येन पूर्वसम्पादितटीकाभ्यो विशिष्टां विविध- विषयिणीञ्चैको नूतनां टीका सम्पादयितुं काममभ्यथितोऽहमितः पूर्वप्रचलिताः सकलाञ्टीका निकाममवलोक्य ता वाडं विविच्य चाधुनिकप्रणाल्योपपत्यादिलेखन- शैलीशालीनी पूर्वसकलटीका विषविणीं (यथा छात्राणामन्यटोकावलोकनप्रयोजनं न स्वात्तादृशीम् ) आचार्यस्य यथार्थाभिप्रायप्रदशिनीं टीकों “श्रीतश्वामृतभाष्यम्” इति नाम्ना प्रकटितां कृत्वा प्रकाशनार्थमुक्तधेष्ठिमहोदयाय प्रायच्छम्। स च श्रेष्ठिमहोदयो कालेऽस्मिन् कालेऽपि अस्माकमुपकृतये वस्तुमात्रस्याला भेऽपि प्रज्यस्यास्य प्रकाशने महदौदाम्यं प्रकटितवानित्यसौ धन्यवादार्हः।
अय च मनीषिणां पुरतो मदीयमिदं निवेदनं यद विषयोऽयमविगहनोऽयो मानुषधर्मवशान्ममात्पज्ञतया च यदि काचित् त्रुटयो भवतां नयनवदमुपगच्छेयुस्तदा ता अनुकम्पया निजजनकृतधिया संशोध्य द्रुतमेव संसूचनीयोऽहं सम्पादकः प्रकाशको बेत्यलमति विस्तरेण।
Reviews
There are no reviews yet.