Udar Raghavam (उदारराघवम्)
₹40.00
Author | Dr. Reva Prashad Divwedi |
Publisher | Chaukhamba Krishnadas Academy |
Language | Sanskrit |
Edition | 1982 |
ISBN | - |
Pages | 136 |
Cover | Paper Back |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | CSSO0508 |
Other | Old & Rare Book |
9 in stock (can be backordered)
CompareDescription
उदारराघवम् (Udar Raghavam) अथ प्रस्तूयते कविमल्ल-मल्लाचार्यप्रणीतं विषमबोधाख्य-टीकासहितम् ‘उदारराघवं’ नाम महाकाव्यम्। यद्यपीदं ‘गोपालनारायण-जनतया संवत्सरमनुल्लिख्य मुम्बईतः प्रकाशितं तथापि साम्प्रतमिदं दुर्लभमिति कृत्वाऽस्य संपादने प्रवृत्तः। आदिकविः महर्षिः वाल्मीकिः रामायणाख्यं महाकाव्यं रचयामास। तत्पश्चात् अनेके कवयः रामायणाश्रित-काव्यरचनापरा अभवन्। एतस्मात् प्रसिद्धरामायणमन्थात् उपजीव्यरूपेण कथास्तैः स्वीकृताः। रामायणकथा-मवलम्ब्य ये कवयः काव्यग्रन्थान् रचयामासुस्तेषु प्रमुखा अमी-
१. रघुवंशम् : (संस्कृतमहाकाव्यम् ) ईसा पूर्व-प्रथमशतके महाकवि-कालिदास विरचितम्।
२. भट्टिकाव्यम् : (संस्कृतमहाकाव्यम्) पञ्चमशतके महाकविर्भाट्ट-विरचितम्।
३ रामचरितम् : (संस्कृत महाकाव्यम्) नवमशतकेऽभिनन्दविरचितम्, बड़ौदातः प्रकाशितम्।
४ रामायणमञ्जरी : (संस्कृतश्लोकेषु) एकादशशतके महाकविक्षेमेन्द्र-त्रिरचिता; निर्णयसागर मुद्रणालयेन प्रकाशिता।
५. जानकीहरणम् : (संस्कृतमहाकाव्यम्) चतुर्दशशतके महाकवि-कुमारदासविरचितं विंशतिसगात्मकं काव्यम्, प्रयागतः प्रकाशितम्।
६. उदारराधवम् : (संस्कृतमहाकाव्यम्) चतुर्दशशतके श्रीमत्कविमल्ल-मल्लाचार्यविरचितम्, मुम्बईतः प्रकाशितम्।
इदं काव्यम् ‘इति श्रीमत्सुखस्वप्नाकलितरघुनाथदत्तवरप्रसादसहज-सारस्त्रत श्रीशा कल्ल पदाङ्कितमाधव सुघीतनयक विमल्लाचार्यविरचिते ‘उदार-राघवे’ महाकाव्ये प्रथमः सर्गः’ इति सर्गसमाप्तौ उल्लेखाद् माधवसुधी-तनय-कत्रिमल्लाचार्येण प्रणीतमित्यवगम्यते। ‘कविमल्ल’ पदवीकः अयं मल्लाचार्यः शिङ्गभूपालस्य (1330A.D.) समकालीनः आसीत्।
Reviews
There are no reviews yet.