Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-20%

Vaiyakaran Siddhant Kaumudi Set of 4 Vols. (वैयाकरणसिद्धान्तकौमुदि 4 भाग में)

Original price was: ₹1,000.00.Current price is: ₹800.00.

Author Dr. Parmeshwar Datt Shukl
Publisher Bharatiya Vidya Sansthan
Language Sanskrit
Edition 1st edition, 2010
ISBN 81-87415-97-5
Pages 3223
Cover Paper Back
Size 12 x 3 x 18 (l x w x h)
Weight
Item Code BVS0162
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

वैयाकरणसिद्धान्तकौमुदि 4 भागो में (Vaiyakaran Siddhant Kaumudi Set of 4 Vols.) संस्कृतभाषा प्राचीनभारतीय आर्यभाषा इत्यप्युच्यते। भारतवर्षस्येयं प्राचीनतमा भाषास्ति। इयं देववाणी, देवभाषा वेति कथ्यते। वेदाविर्भावानन्तरमियं भाषा वैदिकभाषारूपेण प्रचलिता, पुनः ऋषिभिः संस्कृता सरलीकृता च ‘संस्कृत’ संज्ञामवाप। आधुनिका भाषावैज्ञानिका वैदिकभाषायाः कालं १५०० ईशवीयवर्षपूर्वतः ५०० ईशवीयवर्षपूर्वयावत् स्वीकुर्वन्ति। तेषाम्मते पाणिनेः पूर्वकालं यावद्वैदिकभाषायाः समयः पाणिनेराचार्यस्य कालश्चेशवीयसंवत्सरात् पञ्चशतवर्षपूर्वमिति; परन्तु प्रमाणाभावान्नेदं समीचीनम्। अस्माकमार्याणाम्मते वैवस्वतमन्वन्तरमेव मनुष्योत्पत्तिकालः, वैवस्वतमन्वन्तरे मनुष्योत्पत्त्यनन्तरमेव परमेश्वरेण मूलमनुष्याणां हृदयेष्वादिज्ञानं वेदज्ञानं प्रकाशितम्, तस्य भाषा वैदिकसंस्कृतभाषा आसीत्। वाल्मीकीय-रामायणरचनाकालाल्लौकिकसंस्कृतभाषायाः काल आरभ्यते, वाल्मीकीयरामायणे संस्कृतभाषायाः कृते ‘मानुषी, संस्कृता’ इति शब्दप्रयोगदर्शनात्। यतो हि इह संसारे सर्वांसामपि प्रवृत्तानां विद्यानाम्मूलं वेद एव, अतो व्याकरणशास्त्रस्यापि मूलं वेद एव। व्याकरणशास्त्रस्योत्पत्तिः कदा सञ्जातेति विषये निश्चितरूपेण किञ्चित्कथनन्तु दुष्करमेव, परन्तुपलब्धवैदिकपदपाठानां रचनाकालात्यागेव संस्कृतव्याकरणशास्त्रस्य पूर्णत्वं सञ्जातमासीदिति तु प्रायेण निक्षप्रचमेव। व्याकरण-शास्त्रस्य प्रथमो प्रवक्ता ब्रह्मा, द्वितीयः बृहस्पति, तृतीयः चन्द्र, चतुर्थः वायुः, पञ्चमः भरद्वाजः, षष्ठः भागुरिः, सप्तमः पौष्करसादिः, अण्मः चारायणः, नवमः काशकृत्स्नः दशमन शन्तनुर्वर्तते। संस्कृतव्याकरणशास्त्रस्य उनकर्तारश्च वैयाघ्रपद्य- गार्ग्य-गालव-शाकल्यो बभूव।

व्याकरणशाखे सम्प्रदायद्वयं प्रसिद्धमस्ति माहेश्वरमैन्द्रश। तत्र माहेश्वरसम्प्रदायप्रवर्तकः महेश्वरः। स एव व्याकरणशास्त्रप्रवचनं चकारेति सारस्वतभाष्यश्लोकात्मकपाणिनीयशिक्षा-नन्दिकेचरकाशिका-हैमबृहद्वत्यवचूर्णिग्रन्थावलोकनेन ज्ञायते। महेश्वरः पाणिनये चतुर्दशसूत्राण्युपदिदेश, यानि माहेश्वरसूत्राणीत्युच्यन्ते। तानि सूत्राण्येवाधारीकृत्य पाणिनिः अष्टाध्यायीग्रन्थम्प्रणिनाय। ग्रन्थोऽयं विचस्मित्रद्वितीयो वैज्ञानिकः संस्कृत-भाषाव्याकरणप्रतिपादकः सन् लौकिकवैदिकोभयशब्दाननुशास्ति। वैक्रमपञ्चदशशतके व्याकरणशास्त्रस्य परमाचार्येण भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुदी विलिखिता। व्याकरणशास्त्रस्याध्ययनाध्यापनपरम्परायर्या नव्यव्याकरण-रूपेणास्यानुपमग्रन्थस्य पाणिनीयाष्टाध्याया इव मौलिकत्वमौपयोगिकत्वज्ञ विद्यते। अप्पदीक्षितशिष्यो भट्टोजिदीक्षितः शब्दकौस्तुभ औडमनोरमा-लिङ्गानुशासनवृत्ति-वैयाकरणमतोन्मज्जनग्रन्थानपि व्यरचयत्।

Reviews

There are no reviews yet.

Be the first to review “Vaiyakaran Siddhant Kaumudi Set of 4 Vols. (वैयाकरणसिद्धान्तकौमुदि 4 भाग में)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×