Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Karmath Guru (कर्मठगुरुः)

127.00

Author Mukund Vallabh Mishra
Publisher Motilal Banarasidas
Language Sanskrit
Edition 2016
ISBN 978-81-208-2359-4
Pages 312
Cover Paper Back
Size 14 x 1 x 21 (l x w x h)
Weight
Item Code MLBD0018
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

कर्मठगुरुः (Karmath Guru) भद्रपुरुषाः पुनः कथयन्तो यद् अहो कथं नु खल्वास्माकीने व्यापारप्रचुरे अथ च हास्यमये जीवने बंदिकं कर्मदं शोमनतया सम्पन्नं भवितुं शक्नोति ? एवमेवं विचारान्मानमे पुरस्कुर्वन्तो न ते किमपि समनुष्ठातु पारयन्त इत्येवं समस्तामपि अनुकूलतां प्रतिकूलताञ्च सोहापोहं सुविचार्य कर्मलोपमायान्मया ‘कर्मठगुरुः’ इत्येवान्वर्थाभिधानो व्यरचि। अस्मिन् हि प्रथमे नित्यकर्मप्रकरणे सनित्यकर्मवर्णनपुरस्सरं नित्यकर्मोपयुक्तानि प्रामाणिकैष्टिप्पणैः विशदीकृत्य सप्रमाणान्येवंविधया लिखितानि सन्ति, यद ईषद्‌गीर्वाणबाण्यां लेखने पठने च परिचयवतामपि धार्मिकाणां सज्जनानां निस्सन्देहं कर्मणां समनुष्ठाने सामथ्यं भवेत्। अथ च येऽस्मिन् ग्रन्थे लिखितानि सन्ध्यातपंणादीनि पूजनादीनि (यानि मया समासतो लिखितानि सन्ति) अप्यत्यन्तं व्यापारासक्ततया भरण्यभुजां वृत्त्या जीवितुं शोलितया वा न समनुष्ठातुं शक्नुवन्ति।

तेषां कृते सूक्ष्मतया “गायत्रीमात्रसारोपि” इत्यादिवचनानुरोधेन संध्यातर्पण-पूजनाद्यपि यथास्थानं सुलिखितमस्ति यत् सर्वेऽपि धार्मिका जनाः कतिपयेष्वेव क्षणेषु सम्पाद्य स्वात्मानं पावयितुं शक्नुयुः। अथ च कर्मणां लोपतः समुत्पन्नेभ्यो घोरेभ्यो दोषेभ्योऽपि न दूषिता भवेयुः। यत् कर्म मया संक्षेपतो लिखितमस्ति कर्मणि कथमपि काचिदपि त्रुटिर्मा भवत्विति पूर्णतया विचिन्तितमस्ति कर्मणां प्रत्यवायोऽपि मा भवतु, ईषदेव च समये कर्माणि सर्वाण्यपि सुसम्पन्नानि भवन्तु इत्येवं रीत्या कर्मणां सरणिरियं समारचितास्ति। तत्तत्कमं प्रतिपादनेन सहैव च बहूनां शरीरस्य स्वास्थ्यं वृंह्यतां बलोपलितज-रादिनाशकानामय च तत्तद्रोगनाशकानां साम्प्रदायिकानां सिद्धगुरूणां वदनारविन्दतः प्राप्तानां सङ्केतानामपि स्थाने स्थाने समुपयुक्ततया मणोनामिव हारेषु निबद्धध शोभनतया संग्रहोऽयं विहितोः स्ति । इदन्च सकलं सावधानतया निपुणं निरूपणेन प्रन्यस्य विज्ञास्यते।

द्वितीये नैमित्तिकप्रकरणे हिताय विप्रवटूनामय च पौरोहित्यवृत्तिजीविनामपि च जिज्ञासूनां क्षत्रियादियजमानानां कृते वरणविधानं संकल्पविधानमुपयोगिस्तोत्रादिकं दान-विधि-जप-पाठप्रयोगादिकमपि यथामति सटिप्पणं व्यधायि।

तृतीये पूजाहोमप्रकरणे पूजनविधानस्यैतादृशी सरणिरवलम्बिता यस्यां खलु सर्वप्रयोगयज्ञोपयुक्त पूजा-ह्वनादिसवं कृत्य कर्तव्यता-सीकव्यं वेविद्यते। कि बहुना बालोऽपि विद्वज्जनसमक्षेऽस्य साङ्गोपाङ्गपूजा होमप्रकरणस्य शैलीमवलम्ब्य सोत्साहं सहर्षश्व सर्वमुपनयन-विवाह्यज्ञादिकृत्यं सम्पादयितुं शक्तो भवतीति में प्रत्ययः। शङ्कायुक्तेषु स्थानेषु टिप्पण्यो नियोजिताः।

चतुर्थे काम्यकमंप्रकरणे शास्त्रान्तरेभ्यो विशेषतो यजुर्वेदार्थवेदाभ्यान्च पुत्रेश्यिज्ञार्हान् मन्त्रान् संगृह्य बहुधा कार्यसिद्धि विलोक्य जातप्रत्ययः पुत्रेष्टिविधानम्, अग्निनिर्वाणस्य चमत्कारिकौशल, पञ्चदशीयन्त्रस्य गुप्ततन्त्रमार्गानुसारिणः सिद्धप्रयोगान्. सद्यः प्रत्यक्षफलदानानुभूतिसम्पन्नांश्च यथास्थानं न्यवेशयमम्। यथा चेदं सर्वं तथाऽऽद्योपान्तग्रन्य-दर्शनान्तरमेव सहृदयविवेचकानां पाठक महोदयानाम् दृष्टिपथमेध्यत्येवालमतिपल्लवितेन।

Reviews

There are no reviews yet.

Be the first to review “Karmath Guru (कर्मठगुरुः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×