Dharma Shastra Ka Itihas Vol. 1 (धर्मशास्त्रस्येतिहास: प्रथम भागः)
₹212.00
Author | Pro. Jaykrishna Mishr |
Publisher | Chaukhamba Sanskrit Series Office |
Language | Sanskrit & Hindi |
Edition | 2023 |
ISBN | 978-81-7080-333-1 |
Pages | 284 |
Cover | Paper Back |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | CSSO0375 |
Other | Dispatched in 1-3 days |
9 in stock (can be backordered)
CompareDescription
धर्मशास्त्रस्येतिहास: प्रथम भागः (Dharma Shastra Ka Itihas Vol. 1) ‘धर्मो रक्षति रक्षितः’ इति मनुवचनं धर्मपालनार्थं धर्मरक्षणार्थं च सर्वदोपदिशति। धर्मपालनस्यावश्यकतामनुभूय प्राचीनश्चाग्रगण्यः स्मृतिकारः मनुः स्वस्मृतौ धर्मपालकं धर्मरक्षकं च सर्वदा वैशिष्ट्यं प्रददाति। धर्मः धर्महन्तारं घातयति, धर्मरक्षकं सर्वात्मना पाति, आश्रयं च ददाति। धर्मशास्त्रोक्ताः निखिलाः विषयाः श्रुत्यनुमापकत्वेन प्रमाणभूताः भवन्ति। ते सर्वे विषयाः प्रवृत्तिधर्मं निवृत्तिधर्मं चोपदिशन्ति। भगवान् वेदोऽपि धर्मस्य वृषस्वरूपं प्रतिपादयति। स च धर्मपालकस्याभिलषितफलप्रदानान्मन्वादिभिः वृष इति उच्यते। तस्यैव धर्मवृषस्य त्रयः पादाः आचारव्यवहारप्रायश्चित्त-काण्डत्रयरूपाः भवन्ति। तदनुसारं धर्मशास्त्रस्य विषयाः आचारव्यवहार-प्रायश्चित्तभेदेन त्रिधा विभज्यन्ते।
धर्मशास्त्रे धर्ममाधारीकृत्य मोक्षादीनां पुरुषार्थानां प्राप्तिः प्रतिपादिता। धर्मः श्रौतस्मार्त्तभेदेन द्विधा विभक्तः। स्मार्त्तधर्मः धर्मशास्त्रस्य विषयीभूतः। धर्मशास्त्रे सज्जनैः क्रियमाणाः सकलधर्मार्जनविधयस्तथाऽधर्मनिवारणाय प्रतिषेधा अपि प्रतिपादिताः सन्ति। धर्मस्य तत्त्वं मानवस्य समग्रजीवनमभिव्याप्योपदिष्टम्। स्मार्त्तधर्मः षड्विधो भवति। षड्विधेषु स्मार्त्तधर्मेषु चतुर्णां प्रतिपादनमाचारकाण्डे भवति। धर्मज्ञानां शिष्टानामाचरणमाश्रित्य धर्मे आचारस्य प्रामाण्यं स्वीक्रियते। आचारपरिपालनमेव भारतीयधर्मस्य परमं वैशिष्ट्यम्।
वेदस्य निखिलभागस्य धर्मप्रतिपादकत्वेन तस्यैव शास्त्रत्वे प्रामाण्यम्। सर्ववेदद्रष्टत्वेन च मनुरेव प्रमाणम्। अन्येषां वेदाङ्गानां मीमांसादीनामपि वेदैः परम्परया सम्बन्धानां न धर्मशास्त्रवत् प्रत्यक्षसम्बन्धः। मन्वादिप्रणीतान्येव शास्त्राणि धर्मशास्त्राणीति आर्यजनपरम्पराप्रसिद्धानि। वेदान्तर्गतानां निखिलविषयाणां प्रतिपादकत्वाद् धर्मशास्त्रं भारतीयधार्मिकसाहित्ये वैशिष्ट्यं धारयति। वेदानन्तरं धर्मप्रामाण्ये स्मृतेरेव मान्यतायाः स्वीकृतत्वात् श्रुतेश्च विप्रकीर्णत्वेनालब्धत्वात्सनातनीये धर्मे धर्मशास्त्रग्रन्थानां मौलिक महत्त्वं विद्यते। धर्मशास्त्रस्य कालः निरुक्तकारस्य यास्कस्य कालादेव परिगण्यते। धर्मसूत्रकाराः धर्मशास्त्रीयविषयान् विश्लेषयन्ति। धर्मसूत्रकारेषु गौतमः धर्मशास्त्रस्य प्रचलनं वैदिककालेऽप्यासीदिति प्रतिपादयतिं। वेदज्ञः महर्षिमनुरपि धर्मशास्त्रीयविषयाणामुपस्थापनं करोति।
Reviews
There are no reviews yet.