Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-35%

Ishadi Vishottara Shatopnishad (ईशादीविशोत्तरशतोपनिषदः)

517.00

Author Narayan Ram Aacharya
Publisher Shri Kashi Vishwanath Sansthan
Language Sanskrit
Edition 1st edition, 2023
ISBN 978-93-92989-07-0
Pages 664
Cover Hard Cover
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code TBVP0268
Other A Compilation Of Well-Known 120 Upanisads

 

10 in stock (can be backordered)

Compare

Description

ईशादीविशोत्तरशतोपनिषदः (Ishadi Vishottara Shatopnishad) अगाधेऽस्मिन्भवचक्रेऽतिकरालनिबिडान्धकारसंज्ञकेऽति भयंकरे परिवर्तमानानां निजनिजार्जितानुगुणमनुगतत्रिविधतापतप्ताना-मैकान्तिकात्यन्तिकदुःखनिवृत्तिसाधनतया चतुर्विधपुरुषार्थान्यत-मपुरुषार्थोपायमभिवाञ्छतां प्रेक्षावतां धीमतां पुरुषार्थान्वेषणा तावदादौ भवतीति निर्विवादमेव। अन्त्र स्वर्गापवर्गमात्रे नैसर्गिक-मोहान्धकार विलुप्तालोकस्य लोकस्य शास्त्रमेव प्रकाशस्तदेव च दिव्यं चक्षुरस्मदादेरिति तदेवाधिगन्तव्यम्। तच्च कर्मब्रह्मोपासनात्मकम्। तत्प्रतिपादका वेदाश्च सन्ति स्वतःप्रमाणभूताः। तत्र वेद-वाक्यानां ‘उदिते जुहोति’ ‘अनुदिते जुहोति’ इत्यादि प्रायः परस्पर-विरुद्धार्थाभिधायकत्वेन व्यवस्थितवेद्वाक्यार्थानवधारणात्तद्व्यव-स्थायै वेदवाक्यार्थविचारात्मिकां पूर्वमीमांसां सुगृहीतनामधेयो जैमिनिः सूत्रयांबभूव। तया च साक्षाद्विध्येकवाक्यतया सर्वेषां वेदवचसां कर्मपरत्वं प्रत्यपीपदत्। तदेव च यथावदाराधितं धर्मार्थकामरूपत्रिविधपुरुषार्थवितरणक्षममिति निगमागमराद्धान्तः।

आचार्यास्तु सर्वासां श्रुतिप्रमाणानां ब्रह्मणि समन्वयं कृत्वा सर्वमिदमद्वितीयं ब्रह्म पारमार्थिकं भेददृष्टिश्चाविद्योपादाना तन्ना-शश्चाद्वितीयात्मज्ञानेन ततश्चैकान्तिकात्यन्तदुःखनिवृत्तिश्चतुर्थपुरुषा-र्थावाप्तिर्भवति। अयमेव पुरुषार्थो मोक्षाख्यश्चतुर्वन्तिमत्वेन गृहीतोऽप्यभ्यर्हितत्वाच्छ्रेष्ठ उपनिषज्ज्ञानैकसाध्यश्च। निःश्रेयससा-धनात्मैक्यप्रतिपत्तिहेतुतयैव ह्युपनिषदो रहस्यपदेनाभिलपन्ति वेदान्तविज्ञानचणाः। उपनिषच्छब्दश्च मुख्यवृत्त्या ब्रह्मविद्याम-भिदधाति। तथा हि उपनिपूर्वकस्य विशरणगत्यवसाद‌नार्थस्य षदुधातोः किप्प्रत्ययान्तस्येदं रूपमुपनिषदिति तत्र उप-उपगम्य गुरूपदेशाङब्ध्वेति यावत्। उपस्थितत्वाद्ब्रह्मविद्यां नि निश्चयेन तन्निष्ठतया परिशीलयन्ति ये दृष्टानुश्रविकविषयवितृष्णाः सन्त-स्तेषामविद्यादेः संसारबीजस्य सद् विशरणकर्जी शिथिलयित्री, अवसाद‌यित्री विनाशयित्री, अथवा पूर्वोक्तविशेषणविशिष्टानां मुमुक्षुणां ब्रह्मगमयित्रीति तत्तदवयवैरर्थसमर्पणात् । उपनिष-च्छब्दवाच्यब्रह्मविद्याहेतुतया च तत्प्रतिपादकग्रन्थेऽप्युपनिपच्छब्दो गौण्या वृत्त्या वर्तते। प्रसङ्गात्प्रपश्चितमीप‌त्रास्तां पल्लवितेन।

Reviews

There are no reviews yet.

Be the first to review “Ishadi Vishottara Shatopnishad (ईशादीविशोत्तरशतोपनिषदः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×