Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-10%

Kashika Vritti Set Of 6 Vols. (काशिकावृत्ति: 6 भागो में)

2,565.00

Author Dr. Shree Narayan Mishra
Publisher Ratna Publications
Language Sanskrit
Edition -
ISBN -
Pages 4459
Cover Hard Cover
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code RPV0003
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

काशिकावृत्ति: 6 भागो में (Kashika Vritti Set Of 6 Vols.)

इह शिष्ट।ऽनुशिष्टनां शिष्टानामपि सर्वथा।
वाचामेव प्रसादेन लोकयात्रा प्रवत्तते।।

शब्दमन्तरेण कोपि लोको न स्वाभिप्रायमन्यत्र सम्यक् प्रापयितुं समर्थ इति हेतोर्मानवजीवने शब्दस्यातिमहत्त्वं सुविदितमेव सर्वेषाम्। स चायं शब्दो वाक्यात्मक एव, तत एवाभिप्रायस‌ङ्क्रान्त्युपपत्तेः। अत एव वाक्यस्फोटमेव वैयाकरणा-स्तात्त्विकं मन्यन्ते। येऽपि स्फोटं नाङ्गीकुर्वन्ति नैयायिकादयस्तेऽपि वाक्यभावम-वाप्तादेव शब्दादर्थबोधमिच्छन्ति। अतो वाक्यस्यैवान्ततो लोकोपयोगित्व-मास्थेयमेव। तत्र च वैखर्या उत्पादविनाशशालित्वाद् वर्णानां तद्घटितत्वेनाभिमतानां च पदानां संहिताऽसम्भवाद् वर्णमात्रस्य चावाचकत्वादनुभवक्रमेणानुभूतविषयक-संस्कारोद्बोधनियमाभावाच्च व्यवस्थितस्मरणानुपपत्तेर्वेखर्या अर्थबोधानुपपत्ति मन्यमानैः शब्दशास्त्रविद्भिः अखण्डस्फोटात्मकवाक्यस्यैव यद्यपि पारमार्थिकत्वम-भ्युपगतं तथापि लाघवेन शब्दतत्त्वावगमाय पदादिविभागः कल्पितः। तत्रापि प्रतिपदपाठे शब्दतत्त्वावबोधासम्भवात् सामान्यविशेषलक्षणात्मकं शब्दानुशासनं नाम व्याकरणशास्त्रं वहुभिर्मनीषिभिर्भानरमायि यत्र व्यापकत्वादिहेतोः पाणिन्यु-पज्ञमेव तदष्टाध्यायीतिनामकं सर्वातिशायीति निविप्रतिपन्नं विदुषाम्।

तदस्या अष्टाध्याय्या अतिसंक्षिप्तत्वात्तत्तात्पर्यावगमाय भगवता पतञ्जलिना महाभाष्ये विरचितेऽपि तस्यातिविस्तृतत्वादर्थंगम्भीरत्वाच्च न तन्मात्रेण सर्वेषा-मर्थवोधः सम्भवतीति हेतोः सूत्रार्थप्रधानाः कतिचन वृत्तयोऽष्टाध्याय्याः श्वोभूत्या-दिभिराचार्यैग्रंथिता अपि नेदानीमुपलब्धा इति हेतोरिष्ट्युपसंख्यानादिविशिष्टत्वा-दुपलभ्यमानत्वाच्च ६५०-७०० खीस्ताब्दोद्भूतजयादित्य-वामनविरचिता काशिका-नाम्नी वृत्तिवद्वत्सु चिरादेव विश्रुतास्ते।

सम्प्रति चोपलभ्यमानायामख्यां वृत्तौ जयादित्यस्य वामनस्य च कियानंश इत्यत्र निर्णयो दुःशक एवेति निवेदितपूर्वमस्माभिः काशीसंस्कृतग्रन्थमालायां २०२६ विक्रमाब्दे प्रकाशितायाः काशिकायाः प्रस्तावनायां विस्तरेणेति जिज्ञासु-भिरवलोकनीया सा। काशिकाकर्तुः कालादिविषयेऽपि तत्रैव द्रष्टव्यम् सेयं काशिकापि कालक्रमेणाध्येतॄणां न सुखावबोधा समतिष्ठतेति कृत्वा चिरन्तनैराचार्यैरस्या विविधाष्टीकाः कृताः। तत्राधुना जिनेन्द्रबुद्धिरचिता न्यासा-परनाम्नी पञ्चिका हरदत्तमिश्रग्रथिता पदमञ्जरी चेति द्वे एव व्याख्ये प्राचीनतमत्वेन प्रत्यभिज्ञायेते। अतश्चानेकशो मुद्रितेयं वृत्तिव्र्व्याख्याद्वयसनाथा। अन्तिममस्या मुद्रणं वाराणसेयतारापब्लिकेशन्स इत्यनेन कृतम्। अस्य संस्करणस्य सम्पादकाः श्रद्धेयाः संस्कृतविश्वविद्यालयीयव्याकरणविभागाध्यक्षचराः श्रीमन्तः कालिका-प्रसादशुक्लमहाशयाः श्रीमन्तो द्वारिकादासशास्त्रिमहोदयाश्च। पर्यवसन्नप्राये चास्मिन् संस्करणे तारापब्लिकेशन्स इत्यस्यार्थांशभाजा रत्नाप्रकाशन-व्यवस्थापकेन श्रीमताविनयशङ्करशर्मणा निवेदिता वयमिमां व्याख्याद्वयोपस्कृतां वृत्ति पुनरपि सम्पादयितुं प्रवृत्ताः। तत्रेदानीं प्रतिबिम्बमात्रग्रहणाग्रहजुषः प्रकाशकस्यानुरोधेन वृत्तेरस्याः प्रथमो भागः प्रकाश्यते। एतादृशप्रकाशने यद्यपि अशुद्धिबहुलाया वृत्तेस्त-ट्टीकयोश्च संशोधनमसम्भवप्रायन्तथापि यत्र कुत्रचिद् यथामति संशोधनं विहित-मस्माभिः। वृत्ती, विशेषेण छान्दसोदाहरणप्रत्युदाहरणादिसंशोधनप्रसङ्गे उस्मा-नियाविश्वविद्यालयस्थसंस्कृतपरिषदा प्रकाशिताया वृत्तेः बहु साहाय्यमवाप्तम् इति तत्सम्पादकानामाधमर्ण्य स्मरणीयमेव। यत्र कचन प्रमाणान्तरसम्वादं प्रबलं मन्यमानैरस्माभिस्तदीयः पाठ उपेक्षितोऽपि। तारायन्त्रालयीयं प्रथमसंस्करणं त्वस्य संस्करणस्योपादानभूतमेवेति तत्सम्पादकानां साहाय्यमप्यविस्मरणीयम्। परन्तु व्याख्ये सर्वस्मिन्नेव संस्करणेऽशुद्धिबहुले। विरामचिह्नादिव्यत्यासेनापि बहुत्रानर्थ-करोर्थभेदः। अतोऽतिविस्तीर्णगम्भीरयोव्र्याख्ययोरपि पाठो यथामति संशोधितः वचित् क्वचित्। इदमुक्तपूर्वमेव यत्प्रतिबिम्बग्रहणे पूर्णतः संशोधनमसम्भवम्, स्थानाभावाद्दीर्घकालसापेक्षत्वाच्चास्य। प्रकाशकः पुनर्न तावन्तं कालं प्रतीक्षितुं समर्थः। अतोऽन्ते क्रमेण कियत्सु स्थलेषु उभयोरपि व्याख्ययोः का पाठाऽव्यवस्था कथं च संशोधनं कर्त्तव्यमिति दिङ्‌मात्रं प्रदश्यते।

Reviews

There are no reviews yet.

Be the first to review “Kashika Vritti Set Of 6 Vols. (काशिकावृत्ति: 6 भागो में)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×