Kiratarjuniyam 3-6 Sarg (किरातार्जुनीयम् 3-6 सर्ग:)
₹75.00
Author | Dr. Narmdeshwar Kumar Tripathi |
Publisher | Sharda Sanskrit Sansthan |
Language | Sanskrit & Hindi |
Edition | - |
ISBN | - |
Pages | 178 |
Cover | Paper Back |
Size | 12 x 1 x 17 (l x w x h) |
Weight | |
Item Code | SSS0022 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
किरातार्जुनीयम् 3-6 सर्ग: (Kiratarjuniyam 3-6 Sarg) महाकविमौलिमुकुटमणिभूतः किरातार्जुनीयप्रणेता महापुरुषः कः? कां वा वसुमतीमयमलमकरोत् ? कतमद्वा कुलमनेन स्वजन्मनालंकृतम् ? कस्य वावनीनायकस्य संसदनेन स्वप्रतिभाप्रभाभिरलम्प्राकाश्यत ? ऐतिहासिकः कश्चित्प्रबन्धोऽपीहासाद्यते न वा? कदा वायमिममिलामण्डलं मण्डयामास ? कथं वास्य प्रवृत्तिरस्यां महाकाव्यरचनायाम् ? कथञ्च व्यावहारिकं विज्ञानम् ? इयञ्च कृतिः कस्यचित्तुलामधिरोहति न वा? शास्त्रान्तरेषु पाण्डित्यं कियत् ? कीदृशञ्च ? कीदृशश्चास्यादर्शः? कीदृशी च काव्यप्रणयन-प्रणालिः? कं वावलम्ब्य प्रणीतमेतन्महाकाव्यम् ? के वामुष्य कृतौ गुणाः, के च दोषाः? के चास्य पूर्वकालिकाः कवयः, के चोत्तरकालिकाः? अस्य टीकाकाराः कियन्तः, के च ते, अन्यापि काचिदस्ति न वा कृतिप्रवृत्ति- रित्यादिविषया यदि स्वल्पेऽस्मिन् भागे समालोचिता भवेयुस्तदा नून ग्रन्थगौरवमापद्येतेति संक्षेपेणैव किञ्चिदेवेहालोच्यते। अस्य विस्तरस्तु ‘महाकविर्माघः महाकविर्भारविर्दामोदरश्च’ इति स्वतन्त्रे प्रवन्धे सुविहित इति नूनमवलोकनीयोऽयं तदीयमैतिह्यमधिजिगमिषुभिः पुरातत्त्वान्वेषणविचक्षणेः सहृदयैः। कोऽयं महापुरुषः कतमश्चास्य देश अयं महामहिमशाली नैकदिग्विदितकीर्तिमाली पुरातनकविविधातृप्रसवित्र्या भारतभूमेर्भूतिभूतो ‘दामोदर’ इत्यभिधो महाकविर्भारविर्दक्षिणप्रान्तान्तगर्त ‘अचलपुर’ (एलिच्पुर) वास्तव्य आसीत्।
कतमद्वा कुलमनेन स्वजन्मनालंकृतम्: कंस्मिन् वंशेऽयं समुत्पन्न इत्यत्र यद्यपि सिद्धान्ततया किमपि प्रतिपादयितुं न शक्यते तथापि एतत्प्रबन्धनायकस्य नप्तृप्रणीतावन्तिसुन्दरीकथासारस्यालोचनया ‘कौशिक’ गोत्रावतंसस्य नासिक्य (नागपुर) प्रान्तान्तर्गतस्याचलपुर (एलिचपुर) वास्तव्यस्य श्रीनारायणस्वामिनः कुलमलञ्चकारेति सुस्पष्टं प्रतीयते। कस्य महीपतेरास्थाने न्यवात्सीत्:- असौ प्रथमं चालुक्यवंशीयस्य राज्ञो विष्णुवर्धनस्य ततो गाङ्गेयकुलावतंसस्य श्रीमतो दुर्विनीताभिधानस्य ततश्च पल्लववंशीयस्य राज्ञः सिंहविष्णोश्च संसदलमकरोत्।
कथमस्य प्रवृत्तिर्महाकाव्यरचनायाम् अस्यां महाकाव्यरचनायामस्य काचिद्विशिष्टा प्रवृत्तिर्न प्रतीयते, कविकलाकौशलख्यापनाय काव्यरचनापाट-वपरीक्षणायैव वा विरचितं भवेदित्यनुमीयते। यतो हि राजशेखरः काव्यकारपरीक्षणावसरे कविगणनायामेनमपि उल्लिलेख। तद्यथा-“राजा कविः कविसमाजं विदधीत। राजनि कवौ सर्वो लोकः कविः स्यात्। सः काव्यपरीक्षायै सभां कारयेत्। सा षोडशभिः स्तम्भैश्चतुर्भिद्वरैिरष्टा-भिर्मत्तवारणीभिरुपेता स्यात्। तदनुलग्नं राज्ञः केलिगृहम्। मध्येसभं चतुः स्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका वेदिका। तस्यां राजासनम्। तस्य चोत्तरतः संस्कृताः कवयो निविशेरन्। बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते यस्त्वनेकत्र प्रवीणः स सङ्क्रम्य तत्र तत्रोपविशेत्। ततः परं वेदविद्याविदः, प्रामाणिका, पौराणिकाः, भिषजो, मौहूर्तिका अन्येऽपि तथाविधाः। पूर्वेण प्राकृताः कवयः तत परं नटनर्तकगायकवादक-वाग्जीवनकुशीलवतालावचरा अन्येऽपि तथाविधाः पश्चिमेनापभ्रंशिनः कवयः। ततः परं चित्रलेप्यकृतो माणिक्यबन्धका वैकटिकाः स्वर्णकारवर्धकिलोहकारा अन्येऽपि तथाविधाः दक्षिणतो भूतभाषाकवयः। तत परं भुजङ्गङ्गणिकाः प्लवकशौभिकजम्भकमल्लाः शस्त्रोपजीविनोऽन्येऽपि तथाविधाः।
तत्र यथासुखमासीनः काव्यगोष्ठीं प्रवर्तयेत् भावयेत् परीक्षेत् च। वासुदेवसातवाहनशूद्रकसाहसाङ्ङ्कादीन् सकलान् सभापतीन् दानमानाभ्या-मनुकुर्यात् तुष्टपुष्टाश्चाश्य सभ्या भवेयुः। स्थाने च पारितोषिकं लभेरन्। लोकोत्तरस्य काव्यस्य च यथार्हा पूजा कवेर्वा। अन्तरान्तरा च काव्यगोष्ठीं शास्त्रवादाननुजानीयात्। मध्वपि नानवदशं स्वदते। काव्यशास्त्रविरतौ विज्ञानिष्वभिरमेत्। देशान्तरागतानाञ्च विदुषामन्यद्वारा सङ्गङ्कारयेदौचित्या-द्यावत्स्थितिपूजां च। वृत्तिकामांश्चोपजपेत् संगृह्णीयाच्च। पुरुषरत्नानामेक एव राजोदन्वान् भाजनम्। राजचरितञ्च राजोपजीविनोऽप्यनुकुर्युः। राज्ञ एव ह्यसावुपकारो यद्राजोपजीविनां संस्कारः।
Reviews
There are no reviews yet.