Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-4%

Rudrayamalam Set of 2 Vols. (रुद्रयामलम् 2 भागो में)

600.00

Author Aacharya Sri Ram Prasad Tripathi
Publisher Sampurnananad Sanskrit Vishwavidyalay
Language Sanskrit
Edition 2nd edition
ISBN -
Pages 863
Cover Hard Cover
Size 14 x 7 x 22 (l x w x h)
Weight
Item Code SSV0013
Other Rudrayamalam Set of 2 Vols.

9 in stock (can be backordered)

Compare

Description

रुद्रयामलम् 2 भागो में (Rudrayamalam Set of 2 Vols.) चतुःषष्टिसंख्याकेषु तन्त्रग्रन्थेषु “राधाख्यं मालिनीतन्त्रं रुद्रयामलमुत्तमम्” इत्युक्त्या यद्यपि रुद्रयामलस्यापि समावेशो दृश्यते, तथापि “सर्गश्च प्रतिसर्गश्च मन्त्रनिर्णय एव च” इत्यादिलक्षणलक्षितात् तन्त्राद् अष्टलक्षणात्मकं यामलं तदपेक्षया वैलक्षष्येनाभिहितम्। तथा हि-

सृष्टिश्व ज्योतिषाख्यानं नित्यकृत्यप्रदीपनम् ।
क्रमसूत्रं वर्णभेदो जातिभेदस्तथैव च ।
युगधर्मश्च संख्यातो यामलस्याष्टलक्षणम् ।। इति ।

अत्र सृष्टिश्वेत्यत्र चशब्देन प्रतिसर्गस्य ग्रहणम्, अथवा ‘युगधसंश्च’ इत्यत्र ‘युगैः सहितो धर्मः’ अनया रीत्या मध्यमपदलोपिसमासेन युगला, पृथग्धर्मस्य ग्रहणमिति रीत्याऽष्टलक्षणत्व यामलस्य बोध्यम्। अथ च “श्रुतं देव मया सर्व रुद्रयामल-सम्भवम्” इत्यस्मिन् विज्ञानभैरवस्यादिमे पद्ये, “रुद्रयामलमन्त्रस्य सारमद्यावधारितम्’ इत्यस्मिन् तदीयोपान्त्यपद्ये च रुद्रयामलस्य निर्देशः स्पष्टमुपलभ्यते। किञ्च, ‘एवं मन्त्र फलावाप्तिरित्येतद्रुद्रयामलम्’ इत्यस्मिन् परात्रिशिकान्तिमश्लोकेऽपि रुद्रयामलस्य प्रशंसामयी चर्चाऽऽयाति। नित्याषोडशिकाणंबे चतुःषष्टितन्त्रपरिगणनावसरे यामलाष्टक मध्येऽस्य गणना विद्यते। ‘अर्थ रत्नाबल्यादिषूद्धृतमुत्तरषट्‌कमस्यैव भाग इति तत्पुष्पिकावाक्येभ्यः परिज्ञायते। एवं विशिष्टेष्वागमग्रन्थेषु निर्दिष्टस्यास्य वैशिष्टयं प्राचीनत्वं च निर्विवादम्। ग्रन्थस्यास्य मातृकाः प्रायः सर्वेष्वेव ग्रन्थालयेषु समुपलभ्यन्ते। सन्ति च स्तोत्रपटलादीनि बहूनि पुस्तकानि रुद्रयामलान्तर्गततया निर्दिष्टानि।

Reviews

There are no reviews yet.

Be the first to review “Rudrayamalam Set of 2 Vols. (रुद्रयामलम् 2 भागो में)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×