Bharatiya Jyotish Shastra Itihas (भारतीय ज्योतिषशास्त्रस्येतिहास:)
₹191.00
Author | Acharya Lokmani Dahal |
Publisher | Chaukhamba Surbharti Prakashan |
Language | Sanskrit |
Edition | 2023 |
ISBN | - |
Pages | 268 |
Cover | Paper Back |
Size | 14 x 2 x 21 (l x w x h) |
Weight | |
Item Code | SUR0012 |
Other | Dispatched In 1 - 3 Days |
10 in stock (can be backordered)
CompareDescription
भारतीय ज्योतिषशास्त्रस्येतिहास: (Bharatiya Jyotish Shastra Itihas) वेदस्य हि पट्स्वङ्गेषु ज्योतिपगन्यतममिति तूक्तमेव । ज्योतिषं हि वेदस्प चक्षुष्ट्वेन स्मर्यते । यथा हि तस्य शिक्षा प्राणं व्याकरणं मुखं छन्दःपादौ च । यथोक्तं भास्कराचार्य:-
वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते ।
संयुतोऽपीतरैः कर्णनासादिभिः चक्षुषाङ्ङ्गेन होनो न किञ्चित्करः ।।’ इति ।
अपरिमिते गगनमण्डले यानि हि तेजोमयानि बिम्बानि दृश्यन्ते तानि सर्वाण्येव समष्टचा ज्योतिःशब्देनोच्यन्ते। तेष्वपि यानि हि सदैकरूपगतीनि तानि नक्षत्रशब्देन ज्ञायन्ते, प्रतिदिनं भिन्नभिन्नगतीनि तु ग्रहशब्देन। तेष्वपि पुनः केचिदमृतमयकिरणा, केचिद्विषमयकिरणाः, केचिदुभयमिश्रकिरणाः के चित्तूभयधर्महीन रश्मयश्च स्मृताः। एवंविधनक्षत्रग्रतारका दिज्योतिः पिण्डानां स्थितिगतिप्रभावादिवर्णनपरं शास्त्रमेव ज्योतिषपदेनाभिधीयते ज्योतींषि अस्य सन्ति विवेचनीयत्वेनेति (ज्योतिः शब्दान्मत्वर्थीयेऽचि (अर्श आदित्वात्) व्युत्पत्त्या।) तदधिकृत्य कृतो ग्रन्थो ज्योतिषः सूर्यसिद्धान्तादिः। तदधीते तद्वेद वा ज्योतिपिकः (क्रतून्थादित्वात् ठक्) ज्योतिषो वा (पक्षेऽण्)। ज्योतिष-मस्यास्तीति ज्योतिषी एवमेव ज्योतिषी च। केचित्तु ज्योतींषि अधिकृत्य कृत्तो ग्रन्थः इति व्युत्पत्तिमाश्रित्य शास्त्रमपि ज्योतिपपदेनाभिदधति। किन्तु नासी पक्षः साधुः। यतो हि अण्प्रत्ययस्तु ग्रन्थविशेषमादायैव भवति न तु शास्त्रमात्रम्। शास्त्रग्रन्थयोर्भेदस्तु स्पष्ट एव। यथोक्तं विषयानुशासनमात्रं शास्त्रमाचार्य- विशेषकर्तृको निश्चितशब्दानुपूर्वीको ग्रन्थ इति। यथा हि पाणिनिः सूत्रकारो न तु व्याकरणकारः, सूत्रस्य ग्रन्यरूपत्वाद्वयाकरणस्य तु शास्त्ररूपत्वात्। केचि-ज्ज्योतिविद्यारूपेऽर्थे ज्योतिषमिति शब्दं रूढमपि मन्यन्ते। यच्च ज्योतिषशब्दा- टूढात्स्वार्थेऽणि ज्योतिषमिति वदन्ति तदपि निरर्थकशिरोवेदनैव। वस्तुतस्तु शास्त्रमिदं ज्योतिषं ज्योतिविषयकम्। न फेवलमिदं व्युत्पत्त्यैवापितु लगधमारभ्य कमलाकरभट्टपर्यन्तं ये खल्वाकरग्रन्थाः प्रणीतास्तत्र तत्र शास्त्रमिदं ज्योतिष-शब्देनैव व्यवहृतं दृश्यते इति तज्ज्ञा वदन्ति।
शास्त्रस्यास्य पृथक् शास्त्रत्वेनाविर्भावोऽपि शास्त्रान्तरसमकालिक एव। कथ्यते हि वैदिकसंहितासु तत्र तत्रोपवणितं ज्योतिषविषयमादाय लगधनाम्ना मुनिना प्रणीतो वेदाङ्गज्योतिपाख्यो ग्रन्च एवं विषयेऽस्मिन् प्रथम इति ज्योतिषशास्त्रप्रवर्तकत्वेन तत्र तत्र सूर्यादयोऽष्टादश ऋषयः स्मर्यन्ते। ग्रन्थ-कर्तृषु शास्त्रेऽस्मिन् लगधात्परम् आर्यभट-लल्ल-ब्रह्मगुप्त वराहमिहिर-श्रीपति-भास्कराचार्य-मुनीश्वर-ज्ञानराज-कमलाकरभट्टाः प्राधान्येन स्मर्यन्ते श्रीधर-बटेश्वर-मुञ्जालादयश्च। नवीनेषु नीलाम्बर बापूदेव-सुधाकर-शङ्करबालकृष्ण-योगेशचन्द्र केतकर आप्टेप्रभृतयो विद्वांसः परिगण्यन्ते गणकत्वेन।
शास्त्रमिदं सिद्धान्त-संहिता-होराभेदेन त्रिपु स्कन्धेषु विभक्तमिति त्रिस्कन्ध-ज्योतिषशब्देनापि ज्ञायते। तत्राद्यो गणितशब्देनाऽप्यभिधीयते। स्कन्धोऽयमपि ग्रहगणित-पाटीगणित-बीजगणितभेदेन विविधः। ब्रह्मा, वसिष्ठः, सोमः सूर्यश्चेत्यस्य प्रवर्तकत्वेन स्मृता आचार्याः अनन्तरमार्यभट-ब्रह्मगुप्त वराहमिहिर-भास्करा-चार्य-कमलाकरप्रभृतयः। आर्षः सूर्यसिद्धान्तः आर्यभटस्य आर्यभटीयं, ब्रह्म-गुप्तस्य ब्राह्मस्फुटसिद्धान्तः, वराहमिहिरस्य पञ्चसिद्धान्तिका, भास्कराचार्यस्य सिद्धान्तशिरोमणिः कमलाकरस्य सिद्धान्तत्तत्त्वविवेकश्व स्कन्धस्यास्य मान्या ग्रन्थाः। संहितास्कन्धः कालचक्रं विवृणोति मुहूर्तादि। आपत्वेन बार्हस्पत्य-काश्यप-नारदसंहिताः सम्प्रति दृश्यन्ते, यद्यपि बहव ऋषयः संहितायाः कर्तृत्वेन स्मृता दृश्यन्ते तत्र तत्र। वराहमिहिरस्य बृहत्संहिता विषयेऽस्मिन् प्रामाणिको ग्रन्थः। होरास्कन्धस्तु जातकताजिकभेदेन द्विधा विभक्तोऽस्ति। अयमेव फलितज्योतिषनाम्नाऽपि व्यवह्रियते। वराहमिहिरस्य बृहज्जातकम्, नील- कण्ठस्य ताजिकनीलकण्ठी च विषयेऽस्मिन् प्रामाणिकौ ग्रन्थौ।
तदिदं शास्त्रं व्यवहारशास्त्रत्वेन समाद्रियते जनैः। व्यवहारेऽस्योपयोगो बहुमुखः। ग्रहाणां कालावस्थागत्यादिनिर्देशेन कर्मसम्पादन निमित्तकमुहूर्तादि-कथनेन शुभाशुभफलकथनेन चेदं शास्त्रं जनान् प्रत्यक्षमेवोपकरोतीति। शास्त्रदृष्ट्या व्यवहारदृष्टया चोपयोगित्वेनैवेदं वेदाङ्गेषु मूर्द्धन्यत्वेन स्मर्यते। यथोक्तं लगधमुनिनाऽपि –
‘यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूहूिन संस्थितम् ।।’ इति ।
मुहूर्तज्ञानं दिग्ज्ञानं तिथिवारादिज्ञानश्च ज्योतिषशास्त्रादेव येन विना व्यवहार एव न सिध्यतीति स्पष्टमेवापरिहार्यताऽस्य व्यवहारे। तेनैवोक्तं स्यात्-
‘प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्राको यस्य साक्षिणौ ।’ इति।
वेदनिर्गतमपि शास्त्रमिदं स्वातन्त्र्यमप्यधिकरोति येनाऽस्य शास्त्रत्वमक्षुण्णं वर्तते। ग्रहणविषये ग्रहस्थितिविषये पृथ्वीस्वरूपगतिविषये चास्य मौलिका अपि सिद्धान्ताः। तदिदं शास्त्रोपकारकं जगद्वधवहारप्रवर्तकश्च ज्योतिषाख्यं शास्त्रम्। ग्रहादिगतिस्थितिप्रभावादिशासनादस्य शास्त्रत्वमक्षुण्णमिति।
Reviews
There are no reviews yet.