laghu Vibhaktyartha Nirnya Anushilnam (लघुविभक्तयर्थ निर्णयानुशीलनम्)
₹88.00
Author | Bharat Bhushan Tripathi |
Publisher | Bharatiya Vidya Sansthan |
Language | Sanskrit |
Edition | 1st edition, 2010 |
ISBN | 978-93-81189-03-0 |
Pages | 96 |
Cover | Hard Cover |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | BVS0130 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
लघुविभक्तयर्थ निर्णयानुशीलनम् (laghu Vibhaktyartha Nirnya Anushilnam) भारतीयदर्शनेषु शाब्दबोधविषयको विमर्शोऽतिमहत्त्वाधायको वर्तते। शाब्दबोधविषये न्याय-मीमांसा-व्याकरणशास्त्रेषु महती विचारणा कृता वर्तते। तत्रापि विभक्त्यर्थविचारस्तु सर्वाधिकं महत्त्वमादधाति। विभक्त्यर्थविषये पाणिनीयव्याकरणेऽष्टाध्याय्याः प्रथमेऽध्याये चतुर्थे पादे ‘कारके’ इत्यधिकारे कारकाणां विविधसंज्ञाविधायकानि सूत्राणि पठितानि सन्ति। पुनश्च द्वितीयेऽध्याये तृतीये पादे ‘अनभिहिते’ इत्यधिकारे विभक्तिविधायकानि सूत्राणि पठितानि सन्ति। पाणिनीयसूत्रेषु विभक्त्यर्थविषये महाभाष्ये महती विचारणा कृता दृश्यते। वाक्यपदीयस्य पदकाण्डाख्ये तृतीये काण्डे साधनसमुद्देशनाम्ना एकः समुद्देश एव विभक्त्यर्थविचारणायै वर्तते। महाभाष्यटीकाग्रन्थेषु वाक्यपदीयटीकाग्रन्थेषु च विभक्त्यर्थविषये विस्तरेण चर्चा कृता वर्तते। भट्टोजिदीक्षितस्य शब्दकौस्तुभे वैयाकरणमतोन्मज्जने च, कौण्डभट्टस्य वैयाकरणभूषणे वैयाकरणभूषणसारे च, नागेशभट्टस्य वैयाकरणसिद्धान्तमञ्जूषायां, वैयाकरणसिद्धान्तलघुमञ्जूषायां, परमलघुमञ्जूषायां च विभक्त्यर्थविषयका वैयाकरणसिद्धान्ताः निरूपिता दृश्यन्ते। विभक्त्यर्थविषये श्रीमन्नागेशभट्टस्य पूर्ववैयाकरणैः सह क्वचित् क्वचिद् मतभेदोऽपि दृश्यते।
नागेशादुत्तरवर्तिषु वैयाकरणेषु मौनिश्रीकृष्णभटटो महान् वैयाकरणो बभूव। मौनिकृष्णभट्टो व्याकरणदर्शनस्य नैकाः कृतीव्र्व्यरचयत्। एतासु कृतिषु प्रमुखाः सन्ति 1. स्फोटचन्द्रिका 2. वृत्तिदीपिका 3. लघुविभक्त्यर्थनिर्णयः 4. आख्यातवादः 5. शब्दार्थतर्कामृतम् 6. तर्कचन्द्रिका च। स्फोटचन्द्रिका तावद् वैयाकरणानां स्फोटसिद्धान्तस्य विवरणार्थं मौनिश्रीकृष्णभट्टेन लिखिता। कृतिरियं वाराणसीतः 1899 ईस्वीये वर्षे शब्दकौस्तुभस्य परिशिष्टे प्रकाशिता। पुनश्च मुम्बईतो गुजरातीमुद्रणालयेन 1913 ख्रीस्ताब्दे प्रकाश्यतां नीता। अस्याः कृतेः 1913 संस्करणस्य सम्पादको बाक्रे इत्युपाह्वगङ्गाधर भट्टसुतमहादेवशर्मा वर्तते।
वृत्तिदीपिका प्रिन्सेस आफ वेल्स सरस्वतीभवनग्रन्थमालायाः एकोनत्रिंशत्तमग्रन्थरूपेण 1930 खीस्ताब्दे प्रकाशिता वर्तते। अस्य संस्करणस्य सम्पादको भारद्वाज इत्युपाख्यो गङ्गाधरशास्त्री महाशयो वर्तते। अयं ग्रन्थः पुनरपि राजस्थानपुरातनग्रन्थमाला 7 रूपेण जोधपुरतः 1956 ईस्वीये वर्षे प्रकाशितः। लघुविभक्त्यर्थनिर्णयो मुम्बव्यां गुजरातीमुद्रणालयेन 1915 खीस्ताब्दे प्रकाशितो विद्यते। अस्य सम्पादको बाके इत्युपात्ह्वगङ्गा घरभट्टसुतमहादेवशर्ममहाशयो वर्तते। आख्यातवाद इत्यपि ग्रन्यो मौनिश्रीकृष्णभट्टेन लिखितः। मौनिश्रीकृष्णभट्टः स्वयमेव लघुविभक्त्यर्थनिर्णये स्वकृतस्याख्यातवादस्य नामोल्लिलेख।
शब्दार्थतर्कामृतम् इत्यस्य ग्रन्थस्य प्रकाशनं राष्ट्रियसंस्कृतसंस्थानस्य गङ्गानाथझापरिसरस्य “Journal of The Ganganath Jha Kendriya Sanskrit Vidyapeetha LXIII (1-4) Jan-Dec 2007” इत्याख्यायां शोधपत्त्रिकायां संजातमस्ति। ग्रन्थस्यास्य सम्पादनं ललितकुमारत्रिपाठिना कृतमस्ति। तर्कचन्द्रिकायाः सम्पादनमपि राष्ट्रियसंस्कृतसंस्थानस्य गङ्गानाथझा परिसरस्य शोधपरियोजनायां ललितकुमारत्रिपाठिना कृतमस्ति।
श्रीमन्नागेशभट्टस्य परिवर्तिना मौनिश्रीकृष्णभट्टेन लघुविभक्त्यर्थनिर्णये प्रायेण नागेशभट्टस्य सिद्धान्ताः समालोचिताः सन्ति। लघुविभक्त्यर्थनिर्णये मौनिश्रीकृष्णभट्टस्य विभक्त्यर्थविषये काचिद् नूतनाऽपि अवधारणा दृश्यते। अतो विभक्त्यर्थविषये मौनिश्रीकृष्णभट्टस्य मतमनुसन्धित्सूनां पुरस्तादुस्थापयितुमयं कश्चन उपक्रमो विहितः – ‘लघुविभक्त्यर्थनिर्णयानुशीलम्’ इति। अनुशीलनपरे ग्रन्थेऽस्मिन् विभक्त्यर्थविषये प्राधान्येन मौनिश्रीकृष्णस्य मतं प्रदर्शितं वर्तते। अयं ग्रन्थो विभक्त्यर्थविषयेऽसन्धित्सूनां कृते उपकाराय कल्पिष्यत इति आशास्ते।
Reviews
There are no reviews yet.