Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Vratyta Prayaschitta Nirnya (व्रात्यताप्रायश्र्चित्तनिर्णय:)

50.00

Author Nagesa Bhatta
Publisher Chaukhamba Sanskrit Series Office
Language Sanskrit
Edition 1928
ISBN -
Pages 60
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0418
Other Old and Rare Book

 

10 in stock (can be backordered)

Compare

Description

व्रात्यताप्रायश्र्चित्तनिर्णय: (Vratyta Prayaschitta Nirnya) अबेदनुपक्रम्यते नात्यतामायश्चित्तविपर्य अन्धत्रयं सुद्धसिस्वा प्रकाशयितुम्। अत्र (१) ब्रात्यतामायश्चित्तनिर्णयः (महान्)=श्रीनागेशभट्टकृतः (२) नात्यताप्रायश्चित्तानिर्णयः (उघुः) – ग्रन्थ – कर्तृनामनिर्देशाभावेऽपि ग्रन्थारम्भतदन्तर्गतबहुविषयसाम्यात्। नागेशभट्टस्य लघुबृहद्भेदेन द्विधा मन्थनिर्माणप्रकारस्य बहुशो ऽन्यन्त्र दर्शनात् अयमपि नागेशभट्टनिर्मित एवेति निर्विवादमेव। (३) प्रात्य ताशुद्धिसङ्गहः = श्रीमन्महारा जजयसिंहकारितो ऽनेकैर्विद्वद्भिः कृतः। तत्र लघुवृद्दन् वा प्रात्यताप्रायश्चित्तनिर्णयः ‘कलो क्षत्रियपद्व्यवहा र्याणां दशविंशतिपुरुषपर्यन्तं स्मर्यमाणोपनयनाभावानां तदमेऽप्यस्मर्यमाणोपनयनानां संस्कारो न वेति’ सन्देहं पुरस्कृत्य ‘एवश्व तादृश क्षत्रियाणामुपनयनाभावः सिद्धः’ इति सिद्धान्तं व्यवस्थापयति। अमे च स्पष्टमेवोक्तं नागेशेन ‘यावत्परीक्षितो जन्म यावन्ननन्दाऽभिषे चनम्। एतद्वर्षसहस्रं तु कलौ पञ्चद‌शोत्तरम्’।। इति विष्णुपुराणीयः बच्चनानुरोधेन वस्तुतः कलौ उपनयनयोग्यक्षात्रियाभाव एव। ‘एतेन क्र मयोगेन मनुपुत्रैर्वसुन्धरा। कृतन्त्रेवादिसंज्ञानि युगानि त्रीणि भुज्यते’।। अत्र त्रीणि भुज्यते इत्यनेन तुर्ये कलौ पञ्चदशोत्तर सहस्ररूपात्यल्पकालं तत्सत्ता सूच्यत इति च।

अपरोऽनेकविद्वन्निबद्धो ब्रास्यता शुद्धिसङ्गहस्तु विविधप्रमाणोपष्टम्मैः कलावपि क्षत्रियसत्तां तेषामुपनयनार्हत्वं च व्यवस्थापयति। किश्च-‘चातुवेण्यै मया सृष्टं गुणकर्मविभागशः’ इति वचनानुरोधेन राङ्गमाहिकया ब्राह्मणादीनामयमयं ब्राह्मणः क्षत्रिये। वेति निर्णयासम्भवेन पश्वाद्यपेक्षया मानुषकारवैलक्षण्वस्यावयवसंस्थानरूपस्य प्रत्यक्षत्वेन मा नुषत्त्वजातेर्शातुं शक्यत्वेऽपि मानुषत्वावान्तरजातिभूतन्त्राह्मण्याद्यभिव्यञ्ज-कसंस्थानविशेषस्य चक्षुरादिम। तगम्यस्याभावेन ब्राह्मण्यादिनिर्णयो भवितुं नार्हति। अतस्तत्र तत्र तेषु तेषु जनपदेषु जनसमुदायो विरोध्यविरोधी वा यं यं समुदायं यद्यद्वर्णसमूहतया विना विगानं परम्परया वर्णयति सम तावत्तत्तद्वर्णसमुदायरूप एव। एवञ्चाऽविगीतव्यवहार एको जातिनिणा यकः, एवमेव ये स्वस्वजात्युचितधर्माचरणरहिता अपि तत्तज्जात्युचितच मर्माचरणशीलैः सह भोजनादिव्यवहारमविगीतमाचरन्ति, ये तद्व्यवहारमा जस्तेऽपि तज्जातय एब, तथ्यबहारा भावेऽपि तथ्याप्यधर्मव्यवहारादपि व्या पकजातेर्निणयो भवतीत्यादिसिद्धान्तो व्यवस्थापितः। एवमेव प्रयागादिशः देशेषु ब्राह्मणा इति व्यवह्रियमाणा राजपुत्रकन्योद्वाहिनो द्विकुलीना ब्राह्मण। अविगीतव्यवहाराद्वाह्मणा एव तत्सम्बन्धिनो राजपुत्रा अपि क्षत्रिया एव। इत्थमेव पुरोहितगोत्रेण परम्परया गर्गादिगोत्रव्यवहाराद्वणिज इत्यव्य भिचरिताविगीतव्यवहारात् अगरवालाः सर्वेऽपि तृतीयवर्णाः प्रायेणो पनयनादिसंस्कारभाजः शिष्टैः परिगृह्यमाणा भवन्ति। एते सर्वेऽपि प्रायश्चित्ते कृते तूपनयनार्हा भवेयुरिति। इत्थमनयोर्भिन्नकर्तृकयोर्ग्रन्थयोः प्रतिपाद्ये वैलक्षण्यम्। नात्र वयं स्वमतं किञ्चिदपि प्रतिपादयामः। विचक्षणानां पुरो द्वयमपीदं न्यस्तं, येभ्यो यथा रोचते तैस्तथा प्रमाण जातमवलम्व्य तथा विधेयमिति सरलः पन्थाः।

Reviews

There are no reviews yet.

Be the first to review “Vratyta Prayaschitta Nirnya (व्रात्यताप्रायश्र्चित्तनिर्णय:)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×