Ishadi Vishottara Shatopnishad (ईशादीविशोत्तरशतोपनिषदः)
₹517.00
Author | Narayan Ram Aacharya |
Publisher | Shri Kashi Vishwanath Sansthan |
Language | Sanskrit |
Edition | 1st edition, 2023 |
ISBN | 978-93-92989-07-0 |
Pages | 664 |
Cover | Hard Cover |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | TBVP0268 |
Other | A Compilation Of Well-Known 120 Upanisads |
10 in stock (can be backordered)
CompareDescription
ईशादीविशोत्तरशतोपनिषदः (Ishadi Vishottara Shatopnishad) अगाधेऽस्मिन्भवचक्रेऽतिकरालनिबिडान्धकारसंज्ञकेऽति भयंकरे परिवर्तमानानां निजनिजार्जितानुगुणमनुगतत्रिविधतापतप्ताना-मैकान्तिकात्यन्तिकदुःखनिवृत्तिसाधनतया चतुर्विधपुरुषार्थान्यत-मपुरुषार्थोपायमभिवाञ्छतां प्रेक्षावतां धीमतां पुरुषार्थान्वेषणा तावदादौ भवतीति निर्विवादमेव। अन्त्र स्वर्गापवर्गमात्रे नैसर्गिक-मोहान्धकार विलुप्तालोकस्य लोकस्य शास्त्रमेव प्रकाशस्तदेव च दिव्यं चक्षुरस्मदादेरिति तदेवाधिगन्तव्यम्। तच्च कर्मब्रह्मोपासनात्मकम्। तत्प्रतिपादका वेदाश्च सन्ति स्वतःप्रमाणभूताः। तत्र वेद-वाक्यानां ‘उदिते जुहोति’ ‘अनुदिते जुहोति’ इत्यादि प्रायः परस्पर-विरुद्धार्थाभिधायकत्वेन व्यवस्थितवेद्वाक्यार्थानवधारणात्तद्व्यव-स्थायै वेदवाक्यार्थविचारात्मिकां पूर्वमीमांसां सुगृहीतनामधेयो जैमिनिः सूत्रयांबभूव। तया च साक्षाद्विध्येकवाक्यतया सर्वेषां वेदवचसां कर्मपरत्वं प्रत्यपीपदत्। तदेव च यथावदाराधितं धर्मार्थकामरूपत्रिविधपुरुषार्थवितरणक्षममिति निगमागमराद्धान्तः।
आचार्यास्तु सर्वासां श्रुतिप्रमाणानां ब्रह्मणि समन्वयं कृत्वा सर्वमिदमद्वितीयं ब्रह्म पारमार्थिकं भेददृष्टिश्चाविद्योपादाना तन्ना-शश्चाद्वितीयात्मज्ञानेन ततश्चैकान्तिकात्यन्तदुःखनिवृत्तिश्चतुर्थपुरुषा-र्थावाप्तिर्भवति। अयमेव पुरुषार्थो मोक्षाख्यश्चतुर्वन्तिमत्वेन गृहीतोऽप्यभ्यर्हितत्वाच्छ्रेष्ठ उपनिषज्ज्ञानैकसाध्यश्च। निःश्रेयससा-धनात्मैक्यप्रतिपत्तिहेतुतयैव ह्युपनिषदो रहस्यपदेनाभिलपन्ति वेदान्तविज्ञानचणाः। उपनिषच्छब्दश्च मुख्यवृत्त्या ब्रह्मविद्याम-भिदधाति। तथा हि उपनिपूर्वकस्य विशरणगत्यवसादनार्थस्य षदुधातोः किप्प्रत्ययान्तस्येदं रूपमुपनिषदिति तत्र उप-उपगम्य गुरूपदेशाङब्ध्वेति यावत्। उपस्थितत्वाद्ब्रह्मविद्यां नि निश्चयेन तन्निष्ठतया परिशीलयन्ति ये दृष्टानुश्रविकविषयवितृष्णाः सन्त-स्तेषामविद्यादेः संसारबीजस्य सद् विशरणकर्जी शिथिलयित्री, अवसादयित्री विनाशयित्री, अथवा पूर्वोक्तविशेषणविशिष्टानां मुमुक्षुणां ब्रह्मगमयित्रीति तत्तदवयवैरर्थसमर्पणात् । उपनिष-च्छब्दवाच्यब्रह्मविद्याहेतुतया च तत्प्रतिपादकग्रन्थेऽप्युपनिपच्छब्दो गौण्या वृत्त्या वर्तते। प्रसङ्गात्प्रपश्चितमीपत्रास्तां पल्लवितेन।
Reviews
There are no reviews yet.