Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Chudakaran Paddhati (चूडाकरणपद्धति:)

10.00

Author Shri Vidyadhar Sharma
Publisher Chaukhamba Sanskrit Series Office
Language Sanskrit & Hindi
Edition -
ISBN -
Pages 36
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0388
Other Old & Rare Book

 

10 in stock (can be backordered)

Compare

Description

चूडाकरणपद्धति: (Chudakaran Paddhati) अथेदानीं चूडाकरणपद्धतिः श्रौतस्मार्तकर्मवद्धादराणां धार्मिकपुरुषाणां स्वस्वकर्मपौष्कल्पसिद्धये पूर्णनुष्ठेयेषु सम्कारेषु अन्यतमस्य प्रधानस्य चौलाख्यसंस्कारस्य यथावद्वबोधनार्थं यथाविध्य-नुष्ठानाथे च पद्धतिरियं मुद्राप्य प्रकाश्यते। तत्र-

“र्दो कैः कर्मभिः पुण्यनिषेकादिद्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ।
गाभैहोमैर्जातकर्मचौडमौजी (नवन्धनैः । गार्मिकं बैजिकं चेनो द्विजानामपसृज्यते” ॥ (म. २. २६-२७)

इत्यादिवचनजातबलाद् द्विजानां स्वशरीरसंस्कारकं जातकर्मादि अवश्यमनुष्ठेयमित्यवगम्यते। तत्संस्कृत एव च पुरुषः कर्मण्यो भवति। तेषु च कर्मसु चूडाकरणमपि मुख्यं कर्म। यस्यानुष्ठानं प्रथमादिषु उपनयनकालान्तेषु अयुग्म-वर्षेषु अनुष्ठेयतया गृप्रकाराः सर्वेऽपि कथयन्ति। इदं च चूडाकरणं शिखास्थापनार्थं द्विजातिांभर-क्श्यमनुष्ठेयं कर्म। अतश्चूडानिधान। यैवेदं कर्म कर्तव्यतया विहितम्। यतो हि “यर्षि शिखा निदधाति” “यथैवैषां कुलधर्मः स्यात्” (आप० गृ०) “यथा-कुलधर्म केषवेशन् कारयेत्” (आश्व.) “यथामङ्गलं केषशेषकरणम्” (पार. २।१।१९)

इति भगवान् पारस्करः अन्येऽपि च सूत्रकाराः शिखानिधानमेव विदधति तत्तत्कुलधर्मानुसारेण। हरिहरगदाधरादयोऽपि “केशानां शेषकरणं शिखास्थापनं यथाकुलाचारव्यवस्थापनम्” “केशानां शेषकरणं शिखारक्षणं स्थापनं कर्तव्यम्” इति स्वस्वभाष्ये-“वपनं कुर्वन् केशशेष-रक्षणं करोति” “यथामङ्गलं शिखास्थापनं नापितः करोति” इति पद्धतावपि शिखास्थापनमेव लिखन्ति, न सर्वमुण्डनम्। नात्र संशेतव्यं “यथामङ्गलं केशशेषकरणम्” “यथाकुलाचारव्यवस्थामनतिक्रम्य” इत्यादिभिः स्वस्वकुलाचारोऽप्यनुक्रान्तः। एवं च येषां कुले सर्वमुण्डनाचारोऽस्ति तैः स्वकुलाचारानु-सारेण सर्वमुण्डनमेव कर्तव्यमित्यप्यस्मादेव ग्रन्थात् प्रतीयत इति, यतः कुलाचारशब्दं त एव भाष्यकारा अग्रे विवृण्वन्ति-

“कुलाचारश्च बहुधा। तद्यथा-लौगाक्षिः -‘दक्षिणतः कम्बुजवसिष्ठानाम्। उमयतोऽत्रि-कश्यपानाम् मुण्डा भृगवः, पञ्चचूडा आङ्गिरसः, वाजसनेयिनामेका मङ्गलार्थ शिखिनोऽन्ये” इति लौगाक्षिवचनमृद्धृत्य। अत्र च वचने येषां शाखिनां यो य आचारः स स्पष्टमुपात्तः। तत्र मुण्डा भृगव इति भृगुगो-त्राणामेव सर्वमुण्डनम। अस्माकं तु वाजसनेयिनाम् “एका” इत्यनेन एकशिखानिधानमेव विहितम्। एवं तदुपात्तायां कारिकायामपि –

कम्बुजानां वसिष्ठानां दक्षिणे कारयेच्छिखाम् । द्विभागेऽत्रिकश्यपानां मुण्डाश्च भृगवो मताः।

पञ्चचूडा अङ्गिरस एका वाजसनेयिनाम्। मङ्गलार्थं शिखिनोऽन्य उक्ता चूडाविधिः क्रमात्” इत्येकशिखानिधानमेव वाजसनेयिनां विहितम्। अतञ्च यथाकुल। चार मित्यस्य शिखानिधानमेवा-स्माकंशास्त्रसम्मतमिति अस्मत्पूर्वाचार्याणां हरिहरगदाधरप्रभृतीनामभेद्यः सिद्धान्तो नतु सर्ववपनम्। इदं च शिखारक्षणं-

“सदोपवीतिना भाष्यं सदा बद्धशिखेन च ।
विशिखो व्युपवीती च यत्करोति न तत्कृतम् ॥

इति वचनबलाद्दश्यमेव कर्तव्यम्। शिखां बिना अनुष्ठितानां कर्मणां वैफल्यबोधनात्। यद्यपि “गोर्भाचह्न शिखाकर्म” इति वचनात् गोत्रचिह्नत्वं प्रतीयतेऽस्य, तथापि संस्कारगणमध्ये पाठात् अवश्यं कर्तव्यमेव। एवमवश्यकृतम्य शिखाकरणंस्य गोत्रचिह्नत्वमपि भवत्यानुषङ्गिकं फलम्। अत एव कुमारिलपादा अपि – ‘ गोत्रचिह्न शिखाकर्म। तत्राप्याचारनियमस्यादृष्टार्थ-त्वान्न तावन्मात्रमेव प्रयोजनम्। तेनान्य पचामिप्रायः। कर्माङ्गभृतं तावच्चतुरवत्तपञ्चावत्त-तादिविभागसिद्ध्यर्थमवश्यं स्मर्तव्यम्। अतश्च तञ्चिन्हार्थमपि तावच्छिखाकल्पस्मृतेः प्रामाण्यमस्तु” इति गोत्रचिह्नत्वस्यानुषङ्गिकफलमेवाभिप्रयन्ति तन्त्रवार्तिके। यथोपनयनमध्येऽवश्य-कृतस्योपनयनधारणस्य त्रैवर्णिकत्वपरिचायकत्वम्।

एमिदं शिखाकर्म न केवलं स्मातें किन्तु श्रुतिप्रतिपाद्यमपि –
“यशले श्रियै शिखा” (शु. य. माध्यं. १९/९8)
इत्यादि शिखाधारणस्य श्रीप्रभृतिश्रेयस्सम्पादनत्वकथनात् ।
“यत्र वाणाः सम्पतन्ति कुमारा विशिखा इव” ।

इति श्रुतिरपि शिखासत्तामेव प्रतिपाद्यति कुमाराणाम्। नह्यत्र विशिखशब्दस्य शिखारहितत्वमर्थः। पूर्वमीमांसायां (१.३.) स्मृतिप्रामाण्याधिकरणे” “शिखाकमं कर्तव्यम्” इति स्मृतिवा-क्यमुदाहृत्य तदुपष्टम्भकतयाऽस्य वाक्यस्य भगवता शबरस्वामिनादाहरणात्।

“विशिखा विविर्धाशखा विकीशिखा व।” इत्येव व्याख्यातभिर्व्यारव्याकरणाच्च।

एवं च्च सति ये नामेदानीं केचन वाजसनेयिनामस्माकं चौलकर्मणि सर्ववपनं कुर्वन्ति कारयन्ति च तद् दृष्ट्रा केचिदिमशिष्टाचारं पद्धत्यादावपि आरोपयन्ति, तां च प्रमाणं मन्यमाना अनुष्ठापयन्ति च तत्सर्वं सूत्रकारविरुद्धं हरिहरगदाघरप्रभृतिभाष्यपद्धत्यादिकर्त्रस्मत्पूर्वाचार्यमतविरुद्ध-मस्मत्पितृपितामहाद्यनु‌ष्ठितप्राचीनाचारविरुद्ध च। लौगातिवचने भृगूणां सर्वमुण्डनविधानाच्छन्दोगानां स्वगृह्ये तद्विधानाच्च तेपामुभयेपामेव चौले सशिखं सर्ववपनम्। इतरेषां सर्वेषामपि शिखाऽवश्यं निधापनीया।

ये नाम स्वकुलानुरोधेन स्वकुलदेवतायै केशदानं प्रतिजानते कुर्वन्ति च तैरपि चूडाकरणात्पूर्वमेव तत्कर्तव्यं न ततः परमम्। चूडाकरणे शिखाऽवश्यं रक्षणीया। तस्याश्च प्रायश्चित्तविशेषं विना कर्तनं लोपनं वा न कदापि कार्यम्। अतो यथाऽयं संस्कारो यथावदनुष्ठितो भवेत् यथा च प्राचीनां शास्त्रीयां रीतिमनुल्लङ्घय चूडाकरण एव शिखां निधाय तद्युता यावज्जीवं ग्वम्ववर्णोक्तानि कर्माणि अनुतिष्ठन्तस्तज्जनितं समग्रं फलं सवेश्रेयोरूपं प्राप्नुयुीमका जना ति बुद्धचाऽम्माभिरस्याः पद्धते रचने मुद्रणे च प्रयतितम्। अतः सर्वान् सनातनधर्मावलम्बिनः सविनयं प्रार्थये सकृदपि भूमिकामिमामवलोक्य स्वमनीषयाऽपि युक्तायुक्तत्वं शास्त्रसम्मतिं च विचार्य यथोचितं कुर्युः सफलयेयुश्च मदीयं परिश्रममिति।

Reviews

There are no reviews yet.

Be the first to review “Chudakaran Paddhati (चूडाकरणपद्धति:)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×