Advait Siddhi Set of 3 Vols. (अद्वैतसिद्धिः 3 भागो में)
₹280.00
Author | D. Shree Nivasachar |
Publisher | Uttar Pradesh Sanskrit Sansthan |
Language | Sanskrit |
Edition | 1st edition, 1997 |
ISBN | - |
Pages | 1176 |
Cover | Hard Cover |
Size | 23 x 2 x 15 (l x w x h) |
Weight | |
Item Code | UPSS0037 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
अद्वैतसिद्धिः 3 भागो में (Advait Siddhi Set of 3 Vols.) विदितमेव यत् सिद्धान्तबिन्दुबेदान्तकल्पलतिकादिअन्थरचना- प्रकटीक्कृतमहामेधाविभवैः तत्रभवद्भिर्मधुसूदनसरस्वतीभिः परिच्छेदचतुष्टयात्मकमद्वैतसिद्धिनामकं न्यायामृतखण्डनपरं ग्रन्थरत्न निरमायीति। यदीयोक्तिसुधार्णवं व्याख्यातुमुपकान्ताः सुगृहीतनामधेया ब्रह्मानन्द- सरस्वत्यः’ अद्वैतसिद्धिकर्तृविषय एवं वदन्ति-
मधुसूदनसरस्वत्याः पारं वेत्ति सरस्वती ।
वेत्ति पारं सरस्वत्या मधुसूदनसरस्वती ॥ इति ॥
अस्या अद्वैतसिद्धेः खण्डनपरं तरङ्गिण्यारूयमतिगम्भीरं ग्रन्थ-रत्नं द्वैतमतीयविपश्चित्प्रवराः श्रीमन्तो रामाचार्या रचयामासुः ।।तरङ्गिणीखण्डनपरां लघुचन्द्रिकाख्यां व्याख्यामद्वैतसिद्धेः श्री मन्तो ब्रह्मानन्दसरस्वत्यः प्रणिन्युः। यदाहुः- “तद्भङ्गाय तरङ्गिणी प्रववृते या तामिडां स व्यधाद्ब्रह्मानन्दयत्तिः” इत्यादि। इयं लघु चन्द्रिका विठ्ठलेशोपाध्यायकृत व्याख्यालङ्कृता महामहोपाध्यायेत्यादि बिरुदाङ्कितैः श्रीयुतैः-अनन्तकृष्णशास्त्रिभिः स्वविरचितया भूमिकया सहिता निर्णयसागरमुद्रणालये मुद्रयित्वा प्रकाशिता। अद्वैतसिद्धि मधिकृत्य वक्तव्या बहवो विषयास्तत्रैव भूमिकायां द्रष्टव्याः ।।
तरङ्गिणीखण्डनपरो गुरुचन्द्रिकाख्यो महानयं ग्रन्थः लघुचन्द्रिका कर्तृभिरेव पूर्व विरचितः। एतावता कालेन कुत्राप्यमुद्रितोयं सम्मुद्रणीय इति कृतप्रयत्नैरस्मत्याच्यकोशागाराधिकारिभिः चत्वार आदर्शाः समुपयुक्ताः –
१. तेष्वेकः, श्रीमन्महीशूरास्थानधर्माधिकारिणां विद्या विशारदेत्यादिविरुदाङ्कितानां कुणिगल्-रामशास्त्रिणां सविधात्। २. द्वितीयः, शृङ्गेरीवास्तव्यानां विदुषां वि. एस्. रामचन्द्रशास्त्रिणां सविधात्। ३. तृतीयः, मद्रपुरीस्थकोशागाराच्चासादितः। ४. चतुर्थः, अस्मदीयकोशागारस्थ एव।
आदर्शपुस्तकदानेन मुद्रणाय महदुपकृतवतामुदारहृदयानामुपकारभारं वहामः। अयं चास्य ग्रन्थस्य (आगमबाघोद्धारान्तः) प्रथमो भागः। प्रकाशयिष्यते चाचिरादेवावशिष्टः प्रथमपरिच्छेदान्तो द्वितीयोऽपि भागः।। अन्थस्यास्य शोधनादिविषये पूर्वाश्रमे इदानीच बहूपक्कृतवद्भयः कुलिशृङ्गेरिश्रीवालुकेश्वरभारतीस्वामिभ्यो नतितर्ति समर्पयाम इति शम्।।
Reviews
There are no reviews yet.