Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Ekoddishta Shraddh Paddhati (एकोद्दिष्ट श्राद्धपद्धति)

25.00

Author Dr. Shivprashad Sharma
Publisher Chaukhamba Krishnadas Academy
Language Sanskrit & Hindi
Edition 2003
ISBN -
Pages 72
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0397
Other Old and Rare Book

 

10 in stock (can be backordered)

Compare

Description

एकोद्दिष्ट श्राद्धपद्धति (Ekoddishta Shraddh Paddhati) देवपितृकर्मसु तत्रापि प्रायेण पितृकर्मसु हिन्दूसमाजस्य औदासिन्यमुत्तरोत्तरं परिदृश्यते। भारतीयानां भारतीयता संस्कारोदरे निहिता विद्यते। संस्कारेण विना क्वापि वर्णाधमधर्मरक्षा नैव जायते। तदृर्णाश्रमधर्मरक्षायै संस्कारद्वारं गन्तव्यं यत्र भारतीया संस्कृतिः भारतीयता च सुप्ता प्रच्छन्ना विद्यते, तद्द्बोधनाय संस्कृतस्य शरणं समपेक्ष्यते। तत्रैव निषेकादि श्मशानान्ताः, नित्यनैमित्तिक-काम्यरूपेण सम्पाद्यमानाः पैतृकदैविककार्यरूपाः क्रियाः दर्शिता णिताः प्रतिपादिताश्च विद्यन्ते।

इदानीन्तनाश्च जनाः, औध्वंदंहिकक्रियात एव पितृकर्मसु बिरता; येन केन प्रकारेण श्माशानक्रियां समाप्य कृतकृत्याः स्वात्मानः मन्यमानाः परिलक्ष्यन्ते। पिण्डदानादिकं श्राद्धादीनि कर्माणि नंव सम्पादयन्ति, एवञ्च शास्त्रानुकूला विधिविहीनकर्मकरणात् मृताः मनुजाः भूत-प्रेत-पिशाचरूपेण परिभ्रमन्तः स्वात्मनमुद्धर्तुं सत्कर्मणि प्रवृत्तान् धर्मभीरून् स्वबान्धवान् अप्रत्यक्षरूपेण पीडयन्ति। एवञ्च समेषां गृहस्थजीवनं दुःखमयं भवति। कृतेऽपि दैवे कर्मणि समस्यायाः समाधानं नैव भवति। विदुषामपि समाजे देवकार्याणामेव प्रचलनं पितृकर्मणाञ्च उपेक्षणं प्रतीयते। एवञ्च पितृकर्मविमुखत्वात् पीडितस्य समाजस्य समुद्धारार्थ तर्पणसहिता ‘एकोद्दिष्ट श्राद्धपद्धतिः’ ‘निर्वाशका’ नाम्नी हिन्दीटीकया संवलिता प्रकाश्यते।

यद्यपि पद्धतिरियं पूर्वकालेऽपि प्रकाशिता विद्यते, तथापि समाजस्यैकाङ्ग एव प्रचलितत्वात् निर्देशाभावाच्च सर्वत्र नैवोपयोगिनीति समेषामुपकाराय हिन्दीभाषायां विधिनिर्देशपूर्वकं प्रकाशितास्ति। अनया पद्धत्या श्राद्ध-सम्पादने साक्षराः सर्वेऽपि जनाः समर्था भविष्यन्तीति विचार्य पितृणामाशीर्वादेन सर्वविधैश्वर्यसम्पन्नाश्च सर्वे भवेयुरिति च विचार्य इयं श्राद्धपद्धतिः समेषां समक्ष प्रस्तुतास्ति। अस्याः पद्धतेः प्रकाशनेन बहूपकारः समाजस्य कृत इति चौखम्बा कृष्णदास अकादमी संस्थाध्यक्षाः भृशं धन्यवादार्हाः। अनया पद्धत्या श्राद्धविधिसम्पादने सौविध्यमनुभवन्ति चेत् कर्मकाण्डिनस्तदाऽस्माकं श्रमसा-फल्यम्मन्यामहे वयमिति।

Reviews

There are no reviews yet.

Be the first to review “Ekoddishta Shraddh Paddhati (एकोद्दिष्ट श्राद्धपद्धति)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×