Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Kavya Prakash (काव्यप्रकाशः)

191.00

Author Mammta Acharya & Shri Hari Shankar
Publisher Chaukhambha Prakashan
Language Sanskrit
Edition -
ISBN 978-93-86735-44-7
Pages 316
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0595
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

काव्यप्रकाशः (Kavya Prakash)

श्रीमद्गुरुप्रैरणयाऽत्र ग्रन्थे सुभूमिकालेखनतत्परोऽ भवम् ।

स्यादत्र कुत्रापि भ्रमाद्‌शुद्धिस्तां बुद्धिमन्तोहि क्षमध्वमार्य्याः ।।

विदाङ्कुर्वन्तु विविधविद्याविद्योतितस्वान्ताः वाग्वैलक्षण्यविजितवाचस्पतयो विद्वन्मण्डलीमण्डनाः विद्वद्वरिष्ठाः । यत्किल काव्यप्रकाशो हि नामा ग्रन्थः सर्वेषु साहित्यालङ्कारग्रन्थेषु चूडामणित्वमुपगतो विभाति नितराम्। अस्य हि विद्वत्सर्वस्वभूतस्य ग्रन्थप्रवरस्याद्यावधिकालं बहुभिर्मान्यैर्गण्यविद्वद्भिरायेंः सुविहिता नैकविधाष्टीका विद्यन्ते मुद्रिताः भूतले ह्यस्मिम् तत्प्रचारश्च विद्यते कोविदसंसारे प्राचुर्येण, किं च मम मते-

दुर्बोधं यदतीव तद्धि जहति स्पष्टार्थमित्युक्तिभिः

स्पष्टार्थेष्वतिविस्तृतिं विदधति व्यथैः समासादिकैः ।

अस्थानेऽ नुपयोगिभिश्च बहुभिर्जल्यै भ्रमं तन्वते

श्रोतृणामिति वस्तुविप्लवकृतः सर्वेऽपि टीकाकृतः ।।

इति भोजोक्तरीत्या बहुशो ग्रन्थेषु टीकाकर्तृशैली दश दशैं प्रचलितासु द्वात्रिंशतोप्यधिकासु टीकासु साधारणजनबोधनाक्षमत्वं मूलग्रन्थस्य याथातथ्येनानवलोकयन् श्रीवाग्देव्याः पुरुषावतारेणावतीर्णानां श्री १०८ मम्मटशर्म्मविदुषां काव्यप्रकाशविभातृणाम् हार्दभावं सामान्यपण्डितपरिषद्यपि विशेषविदुषां विदुषामिव प्रकाशयितुमनाः स्वीयेन जनुषा विदेहनगरप्रान्तं श्रीठाढीग्रामलङ्कुर्वाणान् सर्वतन्त्रस्वतन्त्रश्रीशिवशङ्कर शर्मणामवरजान् छात्रसंसदि प्रलब्धप्रचुरकीर्तीन् विद्वत्समाजे सकलेऽपि विश्रुतयशसो नैकविधन्यायव्याकरणकाव्यसाहित्यग्रन्यभाष्यकर्तृन् बरेलिजनपदानां सौभाग्येनाष्टा- दशहायनकालादप्यधिकसमयतः बरेलिनगरस्थश्रीविष्णुविद्यालये सुहद्भावेन प्रथमाध्यापकपदं समास्थाय विविधशास्त्राणि सम्यगध्यापयतः प्रत्यब्दं बहून् छात्रान् विदुशो विधाय चतुर्दिक्षु विद्यालयसंस्थापकानां “श्रीमद्रामकृष्णदासानां भूतपूर्वमहन्तवराणां’ कि वर्तमान “महन्तमहाबीरदासाभिधेयानां” च कीर्तिपताकाः संस्फारयतः परमकारुणिकतया प्रतिवत्सरं छात्रहितमाकलय्य निजलेखन्या कमप्येकं ग्रन्थरत्नं सुव्याख्याय मुद्राप्य जगति प्रकाशयतः सुगृहीतनाम्नः सर्वतन्त्रस्वतन्त्रान् कैलासवासिनां प्रातः स्मरणार्हाणां श्री १०८ महामहोपाध्यानां शिवकुमारशर्मणां प्राथमिकशिष्यान् श्री ५ हरिहशङ्करजाशास्त्रिणो निजकृपालुगुरुन वह्नीभिः प्रार्थनावाग्भिः सन्तोषयन् याचनामकरवम् काव्यप्रकाशटीकाकरणमुद्दिश्य प्रावर्तन्त च ते तथा कुर्तुम्। सोऽयभिदीनी तदशेषकृपाफलरूपों टीकाग्रन्थः विद्यते विद्वत्समक्षम्। उदाराशयाः गुणैकपक्षपातिनो विद्वांसः विहाय दूरतः गुणवस्तु आत्सर्य्य चाण्डालमिव स्निग्धदृष्ट्या वास्तविकत्वं विलोकयन्तः टीकाकर्तृश्रमं सफलयन्तु। यद्यप्यस्मिन् ग्रन्ये माणिक्यचन्द्रः, सरस्वतीतीर्थः, जयन्तभट्टः, सोमेश्वर, विश्वनाथचक्रवर्ती, आनन्दकविः, श्रीवत्सलाञ्छन:, प्रदीपकारः कमलाकरभट्टः महेश्वरनरसिंहठक्कुरः, वैद्यनाथः, भीमसेनः, नागोजीभट्टः, महेशचन्द्रः, इत्यादिकाः, बहवो व्याख्यातारः व्याख्याः व्यधुः परं च नैतादृशी कापी व्याख्या यथाऽनायासेन मन्दधियोऽपि ग्रन्थकर्तृहार्द भावं ज्ञातुं शक्नुयुरिति । काव्यप्रकाशस्य टीकाबहुत्वे च हेतुरयम्। यदयं हि काव्यप्रकाशाभिधो निबन्धप्रवरः सर्वाशं नितरामुत्कर्षमावहति । किं चात्र यस्य कस्यचिदंशस्याभिप्रायोऽ-तीव दुरधिगमःयं सम्यक्परिनिष्ठितमतयोऽपि याथातथ्येन मनोविषयं कर्तृमक्षमाः । अत एवास्य बह्रचष्टीकाः संवृत्ताः । महेश्वरभट्टाचार्यैरप्युक्तम्-

‘काव्यप्रकाशस्य कृता गृहे टीकास्तथाप्येष तथैव दुर्गम’ इति ।

अस्मद्गुरुपादैरुपर्युक्तहीनतामवलोक्य तथाविधटीकाकरणे प्रवृत्तं यथाऽहार्द दुरधिगमस्थलं च सुखबोध्यं सत् सहदयजनहृदयाह्लादि भवेत्रितराम । श्रीमम्मटाचार्याणामितिवृत्तं तत्त्वतो नोपलब्धं गवेषणापरैर्यद्यपि तथापि निश्चिनोम्यक्ष विषये जनश्रुतिमिमां सोपपत्तिकाम यत्किल शब्दाव्यापारविचाराख्यग्रन्थस्य रचयितारो महाशया एत एव सोऽयं ग्रन्थः पुण्यपत्तनस्थराजकीयप्रधानविद्यालये दृष्टिपथमलङ्करोति साम्प्रतिकेऽप्यनेहसि । जनुषा कं जनपदमलञ्चक्रुरिमे ह्युदाराशया इति निर्णेतुं प्रवृत्तः काश्मीरं जनपदमेतेषां निवासभूमि जाने यतो हि श्रीमम्मटेतिनाम देशान्तराऽसुलभानां जैयट कैयट-वज्रट-उवट-औवट-उद्भट- रुद्रट-धर्म्मट-कल्लट-मल्लट-लोल्लट इत्याद्यभिधानानां तुल्यत्वमनुधावति परमाचार्याणाम् । एतेषां काश्मीरदेशवासित्वादेव काव्यप्रकाशदर्पणे पञ्चमोल्लासे “चिङ्कुपदस्य” व्याख्यावसरे श्रीविश्वनाथेनोक्तम – चिङ्कुपदं हि काश्मीरदेशभाषायां प्रसिद्धमश्लीलार्थबोधकम्-इति । इत्याद्यनुसन्धानपरैः काश्मीरदेशीयतैव स्वीक्रिय- तेऽर्हत्तमैर्विद्वद्भिरायेंः ।

श्रीमन्तोऽस्मद्गुरुपादाः काव्यप्रकाशस्यानेकविधासु टीकासु सतीष्वपि यत्परिश्रमबाहुल्यमनपेक्ष्य परोपकारबद्धहृदयत्वेनेमां टीकां विधाय वाराणसीस्थ चौखम्भासंस्कृतग्रन्थमालाध्यक्षगोलोकवासिश्रेष्ठिप्रवरहरिदासगुप्तात्मजश्रीजयकृष्णदास- गुप्तमहोदयेभ्यः प्रकाशनाय ददुस्ते च महोदयाः सानुनयमनुगृह्य स्वकीयद्रव्यव्ययेन मुद्राप्य विद्वत्समक्षं प्रकाशितवन्तोऽति महोदारचरितानामेतेषां परिश्रमफलरूपया टीकयाऽनया विद्वत्समाजस्य बहूपकृतं भविष्यतीति विद्यते मे मनसि विपुलतरा- शाया अवकाशः ।

अस्यां हि टीकायां प्रमादजादौषाद्यत्र कुत्रापि स्खलनं भवेत्तत् गुणैकपक्षपातिनो विद्वद्वरिष्ठा संशोध्य शान्तेन स्वान्तेनैव सूचयितुं दयालवो भविष्यन्ति येन संस्करणान्तरे तत्सम्बलनं शोधितं भवेत्। कि बहुना विज्ञापितेन विज्ञसमाजे।

Reviews

There are no reviews yet.

Be the first to review “Kavya Prakash (काव्यप्रकाशः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×