Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Manorama Ratna Vimarsha Vol. 1 (मनोरमा-रत्न-विमर्शः भाग-1)

35.00

Author Keshavdev Tiwari
Publisher Chaukhamba Surbharti Prakashan
Language Hindi & Sanskrit
Edition -
ISBN -
Pages 44
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSP0518
Other मनोरमा-रत्न-विमर्शः (प्रौढ़मनोरमा-शब्दरत्न-प्रश्नोत्तरी) प्रथमोभागः नवीन पाठ्यक्रमानुसार लघु एवं अतिलघु प्रश्नोत्तर सहित

 

10 in stock (can be backordered)

Compare

Description

मनोरमा-रत्न-विमर्शः भाग-1 (Manorama Ratna Vimarsha Vol. 1) विदितमेव तत्रभवतां श्रीमतां यत्संस्कृतवाङ्मयज्ञानाय व्याकरणमेव मुख्यं कारणम्। ऐन्द्रचान्द्रादिषु नवविधेषु व्याकरणेषु सत्स्वपि सर्वत्राधुना पाणिनीय-व्याकरणमेव प्रचलति। तच्च व्याकरणं लक्ष्यलक्षणात्मकम्। तत्र शब्दो हि लक्ष्यः लक्षणञ्च सूत्रम्। अनयोः सम्यग्ज्ञानार्थं सिद्धान्तकौमुद्या अध्ययनं परमावश्यकम्। कौमुद्या गूढाभिप्रायं ज्ञातुं मनोरमाया विचारोंऽप्यावश्यकः, तस्या अपि रहस्योद्घाटनार्थं शब्दरत्नस्यापि महत्त्वं वरीति।

परश्वास्मिन् ह्रासयुगेऽल्पबुद्धीनां छात्राणां कृते सिद्धान्तकौमुद्या अध्ययनमेव दुष्करम्, का कथा मनोरमाशब्दरत्नयोविचारस्य ? अतः प्रकाशकमहोदयस्य श्रीनवनीतदासगुप्तस्याग्रहवशंवदेन छात्रहितैषिणा मया मनोरमारत्नविमर्शनाम-कमभिनवं संस्करणं प्राकाश्यं नीतम्। श्रीसुरेशचन्द्रशर्मणाऽप्यस्मिन् कायें लेखनादिना भृशं साहाय्यं प्रदत्तमिति तमपि शुभाशीर्वचनैः सभाजयामि। प्रकाशकोऽपि धन्यवादार्हः; येन छात्राणां हितार्थमेतस्य प्रकाशनं विहितम् । किमधिकम्, यदीमां प्रश्नोत्तरीमेव विद्यार्थिनो गुरुजनसकाशात् पठेयुः, तदाऽपि ग्रन्थगतपदार्थानां ज्ञानं स्यात्। यद्येनां कण्ठस्था अपि कुर्युस्तथाप्युच्चश्रेण्यामुत्तीर्णा भवेयुरित्याशासे। प्रमादेनात्र काश्चन त्रुटयः स्युस्ताः संशोध्य गृहीतव्या विद्वद्भिस्तदर्थं सूचनीयो- ऽप्ययं जन इति शम्।

Reviews

There are no reviews yet.

Be the first to review “Manorama Ratna Vimarsha Vol. 1 (मनोरमा-रत्न-विमर्शः भाग-1)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×