Sankshipt Diksha Paddhati (संक्षिप्तदिक्षा पद्धतिः)
₹10.00
Author | P. Shree Gangadhar Mishra |
Publisher | Chaukhamba Sanskrit Series Office |
Language | Sanskrit |
Edition | 2nd edition |
ISBN | - |
Pages | 16 |
Cover | Paper Back |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | CSSO0414 |
Other | Old and Rare Book |
10 in stock (can be backordered)
CompareDescription
संक्षिप्तदिक्षा पद्धतिः (Sankshipt Diksha Paddhati)
तत्र दीक्षाग्रहणावश्यकत्वमुक्तं यामले –
अदीक्षितानां मर्त्यांनां दोत्रं शृण्वन्तु साधकाः। अर्ज विष्ठासमं शेयं जलं मूत्रसमं तथा॥
अदीक्षितकृतं श्राद्धं श्राद्धं चादीक्षितस्य च। गृहीत्वा पितरस्तस्य नरके चाशु दारुणे॥
पतन्त्येव न सन्देहो यावदिन्द्राश्वतुर्दश। तथाऽप्यदीक्षितस्यार्चान् देवा गृहन्ति नैव हि॥
तत्र दीक्षाशब्दव्युत्पत्तिस्तत्रैव –
दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य संक्षयम्।
तस्माद् दीक्षेति सा प्रोक्ता सुनिभिस्तन्त्रवेदिभिः॥
अपि च चिदम्बररहस्ये –
दियिते ज्ञानमेतेन क्षीयतेऽज्ञानसम्पदः। तस्माद्दीच्चेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः।
केभ्यो मन्त्रग्रहणं न कार्यन्तदुक्तं ताराकल्पे –
पितुर्मन्त्रं न गृह्णीयात्तथा मातामहस्य च। सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च॥
प्रमादाद्वा तथाऽज्ञानात्, पितृदीक्षां समाचरेत्। प्रायश्चित्तं ततः कुर्यात् पुनर्दीक्षां समाचरेत्॥
पितुर्दीक्षा यतेर्दीक्षा दीक्षा च वनवासिनः। अनाश्रमाणां या दीक्षा सा दीक्षा दुःखदायिनी॥
त्रिपुरारहस्ये –
भिक्षुभ्यथ बनस्येभ्यो वर्णिभ्यव्व महेश्वरि। गृहस्थो भोगमोक्षार्थी मन्त्रदीक्षां न चाचरेत्॥
ब्राह्मणः सर्ववर्णानां, त्रयाणां क्षत्रियो गुरुः। वैश्यो वर्णद्वयानां तु शूद्राणां शूद्र एव तु।
स्त्रीणां पतिमन्त्रग्रहणेऽपि दोष उक्तो भविष्यपुराणे –
“पत्युर्मन्त्रं पितुर्मन्त्रं न गृह्णीयाद् वै कदाचन।
इति। पतिभिनगुरुजनसङ्गाचे बोध्यम्।”
पतिभिन्नगुरुजनाभावे पत्युर्मन्त्रग्रहणे प्रमाणमुक्तं चिदम्बररहस्ये –
पतिव्रतानां सर्वांसां पतिरेव गुरुः स्मृतः। तस्मादेव तु सा दीक्षां गृह्णीयाद्भक्तिसंयुता॥
भर्तुर्गुरोः सकाशाद्वा गृहीयाद्भक्तिसंयुता। पितुर्वा स्वपितुर्वापि चान्यथां पापभागिनी॥
अथ शिष्यलक्षणम् –
शान्तः सुनीतिः शुद्धात्मा श्रद्धावान् धारणक्षमः। समर्थध कुलीनब प्राज्ञः सच्चरिती व्रती॥
एवमादिगुणैर्युक्तः शिष्यो भवति नान्यया॥
गुरौ शिष्येण मानवभावो न कर्त्तव्यस्तदाह –
गुरौ मनुष्यबुद्धिं च मन्त्रे चाक्षरबुदिताम्। यन्त्रे मूल्यौँ शिलाबुद्धि कुर्वाणो नरकं मजेत्॥
Reviews
There are no reviews yet.