Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Sanskrit Nibandha Shatakam (संस्कृत निबन्धशतकम्)

119.00

Author Dr. Kapildev Dwivedi
Publisher Vishwavidyalay Prakashan
Language Sanskrit
Edition 17th edition, 2021
ISBN 978-81-7124-967-1
Pages 348
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code VVP0136
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

संस्कृत निबन्धशतकम् (Sanskrit Nibandha Shatakam) सर्वप्रथमम् अनुयोगोऽयं विचारचर्चाम् आरोहति यत् सत्सु दशाधिकेषु संस्कृत निबन्ध-ग्रन्थेषु का नाम आवश्यकता नूतनस्य संस्कृत-निबन्ध-ग्रन्धस्य ? यदि याथातथ्येन विविच्यते तर्हि सुतरां स्फुटमेतद् आपद्यते यत् सन्ति केचन निबन्धग्रन्थाः लघुकलेवराः, अन्ये महाकायाश्च। केचन लघीयांसः, अन्ये च महीयांसः। केचन परिष्कृताः, अन्ये च विविधदोषबहुलाः केचन वाग्वैदग्ध्यप्रधानाः पाण्डित्यप्रदर्शनप्रवणाः, शास्त्रीयपद्धतिसमाश्रयणैकरसिकाः, दुर्बोधाः, अहृदयङ्गमाश्च, अन्ये तु अनावश्यक विस्तारबहुलाः, अपरिष्कृत-भाव-भाषोपेताः, मुद्रणादिदोषसंवलिताः, दुरास्वाद्याश्च। दशहायनपूर्व मया याऽऽवश्यकता अन्वभूयत प्रौढस्य विश्वविद्यालय-स्तरीयस्य समीक्षात्मकस्य संस्कृत निबन्ध-ग्रन्धस्य, सा रचनयाऽनया पूर्तिमुपैतीति न केवलं मामकं स्वान्तम्, अपि तु समेषां सचेतसां विपश्चितामपि मुदम् आवक्ष्यतीति में निश्चितं मतम्।

निबन्धरचनायां के गुणा विशेषतः समावेश्या इति विचारे निश्चप्रचं मे मतिरुदेति यद् नवीनेषु निबन्धग्रन्थेषु विविधविषयावगाहि ज्ञानं संगृहोत, गीर्वाणवाण्यास्तत्र तथाविधं स्वरूपम् उपस्थाप्येत यथा देववाण्यां विदुषाम् अभिरुचिर्वर्धेत, तादृशी भाषा प्रयुज्येत या सारल्येन हृदयङ्गमा स्यात्, विषय-विवेचनं तथा प्रस्तूयेत यथा ज्ञानसंवर्धनेन सममेव प्रामाणिकी सामग्रीमपि समुपस्थापयेत्। तत्र पाण्डित्यप्रदर्शनं निरस्य, दार्शनिकों भाषाशैलीम् अननुरुध्य, अनर्थकं वाग्जालं परिहाय, अनपेक्षितम् अपास्य, परिष्कृतया भाषया, प्राञ्जलया शैल्या, हृदयंगमया भावाभिव्यक्तिप्रक्रियया, मनोज्ञया साधिष्ठया प्रेष्ठया च विवृत्या विषयप्रतिपादनं स्यात्। पूर्वोक्त-वैशिष्ट्यं संग्रहीतुकामेन मयाऽत्र तादृशी शैली समाश्रिता यया प्रतिपदं प्रतिपलं गीर्वाणवाण्या अध्ययने पठने अनुशीलने व्यवहारे च न केवलं संस्कृत्तानुरागिणां सुधियामेव प्रवृत्तिः स्यात्, अपि तु सामान्यधियाम् अल्पधियां चापि जिज्ञासूनाम् अभिरुचिः प्रवर्धेत।

Reviews

There are no reviews yet.

Be the first to review “Sanskrit Nibandha Shatakam (संस्कृत निबन्धशतकम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×