Sanskrit Sahitya Saurabham (संस्कृत साहित्य सौरभम्)
₹300.00
Author | Dr. Pawan Kumar Dixit |
Publisher | Sharda Sanskrit Sansthan |
Language | Sanskrit |
Edition | 1st edition, 2016 |
ISBN | 978-93-81999-84-4 |
Pages | 350 |
Cover | Paper Back |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | SSS0108 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
संस्कृत साहित्य सौरभम् (Sanskrit Sahitya Saurabham) डॉ० पवनकुमारदीक्षितप्रणीतस्य संस्कृतसाहित्यसौरभमिति नामधेयस्य प्रकाशोन्मुखस्यं विविधविषयसंवलितस्य ग्रन्थरत्नस्य दर्शनावसरो मया लब्धः। ग्रन्थेऽस्मिन्नायुष्मता पवनकुमारेण भारतीयसंस्कृतवाङ्मयसम्बद्धाः प्रायः सर्वेऽपि विषयाः सरलया भाषया प्राञ्जलशैल्या च विवेचिताः। अत्र तावद् वेद-वेदाङ्ग-न्याय-सांख्य-योग-मीमांसा-वेदान्त-काव्यायुर्वेद-पुराणेतिहासागमप्रभृति-विषयाः प्रामाणिकपद्धत्या समुल्लिखिता विवेचिताश्च। स्वविषय-विवेचनगाम्भीर्येण कलेवरदृष्ट्या लघुत्वं विभ्रदप्ययं ग्रन्थः परमोच्चपदवीं भजते। यद्यस्य शास्त्रसारभूतस्य ग्रन्थस्यामूलचूलमध्ययनं केनापि भारतीयसंस्कृतवाङ्मयसार-जिज्ञासुना क्रियेत तदावश्यमेव तस्य मानसपटले संस्कृतसाहित्य-सौरभोल्लासः सञ्जायेत। लघुवयसि विद्यमानेनाप्यनेनैतावद् गुरुतरकार्यं स्वगुरुपरम्पराकृपया सम्पादितमित्येतदर्थमस्मै चिरायुषे पवनकुमारदीक्षिताय हार्दान् साधुवादान् समर्प्य तन्मतिरग्रेऽप्येवमेव संस्कृतवाङ्मयमन्थने प्रवर्ततामिति च कामयमानोऽहं विरमामि विस्तराद्।
Reviews
There are no reviews yet.