Sanskrit Shastra Manjusha (संस्कृत शास्त्र मञ्जूषा)
₹446.00
Author | Uday Shankar Jha |
Publisher | Chaukhamba Surbharati Prakashan |
Language | Sanskrit & Hindi |
Edition | 2024 |
ISBN | 978-9383721863 |
Pages | 620 |
Cover | Paper Back |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | CSP0809 |
Other | Dispatched in 3 days |
10 in stock (can be backordered)
CompareDescription
संस्कृत शास्त्र मञ्जूषा (Sanskrit Shastra Manjusha)
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।
पुराणं धर्मशास्त्रञ्च विद्याह्येताश्चर्तुदश।।
भारतवर्षवाटिकायां संस्कृतशास्त्रवृक्षः प्राचीनकालादेव बहुभिर्विचक्षणैः ग्रन्थकृन्मालाकारैः स्वज्ञानजलेन संसिक्तः सन् पुष्पितः फलितश्च। अस्य संस्कृतशास्त्रवृक्षस्य प्रधानमूलं ऋग्यजुस्सामाथर्वाणः इति चत्वारो वेदाः, उपमूलानि वेदाङ्गानि शिक्षा, व्याकरणं, निरुक्तं, ज्योतिषं, छन्दः, कल्पश्चेति षडङ्ङ्गानि सन्ति। अस्य संस्कृतशास्त्रवृक्षस्य शाखाः भाषाविज्ञानं, नव-दर्शनानि, पुराणेतिहासौ, धर्मशास्त्रं कर्मकाण्डञ्च सन्ति। अस्य पत्राणि कोशाः टीकाग्रन्थाश्च। अस्य फलम् अभ्युदयो निःश्रेयसश्च। इत्थं धर्मार्थकाममोक्षाणां पुरूषार्थचतुष्टयानां संसाधकं साहित्यं संस्कृतशास्त्रमेवास्ति।
साम्प्रतिके परीक्षाप्रधानयुगे एतादृशस्य कस्यचन पुस्तकस्य समुपलब्धिः यू.जी.सी नेट/जे. आर. एफ. संस्कृतवाङ्मयस्य विभिन्नप्रतियोगिपरीक्षासु प्रविविक्षूणां कृतेऽपि महत्त्वमादधाति। अस्मिन् ग्रन्थे ग्रन्थानां ग्रन्थकाराणां तेषां विशिष्टसिद्धान्तानां च परिचयात्मकं विशिष्टविवरणात्मकं तथ्यं स्थाने-स्थाने प्रदत्तमस्ति। इयं खलु ‘संस्कृतशास्त्रमञ्जूषा’ संस्कृतविश्वविद्यालयीय-संस्कृतच्छात्राणाम् एवं च सामान्यविश्वविद्यालयीयसंस्कृतच्छात्राणां कृतेऽपि लाभकरी एव। किम्बहुना परीक्षायाम् उत्तरलेखने छात्राः यथा सौविध्यम् अनुभवेयुः तदर्थं सर्वं चेष्टितमस्ति।
इयं ‘संस्कृतशास्त्रमञ्जूषा’ द्वादशाध्याऽत्मिका। तत्र (1) प्रथमाध्याये वैदिकसाहित्यस्य निरूपणम्, (2) द्वितीयाध्याये-व्याकरणशास्त्रस्य विवेचनम्, (3) तृतीयाध्याये-साहित्यशास्त्रस्य विवेचनम्, (4) चतुर्थाध्याये-ज्योतिषशास्त्रं निरूपितम्, (5) पञ्चमाध्याये-शिक्षाशास्त्रं विवेचितम्, (6) षष्ठाध्याये-निरुक्तस्य प्रतिपादनम्, (7) सप्तमाध्याये-भाषाविज्ञानं प्रतिपादितम्, (8) अष्टमाध्याये-कल्पशास्त्रं विवेचितम्, (१) नवमाध्याये-दर्शनशास्त्रस्य निरूपणम्, (10) दशमाध्याये-पुराणेतिहासौ प्रतिपादितौ, (11) एकादशाध्याये-धर्मशास्त्रकर्मकाण्डे च निरूपिते, (12) द्वादशाध्याये च-सामान्यज्ञानस्य विवेचनानि सन्ति। यदि एतेन ग्रन्थेन छात्राणां मनागपि हितं भविष्यति चेत् तदा मदीयः परिश्रमः सफलो भविष्यति।
Reviews
There are no reviews yet.