Saral Trikonmiti (सरल त्रिकोणमिति:)
Original price was: ₹180.00.₹170.00Current price is: ₹170.00.
Author | Pt. Sri Govind Pathak |
Publisher | Sampurnananad Sanskrit Vishwavidyalay |
Language | Sanskrit |
Edition | 3rd edition |
ISBN | 82-7270-079-2 |
Pages | 206 |
Cover | Hard Cover |
Size | 14 x 1 x 22 (l x w x h) |
Weight | |
Item Code | SSV0007 |
Other | Dispatched in 1-3 days |
9 in stock (can be backordered)
CompareDescription
सरल त्रिकोणमिति: (Saral Trikonmiti) सुगूढार्थज्यौतिषसिद्धान्तग्रन्थानुशीलना दर्वाग्बीजगणित – सरलत्रिकोणमितिचलन-कलनप्रभृतिविषयाणां सम्यक् परिचयोऽत्यावश्यको भवतीति सम्प्रधार्य ज्योतिर्विन्मूर्धन्याः म०म० श्रीबापूदेवशास्त्रिमहोदयाः ‘सरलत्रिकोणमिति’ संज्ञं गणिततन्त्रं प्राणैषिषुः। एतद्विषय-प्रतिपादकेषु सत्स्वपि ग्रन्थान्तरेषु परीक्ष्यच्छात्राणां प्रस्तुग्रन्थसमुपलब्ध्यै प्रगाढमौत्सुक्यम्, अथ च ग्रन्थस्यास्य चिरकालाद् दुष्प्रापत्वं मल्लक्ष्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयीयानु-सन्धानविभागाध्यक्ष महोदयेः सनिर्बन्धं प्रणोदितेन मया शास्त्रिवर्याणां यशःस्तोम संरक्षणायै-तग्रन्थस्यैतत्संस्करणप्रकाशनभारः स्वीकृतः।
अत्र शीघ्रोपस्थितये ग्रन्थप्रतिपादित सिद्धान्तान् संकलय्य ते ग्रन्थादौ निवेशिताः सन्ति, येषु प्रमुखसिद्धान्तानां व्यावहारिकता तत्तत्सिद्धान्तनिरूपणप्रसङ्ग तत्रत्यटिप्पणीद्वारा व्यक्तिकृतास्ति। स्थलविशेषस्याशयप्रदर्शनाय च तत्तत्स्थले टिप्पण्यपि नियोजिता बर्तते। एवं तत्तदध्यायप्रतिपादितविषयाणा व्याप्तिप्रदर्शनाय प्रत्यभ्यायसमाप्तौ कतिपयोदाहरणाना सङ्ग्रहश्छात्राणामभ्यासार्थ प्रदत्तोऽस्ति। अन्ते च परिशिष्टप्रकरणं निवेशितं विद्यते, यत्र छात्रजनोपकृतये निम्नाङ्कितविषयाः संगृहीतास्खन्ति –
(१) प्रस्तुतग्रन्थप्रतिरादिते त्रिभुजादिगणिते तथा पदार्थस्योच्छितेदूरत्वस्य च परिज्ञानाय योऽत्र गणित्तक्रमः प्रदर्शितस्तत्र चेम्बर्स-धाता कुसारण्या अनुपदमुप-युज्यमानत्वादुक्तवारण्याः सविस्तरोपयोगविधिप्रदर्शनपुरस्सरं घाताङ्कगणितस्य स्वल्पपरिचयः।
(२) समानज्याकोटिज्यादिसम्बन्धिकोणानां सर्वकोणसाधारणमा नानयनप्रकारः।
(३) श्रीभास्कराचार्योक्तभेढो सर्वधनानयनसूत्रस्य सरलत्रिकोणमितिगणितरीत्यो-पपादनम्। तथा कीदृश्रेढ्याः सर्वधनं वर्गादिघातसमं भवतीत्यस्य प्रदर्शनम्।
(४) ग्रहस्य सूर्यकेन्द्रीयभोगतस्तस्य भूकेन्द्रीयभोगानयनप्रकारः सोपपत्तिकः।
(५) डेमायवराख्थप्रसिद्धमहागणकसिद्धान्तद्वारा कोणस्य ज्याकोटिज्याम्यां केनचिद् गुणकेन गुणितस्य तस्य कोणस्य ज्याकोटिज्याद्यानयनम्।
Reviews
There are no reviews yet.