Siddhant Tattav Vivek Set of 3 Vols. (सिद्धान्ततत्त्वविवेकः 3 भागों में)
₹712.00
Author | Dr. Krishna Chandra Dvivedi |
Publisher | Sampurnananad Sanskrit Vishwavidyalay |
Language | Sanskrit |
Edition | 1st edition |
ISBN | 978-81-933608-2-8 |
Pages | 1166 |
Cover | Hard Cover |
Size | 16 x 1 x 24 (l x w x h) |
Weight | |
Item Code | SSV0003 |
Other | Dispatched in 1-3 days |
Out of stock
CompareDescription
सिद्धान्ततत्त्वविवेकः 3 भागों में (Siddhant Tattav Vivek Set of 3 Vols.) सम्पूर्णानन्दसंस्कृतविश्वविद्यालयो नाम विश्वकेन्द्रं संस्कृतभाषायाः। समस्तमपि संस्कृतजगदेतस्य विद्याविभवेनोपकृतम्। इदं प्रत्यक्षाप्रत्यक्षतया समेषामपि संस्कृत- विद्यास्थानानां मूलस्थानत्वं भजते । विभिन्नानां शास्त्राणामध्ययनाध्यापनप्रवर्तकत्वेन जगति सुप्रतिष्ठितोऽयं विश्वविद्यालयो वर्तमानेऽपि काले पञ्चविंशतिशास्त्रीयैर्विभागैः, सहस्राधिकैः सम्बद्धविद्यालयैः, प्रायशः सहस्त्रैः पण्डितैः, अशीतिसहस्रछात्रैश्च संवृतः प्रकाशस्तम्भ इव राराजते संस्कृतवाङ्मयोपासकानां कृते। अयमास्ते प्रधानः कल्पोऽस्य विश्वप्रतिष्ठानस्य, येन समर्पिता विद्वदुत्तमा विदुषां साहस्त्री राष्ट्राय।
द्वितीयः सुसम्पन्नः कल्पः “सरस्वतीभवनम्” इति नाम्ना संस्कृतसाहित्यस्या- नुपमः सङ्ग्रहोऽन्ताराष्ट्रियपुस्तकालयत्वेन विराजमानः सम्पूर्ण मनीषिसमुदायं समाकर्षयति। अत्र च विद्यमानाः सपादलक्षमिता हस्तलिखिता मातृकाः, प्रायशो द्विलक्षपरिमिताश्च प्रकाशिता ग्रन्थाः प्रत्यक्षं समुपस्थापयन्ति संस्कृतभाषाया अद्वितीयामनिर्वचनीयां च सम्पदम् । पुस्तकालयोऽयमखिलस्यापि भूमण्डलस्य संस्कृत- विद्वत्समुदायस्य मार्गदर्शकः, सहायकोऽपरतीर्थत्वेन च समाराधनीय इति श्रेष्ठोऽयं प्रकल्पः कीर्तिस्तम्भत्वेन प्रतिष्ठितो भारतदेशस्य।
अस्य शोधनामाभिधो विभागस्तृतीयः कल्पः, समवायः सर्वेषामपि विभागानां, विश्वविद्यालयीयविदुषां निर्देशेनानुसन्धानकर्मणि प्रवृत्तानां शोधस्नातकानां, येषां च प्रायशः पञ्चदशशती विविधान् शास्त्रीयान् विषयानधिकृत्य न केवलमुपाधि प्राप्तवती, अपि तु नूतनं तत्त्वज्ञानमपि विभिन्नेषु शास्त्रेषु प्रकाशितवती। केन्द्रशासनविश्व- विद्यालयानुदानायोगादीनां विभिन्नानां शोधयोजनानां प्रवर्तनं सञ्चालनं चास्य विशिष्टं कर्म। अस्मिन् कल्पे पण्डिता आधुनिका युवका युवतयश्चान्वेषणदीक्षिताः संवर्धयति संस्कृतवाङ्मयश्रियमिति महत् सन्तोषास्पदम्।
अस्य प्रकाशनसंस्थानाभिधश्चतुर्थः प्रकल्पो भारतविद्याया नवीनानां प्राचीनानाञ्चाङ्गानां सम्पादने, प्रकाशने च निरतोऽद्यावधि प्रकाशितानां त्रिशताधिकानां विविधानां ग्रन्थानां मालया भगवतीं शारदां समाराधितवान्, संस्कृतवाङ्मयस्य च समृद्धि संवर्धितवान् इति महतो गौरवस्य विषयः। सेयं प्रकाशनमाला प्रतिवर्षमभिनवान् ग्रन्थान् प्रकाशयन्ती मत्पूर्ववर्तिनां कुलपतीनां विशिष्टानां नवनवानां च लेखकानां सम्पादकानां मनीषिणां सुरभिमयां साधनां प्रस्तुवन्ती विद्योतत इति विशेषेण माहात्म्यमस्य प्रकल्पस्य।
तदेवमेतेषु सुदृढेषु स्तम्भचतुष्टयेष्वधिष्ठितोऽयं विश्वविश्रुतः संस्कृतप्रासादः सिद्धपीठत्वेन राष्ट्रेऽस्मिन् विराजत इति सुमहत् प्रमोदस्थानम्। एतस्यामेवाविच्छिन्न- शृङ्खलायां “सिद्धान्ततत्त्वविवेक” नामकोऽयं ग्रन्थः प्रस्तूयते। ज्योतिश्शास्त्रं नाम समग्रेषु शास्त्रेषु प्रथमप्रत्यक्षप्रमाणप्रत्यक्षीभूतम्, तस्यापि स्कन्धत्रये शिखरायमाणं सिद्धान्तज्यौतिषं, तत्र च शेखरायमाणोऽयं ग्रन्थो यस्य मैथिलविद्वद्वरेण्य- श्रीगङ्गाधर मिश्रकृतभाष्यसहितस्य पूर्वार्द्धभागस्येदं द्वितीयं संस्करणम्। अस्य प्रणेता सिद्धान्तज्यौतिषस्य तलस्पर्शी विद्वान् निर्णयसिन्धुकारात् श्रीकमलाकरभट्टाद् भिन्नः १७१५ विक्रमसंवत्सरभवो महाराष्ट्रदेशाभिजनः काशीवास्तव्यः श्रीकमलाकर भट्टः । ग्रन्योऽयमद्य यावत् प्रथितान् सर्वान् ज्यौतिषशास्त्रग्रन्थान् अतिशेते। सिद्धान्ततत्त्वमण्डने स्वीयपूर्वाचार्यमतेभ्योऽनेके विशिष्टाः प्रकारा अन्न सन्निवेशिताः, किन्तु विदुषां कृते ततोऽप्यधिकमिदं हर्षास्पदं विस्मयावहं च यदत्र नवीनानि पारसिकादीनि वैदेशिकमतान्यपि सङ्गृहीतानि । एतेषां नवीनपारसिकादीनां मतानां सङ्ग्रहणे सन्निवेशने च प्रणेत्रा मनागपि सङ्कोचो मनसि नाधारि, अपि तु तेषां यथायथं शब्दानामाधानं तथातथैवाधृतं येन पदार्थबोधो याथातथ्येन सम्पद्येत। सिद्धान्तज्यौतिषशास्त्रगगने पूर्वतनाचार्यप्रणीतसकलसिद्धान्तग्रन्थरत्नप्रभाविलेपनपटु- मार्तण्ड इव प्रकाशमानोऽयं ग्रन्थः । अन्त्र प्राचीनसिद्धान्तेभ्यो भिन्ना अनेके प्रकारास्तथा बीजगणितत्रिकोणमितिप्रभृतिविषया एकत्रैव निरूपिताः।
अस्य विश्वविद्यालयस्य पूर्वरूपस्य काशिकराजकीयसंस्कृतमहाविद्यालयस्य विद्वत्प्रकाण्डैः श्रीबापूदेवशास्त्रि-श्रीसुधाकरशास्त्रि-श्रीमुरलीधरशास्त्रिभिरस्य महत्त्वमाकलय्य लघुटीकाटिप्पणपरिचयात्मकलेखादिभिः समये समयेऽलङ्कृतोऽयं ग्रन्थः। इमे शास्त्रिण एवमभिप्रयन्ति यद् गोलविषय एतत्सदृशो ग्रन्थो न केनापि निर्मितः। अनेन महाविदुषाऽस्य ग्रन्थस्य स्वयमेव स्वाशयप्रकाशिनी-नामिका टीकाऽपि व्यरचि, या अप्रकाशिता सरस्वतीभवनपुस्तकालये सुरक्षिता मुद्रणं प्रतीक्षते।
अयमस्ति सौभाग्यस्य विषयो यदस्य ग्रन्थरत्नस्य सम्पादनं भगवत्याः पीताम्बराया अनुग्रहमूर्तिभिः, आजीवनं पीताम्बरव्रतिभिः “पीली धोती’ इति प्रत्यभिज्ञया विश्रुतैर्महामहोपाध्यायश्रीसुधाकरद्विवेदिसदृशानां विदुषां परम्पराया प्रतिनिधिभूतैराचार्यैः डॉ. कृष्णचन्द्रद्विवेदिमहोदयैः स्वकीयया समीक्षापूर्णया भूमिकया सह विहितम्। आचार्या द्विवेदिनः प्रायशस्विशद्वर्षाणि यावद् विश्वविद्यालयमिमं ज्यौतिष- विभागस्याचार्यत्वेन, विभागाध्यक्षत्वेन, सङ्कायाध्यक्षत्वेन चालङ्कुर्वन्तोऽस्य प्रतिष्ठाप्रतिष्ठापने सुमहद् योगदानं कृतवन्तः। एतेषामेव कार्यकाले संयोजने च विश्वविद्यालये महामहोपाध्यायश्रीसुधाकर द्विवेदिवेधशालाया निर्माणमन्त्र सुसम्पन्नमिति स्वर्णाक्षरैः समुल्लेखनीयम्।
तेषां साधनाया इदं दिव्यं पुष्पं भगवतो विश्वनाथस्यानुग्रहेण मनीषिप्रवरेभ्यः समुपायनीकुर्वन् तेभ्यः स्वकीयामभिनन्दनाञ्जलि शिक्षण-शोध-प्रकाशन-संस्थानस्य निदेशकाय डॉ. पद्माकरमिश्राय च साधुवादान् समर्पयामि।
Reviews
There are no reviews yet.