Vasudev Charitam (वासुदेवचरितम्)
₹130.00
Author | Dr. Arvind Kumar Tiwari |
Publisher | Sharda Sanskrit Sansthan |
Language | Sanskrit |
Edition | 1st edition, 2014 |
ISBN | 978-93-81999-44-8 |
Pages | 98 |
Cover | Paper Back |
Size | 14 x 1 x 22 (l x w x h) |
Weight | |
Item Code | SSS0079 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
वासुदेवचरितम् (Vasudev Charitam)
आत्मनाम गुरोर्नाम नामातिकृपणस्य च।
श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः।। इति
विजानतापि मया गुरोर्नामानेकशो गृहीतम्। यद्यपि दृश्यते यद् बहुभिर्माननीयैरिदं नालोचितम्। विमृश्यतां यदि कश्चित्पृच्छति गुरोर्नाम तदा किं वक्तव्यम्? अतएव वक्तुं शक्यते यदस्य पद्यस्य तात्पर्यमस्ति गुरोर्नाम स्तुतिकाल एव ग्राह्यं नान्यथेति। स्वयमेव श्रीमद्भगवद्गीतायां भगवता स्वविभूतिवर्णने बहूनि नामानि गृहीतानि। त्यज्यतामयं जल्पः। यदीश्वरस्य नाम कश्चिद् भक्तो गृह्णाति तदा गुरुस्तु ब्रह्मविष्णुमहेशात्मकः कथं नाम्ना भजनीयतां न गच्छेदिति। काव्यस्यास्य प्रत्येकसर्गस्थप्रथमाक्षरसंयोजनेन ‘श्रीवासुदेव-द्विवेदी शास्त्री नम्यः इति वाक्यं प्रकटीभवति।’ अस्य काव्यस्य प्रयोजनं गुरुगुणकीर्त्तनं विस्मृतसंस्कृतप्रचारकार्यकुशलशिष्याणां संस्कृतप्रचाराय संयोजनमेव नान्यदिति प्रतिजाने।
गुरुवरचरणकमलपरिसेवनकाल एवैकदास्माभिः पृष्टं यत्कथं काव्यं लिख्यते? तदानी गुरुकृपालब्धगणपरिचयाः संस्कृतज्ञानं लभमाना वयं पद्यरचनं दुष्करमित्यजानीम यद् यगणादीनामुपस्थापने तद्नुकूलशब्दप्रयोगे महानायासोऽनुष्ठेयो भवति। तैर्वयं बोधिता अपि यत्समागते समये सर्वं सुकरं भविष्यति। शनैश्शनैः काव्यलेखने सनद्धा वयं यथेच्छं रचयामः। वासुदेवचरितकाव्यं मया गतवर्षे स्वतन्त्रतादिवसे प्रारब्धमासीत्। तस्मिन्नेव दिने विचारितं यत् पद्यत्रयं प्रतिदिवसं रचनीयम्, परन्त्वदृष्टशक्त्या कयाचित्काव्यं यदा पूर्णतां प्रति गच्छदासीत्तदा पूज्या मम माता दुर्गावती देवी स्वर्याता। मातृदेहान्तजनितासह्यवेदनाभितप्तोऽहं तदीयं वात्सल्यमनुस्मरन् कांश्चिन्मासान् यावन्नालिखमेकमपि पद्यम्। पुनः विलिखितुमारब्धवान् वर्षाभ्यन्तरे स्वतन्त्रतादिवस एव पूर्ण करोमीति मत्वा नन्दामि।
काव्यं सरसं रुचिरं स्यात्तदर्थ कल्पनाश्रयोऽपि गृह्यते। एतदनुसृत्यास्मिन् काव्ये कथासंयोजनाय विस्मयोत्पादनाय प्रसङ्गानुकूला कल्पना समाश्रिता वर्तते। यद्यपि यथास्मदीयो गुरुवरः कदाचिदश्वमारुरोहेति न जानामीति तथापि संस्कृतदिग्विजयाय मयाश्वारूढो दर्शितः। किं च विभिन्नकाले गृहीतजन्मनां विदुषां विचारकाणां येषां जन्ममृत्युमध्ये महानन्तरालो वर्तते, परन्तु विषयदृष्टयैकस्मिन् मंच उपस्थापिता इत्यपि निर्मत्सरैः सहृदयैः काल्पनिकमेव मन्तव्यम्
काव्येऽस्मिन् संज्ञाप्रयोगे क्वचित् – ववचित् मया छन्दोनियमान् पश्यता मात्राविपर्ययो विहितो। यथा उडीसा (उडिस), कश्मीर (कश्मीर) इत्यादि। किं क्वचित् ‘प्रहे वा’ इत्यनुसारम् पद्यं रचितम्। काव्यप्रसङ्गेऽहं विज्ञापितः कैश्चिद्यत्तथाविधं लिख्यतां यत्पठने कोशो नावलोकनीयो भवेत्। मच्चिन्तनमिदं नाङ्गीकरोति सर्वेषामपि ज्ञानस्तर-निम्नोन्नततावैभिन्यदर्शनात्। न काव्यं कस्मैचिद् व्यक्तिविशेपाय विलिख्यते न च सर्वे सरलसंस्कृतपक्षपातिनो दृष्टाः। स भोजनं करोतीति प्रयोगमरुचिकरं वदन् किं च स भुङ्क्ते इति प्रयोगं स्वीकुर्वन् विश्श्रुतो विद्वान् साक्षात्कृतः। यथावसरं शब्दाः समायाताः प्रयोगे त एव प्रयुक्ताः।
Reviews
There are no reviews yet.