Vrat Kosh (व्रतकोश:)
₹120.00
Author | Sri Jagnnath Shastri |
Publisher | Sampurnananad Sanskrit Vishwavidyalay |
Language | Sanskrit |
Edition | 2nd edition |
ISBN | - |
Pages | 323 |
Cover | Hard Cover |
Size | 14 x 3 x 22 (l x w x h) |
Weight | |
Item Code | SSV0033 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
व्रतकोश: (Vrat Kosh) व्रतम् एष शब्दः किल भारते वर्षे सुतरां प्रसिद्धिमुपयातः परमप्राचीनात् समयतश्चाऽत्र विपश्चिदपश्चिमैर्यत्र तत्र प्रयुज्यमानोऽद्यावधि निर्वाधं सर्वत्र प्रचलितव्यवहारो दृश्यते। अतो विषयेऽमुष्मिन् विशेषेण लेखनस्य नाऽस्त्यावश्यकत्वम, तथापि शब्दस्यैतस्य स्थले स्थलेऽनेकेऽर्वाः समुपलभ्यन्त इत्यतो हेतोर्यदि किञ्चिदत्र विलिख्येत, तहि तदप्रासङ्गिकं न स्यादिति मन्ये। अथ च साम्प्रतं ‘व्रत कोशः’ इत्याख्यं सङ्ग्रहरूपं पुस्तकं प्रकाश्य विदुषां पुरस्तादुपायनीक्रियते यदा, तदा तु प्रस्तावनायां परिचयाऽवसरे व्रतशब्दमीमांसनं प्रयोगमनुसृत्य तदर्थभेदप्रदर्शन च न केवलं प्रासङ्गिकमेव भवेत्, अपि तु नितरामावश्यकमपि प्रतीयेत।
व्रतशब्दस्य सिद्धिः
अस्तु, पूर्वं तावदिदमालोच्यते यदमुष्य शब्दस्य कीदृशी व्युत्पत्तिरिति। तत्र ‘ब्रियते’ इति करणव्युत्पत्त्या ‘वृञ् वरणे’ इत्यस्माद् ‘वृङ् सम्भक्ती’ इत्यस्माद्वा धातोर्बाहुलकात् कित्यतचि कित्त्वात् गुणा भावे यणि ‘व्रत’शब्दः सिद्धयति। अन्ये तु ‘ब्रजन्त्यनेन स्वर्ग’ मिति व्युत्पत्तिमङ्गीकृत्य गत्यर्थाद ‘ब्रज’धातोः ‘गोचरसश्वर शास्त्रेण घप्रत्यये पृषोदरादित्वाद् जकारस्थाने तकारादेशेन साधयन्ति शब्दमिमम्।
Reviews
There are no reviews yet.