Taddhitartha Vimarsha (तद्धितार्थविमर्शः)
₹675.00
Author | Karuna Arya |
Publisher | Vidyanidhi Prakashan, Delhi |
Language | Sanskrit |
Edition | 2021 |
ISBN | 978-9380651699 |
Pages | 218 |
Cover | Hard Cover |
Size | 14 x 2 x 22 (l x w x h) |
Weight | |
Item Code | VN0012 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
तद्धितार्थविमर्शः (Taddhitartha Vimarsha) प्रस्तुतोऽयं लघुशोधः सर्वप्रथमं तद्धितप्रत्ययानां परिचयं प्रददाति। तदनन्तरं विषयविभाजनदृष्ट्या तद्धितप्रत्ययानां वर्गीकरणाधारेण प्रयोगदृष्ट्या अर्थसमीक्षणं प्रस्तौति। के तद्धितप्रत्ययाः ? तेभ्यो लौकिकवैदिकशब्देभ्यो हितास्तद्धिताः” इति। तत्र तद्धिप्रत्ययानां परिचये महर्षिपाणिनिना “तद्धिता” इति सूत्रस्याधिकारे 1115 सूत्रैः केवलं तद्धितपदवाच्यप्रत्ययानां विवरणं प्रस्तुतम्।
अतः स्वयमेव सिद्धयति यत् तद्धितप्रत्ययानां संख्या कृदन्तप्रत्ययानामपेक्षया अत्यधिकं वर्त्तते। यथा च आचार्यस्य अत्यन्तोच्चाकर्षकतायाः प्रमाणमपि तद्धितप्रकरणादेव दृग्गोचरीभवति। यथा “तेन संस्कृतम्” ‘संसृष्टम् “उपासिक्तम्” “तत्र जातः” “तन्त्र भवः” इत्येवमादि सामान्यतः समानार्थानां निर्देशकसूत्राणां विधानम् आचार्यस्य तात्कालिकतद्धितप्रयोगेषु सूक्ष्मेक्षिकायाः एव सुपरिणामः।
अग्रे ग्रन्थे तद्धितानां वर्गीकरणदृट्या लघु-लघुप्रकरणे विभाजनं विद्यते यत् पदमञ्जरीकारहरदत्तमिश्रेण स्वकीयग्रन्थे स्वार्थिकात्यन्तस्वार्थिकभेदयोर्नाम्ना स्पष्टीकृतं वत्र्त्तते।’ प्रथमे अस्वार्थिकतद्धितप्रत्ययाः- इमे ते प्रत्ययाः सन्ति येषां विधानं सुबन्तप्रकृत्या अर्थविशेषे क्रियते। यथा तस्यापत्यम्, तस्य गोत्रापत्यम्, तस्य युवापत्यम् इत्येवमादि। द्वितीये स्वार्थिकतद्धितप्रत्ययाः- इमे स्वप्रकृत्यर्थस्य द्योतनं कुर्वन्ति- यथा अयमेषामतिशयेन पटुः, पटुतमः’, अत्र तमप् इति प्रत्ययः प्रकर्षार्थस्य द्योतकमात्रोऽस्तिः। न तु तस्य वाचकः। अत्र अतिशायनं प्रकषार्थः प्रकृत्यर्थस्य विशेषणमस्ति, प्रत्ययार्थस्य नहि।
तृतीये अत्यन्तस्वार्थिकतद्धितप्रत्ययाः इमे सुबन्तप्रकृत्याः न भूत्वा प्रातिपदिकादेव भवन्ति। यथा देव एव देवता’ ओषधिरेव औषधम् इत्येवमादयः। तद्धितप्रकरणमतिविशालमस्ति। अत एवाचार्येण एतदारम्भे त्रयो महात्तउत्सगर्गाधिकाराः पठिताः 1. अणधिकारः (4/1/8 इत्यस्मात् 4/3/166) पर्यन्तम् 2. ठगधिकारः (4/41 इत्यस्मात् 4/4/74) पर्यन्तम्। 3. यदधिकारः (4/4/75 इत्यस्मात् 5/1/5) पर्यन्तम्।”
Reviews
There are no reviews yet.