Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-8%

Kali Kalpadru Vallari (कालीकल्पद्रुवल्लरी)

300.00

Author Dr. Ram Narayan Tripathi
Publisher Sampurnananad Sanskrit Vishwavidyalay
Language Sanskrit & Hindi
Edition 2nd edition
ISBN 81-7270-217-X
Pages 457
Cover Hard Cover
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code SSV0038
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

कालीकल्पद्रुवल्लरी (Kali Kalpadru Vallari) विशालोऽस्माकं देशः। विपुला चात्रोपासनाप्रक्रियाः, विविधाश्चोपासनासम्प्रदायाः। अवान्तरभेदसहिता लघुगुरुसम्प्रदाया अद्यत्वेऽपि श्रीपरशुरामचतुर्वेदिकृते ‘उत्तरभारत की सन्तपरम्परा’ नामके ग्रन्थे (तृ. सं. १९७२, पृ. ४६७-४६८) द्वाविंशत्युत्तरैकशतसंख्याका दृश्यन्ते। पुरा च जैनवाड्मयस्य ‘षड्दर्शनसमुच्चय’-ग्रन्थस्य गुणरत्नटीकायां त्रिषष्ट्युत्तरत्रिशतसंख्याका (३६३) दार्शनिकदृष्टयो वर्णिताः सन्ति, यथा तदर्थसङ्ग्रहगाथेयम् –

असि इसयं करियाणं अकिरियवाईण होई चुलसुई।
अत्रापि असतट्ठी वेणइयाणं च बत्तीसं॥

(अस्याः संस्कृतच्छाया – अशीत्यधिकं शतं क्रियावादिनाम् अक्रियावादिनाञ्च भवति चतुरशीतिः, अज्ञानिनां सप्तषष्टिर्वेनायिकानाञ्च द्वात्रिंशत्।) एतावद्दर्शनानुसारं प्राय एतावन्त एवोपासनाप्रकारा अपि भवितुमर्हन्ति। साम्प्रतमागमनिगमपुराणानुसारं प्रमुखा उपासका पञ्चविधाः परिगण्यन्ते – गाणपत्याः, सौराः, शैवाः, शाक्ताः, वैष्णवाश्च। तस्याः शक्तेर्विभिन्नं रूपमुपासनाप्रकारश्च वेदे पुराणेषु आगमेषु च द्रष्टुं शक्यते। तत्र शाक्ततन्त्रानुसारं दशमहाविद्यारूपा शक्तिः प्रामुख्येण सर्वैरङ्गीक्रियते। ताश्च – काली तारा षोडशी भुवनेश्वरी भैरवी छिन्नमस्ता बगला मातङ्गी कमला च। यथा वैष्णवानां मत्स्यकूर्मादयो दशावतारास्तथैव शाक्तानामिमाः शक्तिरूपा विद्याः। एतास्वपि कश्चन भेदप्रकारो वर्ण्यते-

काली, तारा, षोडशी, भुवनेश्वरी – एताश्चतस्त्रो महाविद्याः। भैरवी, छिन्नमस्ता, धूमावती – एतास्तिस्रो विद्याः। बगला, मातङ्गी, कमला – इमास्तिस्त्रः सिद्धविद्या इति। अत्र पुनः कुलद्वयं विभज्यते-कालीकुलं श्रीकुलं च। तत्र प्रथमकुले – काली, तारा, भुवनेश्वरी, छिन्नमस्ता च गण्यन्ते। द्वितीयकुले च षोडशी, भैरवी, बगला, धूमावती, मातङ्गी च स्वीक्रियन्त।

तत्र कालीकुलस्येयं कालीशक्तिर्देवता प्रमुखा। अस्या व्युत्पत्तिविषये स्वरूपविषये माहात्म्यविषये च बहवो जिज्ञास्या विषया भवन्ति। तत्र वैदिकपौराणिकागमिकदृष्टीनामेकत्र समावेशनात्मको ग्रन्थः प्रायो नोपलभ्यन्ते। विद्वद्वर्य श्रीरामनारायणत्रिपाठिभिर्विविधवेदपुराणागमप्रभृति-शास्त्रग्रन्थेभ्यः कालीशक्तिसम्बद्धान् विषयान् सङ्गृह्वौकत्र सन्निवेश्य चायं ‘कालीकल्पद्रुवल्लरी’ नामको ग्रन्थो निरमायि। अत्र प्रायः पञ्चचत्वारिंशत्संख्याकग्रन्थेभ्यो विषयाः सङ्गृहीताः; किन्तु तथापि नालम्। अतोऽपि विवेच्या बहवो विषया अवशिष्टाः। यत एतादृशमेव कालीमाहात्म्यम्।

Reviews

There are no reviews yet.

Be the first to review “Kali Kalpadru Vallari (कालीकल्पद्रुवल्लरी)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×