Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Aarmbhavad (आरम्भवाद:)

110.00

Author Sri Badrinath Shukl Shastri
Publisher Chaukhamba Sanskrit Series Office
Language Sanskrit
Edition 2013
ISBN -
Pages 82
Cover Paper Back
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code CSSO0129
Other Dispatched in 3 days

 

10 in stock (can be backordered)

Compare

Description

आरम्भवाद: (Aarmbhavad) अनादिकालात् प्रवर्तमानेऽस्मिन् संसारे मानवप्राणिना यन्महत्वपूर्ण स्थानमुपार्जितं तन्न केनाप्यपत्तपनीयम्। अयमेव स प्राणी यं सृष्ट्वा सृष्टि-कर्ता कृतार्थमात्मानं सम्यते। तत्रापि कर्मभूमौ भारते वर्षे जातवतो मनु-व्यस्व महान् विशेषः अनत्येन सानवेन धर्मस्य न धनार्थता किन्तु मोचा-थेंता, धनस्य न कामार्थता किन्तु धर्मार्थता, कामस्य नेन्द्रियतर्पणार्थता परन्तु जीवनार्थता जीवनस्य, नाव्यवस्थितव्यापारार्थताऽपि तु तरवजि- ज्ञासार्थतेति पवित्रमादर्शसुपस्थाप्य जगदात्मपचे समावर्जितम्, वैज्ञानिकीं विशुद्धां चातुर्वण्यस्य चातुराश्रम्यस्य च व्यवस्थां पुरस्कृत्य सुदृढं समाज निर्माणं निष्पादितम्, सोपानक्रमेण विविधानि दर्शनशास्त्राणि प्रादुर्भाव्य व्यावहारिकीं पद्धतिं च तदाधारां विधाय राजनीतिसङ्घर्षानलज्वालाजालो पशमनं सम्पादितम्, अपवर्गप्राप्तिलक्षणं मानवजीवनत्य चरम लक्ष्यमा विष्कृत्य निखिलानर्थमूलं संसारेऽत्यासब्जनं च शिथिलीकृतम्। अत एवा-स्य देशस्य मानवो देशान्तराणां मनुष्यान्निस्संशयमतिशेते।

दर्शनं हि परोक्षव्यतिरिक्तानुभवरूपम्। एतदेव दर्शनशास्त्राणां मूलम् “श्रायुर्वे घृतम्” इत्यादौ कार्ये कारणशब्दोपचारदर्शनेनावि दर्शनशास्त्रा-स्मके कार्ये दर्शनात्मककारणशब्दोपचारः। श्राचार्या हि वत्सुतश्वं दृष्ट्वैव शास्त्रजातं प्रणिन्युरित्याशयः।

अत्रायं प्रश्नो निसर्गतः समुन्मिपत्ति यद् यदि तत्तद्दर्शनशास्त्रं तत्त-दाचार्येण वस्तुतश्वदर्शनपूर्वकं प्रणीतं तर्हि दर्शनेषु परत्परं घोरतरो विरोधः कथन्दश्यते ? नोकस्य वस्तुनो मिथो विरुद्धानि बहूनि तश्वानि सम्भवन्ति। न खल्वात्मनो बौद्वैर्वर्ण्यमानं चणिकत्वम्, आईतैब्यांहिय-माणमविच्छिन्न पर्यायप्रवाहात्मत्वम्, न्यायवैशेषिकैनिंरूप्यमाणमेकान्त नित्यत्वम्, सांख्ययोगैरुद्ट्रीयमानं कूटस्थनित्यत्वम्, मीमांसकैर्मन्यमानं चिदा-रमनाऽपरिवर्तनाहश्वेऽप्यचिदात्मना परिवर्तनीयश्वम्, वेदान्तिभिश्चामिधीय-मानं निर्धर्मकत्रिकालाचाध्यश्वादिकं सर्वमेव परस्पर प्रतिकूत्तमपि तश्वरूपं भवितुमर्हति।

धम्पेदमेबोत्तरं यत्सवैदर्शनाचायें रिदमेकं तत्वमैकमध्येन दृष्टं यत्-संसारे ऽत्यासक्को मानवजाते महतेऽनर्थांयेति तत्परित्यागो महत्ता समरम्मेण समुपास्यः। स च मानवजीवनस्य जच्यान्तरगवेषणं विना नोपपाद्यः, तच्च लक्ष्यान्तरं मोक्षात्मकमन्विष्टम्, मोचो यादृशस्तादृशो वा वण्यैत, तत्स्वरूपभेदो मानवानां दृष्टिकोण परिवर्तने परिपन्थितां नाश्रयते, स च नूनं तथैव वर्णयितथ्यो यथा मानवमनः स्वाध्माभिमुखीकुर्वन् वैषयिका- त्यासङ्गानोपायितुं प्रभवेत्। इत्थं च मोक्षस्वरूपवर्णनानुकूल्येनापरे सर्वेऽपि पदार्था वर्णनीयतां व्रजन्ति, अत आत्मा, परमात्मा, प्रपञ्चः, पुनर्जन्म, प्रापश्चिको विषवत्रगों वा यथाकामं वण्येंत तत्तदाचार्येण, न तेन कापि हानिः। केवल मिदमेवावध्यानमावश्यकं यडू वस्तुवर्णनं संसारात्यासक्तिं विघटयेन्न पुनः कथमपि सङ्घटयेत्।

अस्यामेत्र भूमिकायां जगतो जन्मप्रकारवर्णनमप्यवत्तरति। तत्तदा-चार्येण जगतो जन्मविधिः स्वस्वाभिप्रायेण तथैवोपचयते यथोपवर्ण्यमानो विज्ञायमानश्च जनरुचिं विशेषतो बशीकर्तुं न प्रभवेत्। न्यायवैशेषिकशास्त्रयोरारम्भवादोऽपि जगज्जनन प्रकार वर्ण नस्यैका विधा। तदुभयशाखदृष्टवैष एवं वादो जनानां बुद्धिमार्गमारोहति, अत पुत्र तदाचार्यैरेव वादो महताऽभिनिवेशेन सुविचारित्तो व्यवस्थापितश्च। न्यायाचार्य परीक्षायां काशी हिन्दू विश्वविद्यालयीयायां प्रवेष्टुकामस्य मम निबन्धनीयतयाऽयमेव वादोऽधिकारिभिर्निर्धारित इतीममेबाहमत्र प्रबन्धे सुपरीचय व्यवस्थापयितुं प्रायतिषि।

श्रयं हि भागत्रयेण मया निर्वतिंतः, तत्र प्रथमे भागे न्यायवैशेषिक-सम्मतस्यारम्भवादस्यासत्कार्यवादोपजीविनः परमाणुकारणतावादापर-नाम्नो निरूपणम्, तन्त्र वादस्यास्य विपक्षेऽधुनावधि समुपलभ्यमानानां प्राचीनार्वाचीनविचक्षणोद्भावितानामाचेपाणां प्रतिक्षेपं विधाय तस्य सम्यक् समर्थनमनुष्ठितम्, द्वितीयसागे बौद्धजैतदर्शनयोः परमाणुवादस्य वर्णनं न्यायवैशेषिकयोः परमाणुवादेन सह तत्व समीक्षणं च संविहितम्। तृतीये भागे पाश्चात्यपरमाणुवादस्योपवर्णनं न्यायवैशेषिकयोस्तद्वादेन साकं समालोचनञ्च सन्निरूपितम्। परिशिष्टे पुनरारम्भवादोऽष्टपरमेश्वरप्रभृतीन् यानू, पदार्थानन्तरेण न निर्वहति वेशं संचिसं व्यवस्थापनं निबद्धम्।

अयं निबन्धः परीक्षकाणामन्तः करणप्रोथाने प्रवीणोऽभवद्दिति तदा-ननतो निश्रित्य तेषां निर्देशमनुसरता मयाऽस्य प्रकाशनं कर्तव्यतयाऽवधा-रितं किन्त्वार्थकाश्यवशादू युगपदेवाखिलस्याशक्यप्रकारानतया पर्यायेण तत्करणे प्रवृत्तः प्रथमतः प्रथमं भागमेतस्य विदुषां पुरस्तादुपस्थापयामि। विश्वसिमि चैतेन प्राप्तप्रमोदसन्दोहानां सस्कोविदानां प्रोत्साहनेनाशीर्व-चनेन च समिद्धोत्साहो नातिविलम्बेनैवावशिष्टभागयुगलमपि प्रकाश्य पण्डितजनेपूपहर्तु पारयिष्य इति।

Reviews

There are no reviews yet.

Be the first to review “Aarmbhavad (आरम्भवाद:)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×