Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-20%

Ishwarparya Lochanam (ईश्वरपर्यालोचनम्)

320.00

Author Dr. Sacchidanand Mishra
Publisher Bharatiya Vidya Prakashan
Language Sanskrit
Edition -
ISBN -
Pages 276
Cover Hard Cover
Size 14 x 2 x 22 (l x w x h)
Weight
Item Code TBVP0469
Other Old and Rare Book

 

10 in stock (can be backordered)

Compare

Description

ईश्वरपर्यालोचनम् (Ishwarparya Lochanam) भारतीयदर्शनेषु विचारस्वातन्त्र्यस्य भावना बहुषु स्थलेषु दरीदृश्यते। अत्र यथा सर्वस्यैव परमेश्वरात्मकं स्वीकुर्वतामद्वैतिनां समादरो विद्यते तथैव शून्यवादमङ्गीकुर्वतां बौद्धानामपि। विचारस्वातन्त्र्यस्यैव प्रभावोऽयं यदस्मिन् देशे गौतमो बुद्धोऽपि परमेश्वरमनङ्गीकुर्वन्नपीश्वरावतारः स्वीक्रियते। सहिष्णुतायाः भावनाऽस्मिन् देशे बहुश उपलभ्यते। यद्यपि भारतीयदर्शनेषु तादृक् वैचित्र्यं नैवोपलभ्यते यादृक् च पाश्चात्यदर्शनेषु किन्त्वत्र सत्यप्येवं विचारस्वातन्त्र्यं तिरोहितं नैव भवति। भारतीयदर्शनानामादिकालत एव क्रमशोऽन्येषां दर्शनानां सिद्धान्ताः दर्शनान्तरैः खण्ड्यन्ते स्वकीयश्च मतवादः तर्कयुक्त्या समुपस्थाप्यते। एतस्मिंश्च क्रमे भारतीयदर्शनैः टीकाप्रटीकाखण्डनमण्डनादिक्रमेण उच्चतायाः श्रेष्ठः शिखरो लब्धः।

विचारस्य सूक्ष्मेक्षिकता व सूक्ष्मात् सूक्ष्मतरीकृता। विवादास्पदीभूते परमेश्वरात्मके विषये वैमत्यमस्ति विदुषां दर्शनानाञ्च। तदिदं वैमत्यं भारतीयदर्शनानां परिष्कारकमिति मन्यामहे वयम्। यथा शाणोल्लीढो मणिरधिकमुत्कर्षमादधाति तथैवानेन वैमत्येन या दर्शनान्तरैः दर्शनान्तरसिद्धान्तानामालोचना कृता पुनश्च दर्शनान्तरैः साऽऽलोचना खण्डिता, आभ्यामालोचनप्रत्यालोचनाभ्यां भारतीयदर्शनानामनेके सिद्धान्ताः साधु परिष्कृताः सन्तो दृष्टिपथमागच्छन्ति, विद्यतेऽस्माकमेषा दृष्टिः। अयं परमेश्वरविषयकः सिद्धान्तोऽप्येतादृश एव। अत्रापि भारतीयदर्शनेषु मतभेदः, अनेन वैमत्येन च प्रायशः सर्वैरपि दर्शनैरन्यदर्शनीयाः सिद्धान्ता आलोचिताः न्यायदर्शना-भिमतस्येश्वरस्य विषयेऽपीदृश्येवावस्था विद्यते। न्यायदर्शनाभिमतस्येश्वरस्यालोचने न्यायदर्शनस्य समानतन्त्रं वैशेषिकदर्शनं पातञ्जलदर्शनञ्च परित्यज्यान्यैः सर्वैरपि दर्शनैः विशिष्टः प्रयासो विहितः। केषुचित् स्थलेषु चास्तिकदर्शनान्यपि नास्तिकदर्शनैः सहैवावस्थितानि दृश्यन्ते। यथाऽनुमानतः परमेश्वरसिद्धिनैव सम्भवतीत्यस्मिन् पक्षे बौद्धजैनदर्शनाभ्यां सहैवास्तिकदर्शनानि सांख्यमीमांसकवेदान्तप्रभृतीन्यवस्थितानि सन्ति।

केषुचित् स्थलेषु विद्यतेऽन्या दृष्टिरास्तिकनास्तिकदर्शनानाम्। किन्तु बहुधाऽऽलोचितं परमेश्वरस्य स्वरूपम् दर्शनान्तरैः। चार्वाकबौद्धजैनानां दर्शनानां परमेश्वरनिराकरणे विशिष्टाऽभिरुचिः दृश्यते। बौद्धदर्शनेन साकन्तु सहस्त्राब्दादप्यधिका दीर्घा संघर्षस्य परम्परा विद्यते। अस्मिन् सङ्घर्षे न्यायदर्शनसिद्धान्तरक्षार्थं गोतमवात्स्यायनोद्योतकरवाचस्पतिमिश्रोदयनाचार्यादयो बौद्धसिद्धान्तस्थापनार्थञ्च नागार्जुन-दिङ्‌नागवसुबन्धुधर्मपालधर्मकीर्तिकल्याणरक्षितधर्मोत्तराचार्यशान्तिरक्षितप्रभृतयः बद्धपरिकरा आसन्। यद्यप्येतादृशी दीर्घावधिव्यापिनी संघर्षपरम्परा नास्ति दर्शनान्तरैः साकम् किन्तु दर्शनान्तरैरपि जैन, सांख्य, मीमांसादिभिः न्यायाभिमतेश्वरस्यालोचना तीव्रण रंहसा प्रबलया च युक्त्या कृता। न्यायदर्शनस्य विपश्चिद्भिः बौद्धदर्शनेन दर्शनान्तरैश्च कृतानां न्यायाभिमतेश्वरस्यालोचनानामुत्तराण्यपि प्रदत्तान्याकूतानि च। नैयायिकशिरोमणिनोदयनाचार्येण च परमेश्वरविषयिणीनां साधनयुक्तीनां प्रतिपादनाय तदसत्त्वावेदिकानां युक्तीनां निरासाय च न्यायकुसमाञ्जलिनामको ग्रन्थो विरचितः। सन्त्यन्येऽपि वर्द्धमान, गङ्गेशोपाध्याय, रघुनाथशिरोमणिप्रभृतयो नैयायिकाः यैरेताः परमेश्वरास्तित्वखण्डिकाः युक्तयो विच्छिन्नाः, अस्य शोधप्रबन्धस्यैषा पृष्ठभूमिः।

Reviews

There are no reviews yet.

Be the first to review “Ishwarparya Lochanam (ईश्वरपर्यालोचनम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×