Karikavali (कारिकावली)
₹220.00
Author | Atmaram Narayan Jere |
Publisher | Chaukhamba Sanskrit Series Office |
Language | Sanskrit |
Edition | 2nd edition, 2021 |
ISBN | 978-81-218-0094-3 |
Pages | 540 |
Cover | Paper Back |
Size | 14 x 3 x 21 (l x w x h) |
Weight | |
Item Code | CSSO0056 |
Other | Dispatched in 1-3 days |
10 in stock (can be backordered)
CompareDescription
कारिकावली (Karikavali) अयि महाशयाः ! विदितमेवैतच्छ्रोमताम् यत्सकलप्राणिसमभि-लषितायामात्यन्तिकदुःखनिवृत्तात्रात्मतत्त्वसाक्षात्कारस्यैव साधन भावं प्रतिपादयन्ति “आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य” इत्यादयः सकलप्रमाणमौलिभूताः श्रुतय इति। तत्र च दर्शनमन्य विहितेषु श्रवणमनननिदिध्यासनेष्त्रसंभावनादि सकलधी दो पनिरासफलकं मननमेवाभ्यर्हिततमम्। मननं चेदं सपरिकरैर्हेतुभिरनुमानमेव। तच्चेदमनुमानं यथा चिरन्तनैः कणादगौतमा-दिभिर्महर्षिभिर्नव्यैश्च गङ्ग शोपाध्यायप्रभृतिभिः कुशांप्रधिषणैव्युत्पा-दितं नैवमन्यैः कैश्चिदपि तन्त्रकारैरित्यत्रान्तरङ्गमेव विदुषां प्रमाण-मिति न तदुपन्यासे प्रयोजनं किञ्चिदपि। अयमेव हि न्यायशास्त्रस्यास्य शास्त्रान्तरेभ्यो विशेषो यत्खलु सर्वविचारमूलभूतस्यानुमान-याथात्म्यस्य प्रकाशकत्वं नाम। नहि तादृशमिह जगति किमपि नन्त्र नाम यदुताधिगतन्यायशास्त्रार्थयाथात्म्यः स्वकीययैव प्रज्ञया समालोचयितुं न शक्नुयान्।
अत एवोक्तम् ‘काणादं पाणिनोयं च सर्वशास्त्रोपकारक” मित्यनुभवसिद्धार्थबोधकं वचनं कैश्चित्। तत्र पाणिनीय शास्त्र पदज्ञानद्वारा यथा सर्वशास्त्रप्रविविक्षुमुपकरोति तथा काणादपदेन विवक्षित न्यायशास्त्रमपि पदार्थवाक्यार्थानुमान तत्त्वप्रबोधनद्वारा तमुपकरोतीति। तत्रात्यभ्यर्हिततया न्यायशास्त्रस्य श्लोकार्थे तद्वाचककाणादपदस्य प्रथमं प्रवेशः। तच्चेदं सर्वशास्त्रोपकार कं न्यायशास्त्रमनेकसूक्ष्मतरविचारप्रतिपादकग्रन्थसंकुलं महासागराय प्रविविक्षणां स्थूलबुद्धीनां प्रवेशाय न्यायत्रैमाणमालाक्य तत्र शेपिकशास्त्र पदार्थप्रतिपादनद्वारा प्रवशयोग्यतापादक बुद्धि सौक्ष्म्य तामाधातु राजीवतत्सदृशास्मदादिवशंवदः श्रीमान् विश्वनाथन्याय-पञ्चाननभट्टाचार्यः संक्षेपतोऽनेकार्थाभिधायिनीं भाषापरिच्छेदाप राभिधानां कारिकावली प्रणिनाय। अस्याश्च बह्नर्थसूचकाल्पपदयुततया सूत्ररूपतामनन्यसाधारणतां चाकलय्य तत एव स्वाभिमत-सकलार्थप्रकाशनाय तद्भाष्यकल्पां मुक्तावल्यभिधानां तट्टीकामपि स्वयमेव निर्माय कारिकावल्याख्यसूत्र सहितां तां मुक्तावली “थत्करोषी” त्यादिभगवद्गीतावचनानुसारेण विष्णोर्वक्षसि समये शुभाशुभफलं कर्मबन्धं विमुच्य च स कृतकृत्यो बभूव। मुक्तावली चेयं तत्त्वचिन्तामण्याहतया नवीनया विचारशैल्या पदार्थान् प्रतिपादयन्ती व्याख्यानमन्तरेण नैव मन्दमतीनामन्तेवासिनां तादृगुपकारायेति विचार्य भारद्वाजकुलाम्बुधिपूर्णचन्द्रो बालकृष्णभट्टात्मजः श्रीमान् महादेवभट्टस्तां व्याख्यातुमारेभे। परंतु नानेन सा संपूर्णतया व्याख्याता। किंतु शब्दखण्डान्तमेवेति तावत्पर्यन्तमेवोपलब्धया रामरुद्रथा वाराणस्यां प्रचलितया तादृश्या किंवदन्त्या चावगम्यते
मनोनिरूपणमारभ्याऽऽसमाप्ति पुनरस्या व्याख्यानं महादेवभट्टात्मजो दिनकरभट्ट एव स्वपित्राज्ञानुसारेण चकारेति भानु प्रणम्य परिभाव्य च शास्त्रसारं मुक्तावलीकिरण एष पितृप्रदिष्टः। सयुक्तिभिर्दिनकरेण करेण सोऽयं नीतः प्रकाश-पदवीं सुधियां मुद्देऽस्तु इति ग्रन्थान्ते परिदृश्यमानश्लोकात् “इति श्रीमहादेवभट्टतनूजदिनकरभट्टविरचिते” इतिवाक्याच्चाव गम्यते। अतो “दिनकरभट्टो दिनकरीं प्रणिनाय। अस्य पिता बालकृष्णभट्ट” इति केषांचिद्वाक्यमाद्यन्तश्लोकानालोचनमूलक-भ्रान्तिजन्यमेवेति प्रतिभाति। अस्याश्च मुक्तावलीप्रकाशापराभि-घानाया दिनकर्या अतिगूढार्थायाः काठिन्यमवलोक्य महापण्डितेन रामरुद्रभट्टेन रामरुद्रीति स्वनामाङ्किता व्याख्या निरमायि। साचेयं कारिकावली मुक्तावली-दिनकरी-रामरुद्रीसहिता पूर्व निर्णयसागर-यंत्रालये मुद्रिताऽपि शब्दखण्डीयरामरुद्रीरहिता शोधकाद्यनवधाना-दिनाऽशुद्धिबहुला विद्यार्थिनामध्ययनाय नालं बभूवेति तामिमां त्रुटिं परिजिद्दीषुभिः शुद्धपुस्तकनिर्माणे बद्धपरिकरैः सकलमुद्रायन्त्रा-दर्शभूत निर्णयसागरयं त्रालयाधिपतिभिर्वेदशास्त्रसंपन्नानां स्वकीयप्रधान-पण्डितानां पणशीकरोपाह्नवासुदेवशास्त्रिणामनुमत्या शुद्धपुस्तक-निर्माणरूपेऽस्मिन् कार्ये नियुक्तोऽहम्। मया च बालमनोरमामुद्राक्षर-शालायां मुद्रितमेकं चौखम्बा संस्कृतसीरीजयंत्रे मुद्रितमपरं चेति पुस्तकद्वयं संगृह्य याबद्बुद्धिबलोदयं च सावधानतया समालोच्य शब्दखण्डीयरामरुद्रीं चात्र निवेश्य प्रभादिटीकातः काञ्चनात्यावश्यकीभूताष्टिप्पणि काश्चात्र संयोज्यानुपयुक्ताः श्रामिकाश्च पूर्वपुस्तकस्थास्ता निष्कास्य महता परिश्रमेण यथेदं पुस्तकं शुद्धं विद्यार्थिनामुपयोगि च स्यात्तथा प्रयतितम्। एवं कृतेऽप्यत्र मेऽनवधानतः सीसकाक्षरयोजकदोषेण वा मन्मतिमान्धाद्वा यदि किंचिदशुद्धम वशिष्ट समुपलभ्येत तदा तत्क्षन्तुमर्हन्त्येव गुणैकपक्षपातिनः सुधिय इति शिवम्।
Reviews
There are no reviews yet.