Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-15%

Karma Kand Pradeep (श्रीः कर्मकाण्ड प्रदीपः दशकर्मादिपद्धतिः)

234.00

Author Janardan Shastri Pandey
Publisher Motilal Banarasi Das
Language Sanskrit
Edition 4th edition
ISBN 978-81-208-2142-2
Pages 304
Cover Paper Back
Size 14 x 2 x 21 (l x w x h)
Weight
Item Code MLBD0061
Other Dispatched in 1-3 days

 

10 in stock (can be backordered)

Compare

Description

श्रीः कर्मकाण्ड प्रदीपः दशकर्मादिपद्धतिः (Karma Kand Pradeep) विदितच रमेवेदं तत्रभवतां धामिकप्रवराणां विपश्चिदपश्चिमानां यत् धर्मार्थकाममोक्षाख्ये पुरुषार्थचतुष्टये घमंस्येव प्राधान्यम्, इतरेषां तन्मूल- कत्वात् । तत्र च “चोदनालक्षणोऽर्थो धर्मः” इति धर्मलक्षणं प्रकटयता जेमि- निना कर्मानुष्ठानरूपस्यापूर्वजनकस्य धर्मस्य वेदमात्रैकगम्यत्वमुक्तम् । तथापि स्मृतीनां वेदमूलकत्वात् स्मार्तानामपि कर्मणां धर्मत्वमविवादसिद्धम् । वैदिकेषु च कृत्येषु बहुलायाससाध्येषु सम्प्रति तु द्विजातिमात्रे स्मार्तानामेव कर्मणां प्राचुर्येण प्रचारोऽवलोक्यते । स्मार्तेष्वपि कर्मसु संस्काराणामतीव प्राधान्यम् । यतो हि द्विजत्वसिद्धिहि न संस्कारमन्तरा भवितुमर्हति । यदुक्तम् –

“निषेकादिश्मशानान्तो मन्त्रयंस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित्” ।। ( मनु०-१६ ) इति ।

अपिच – “है विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो धदन्ति परा चैवापरा च । तत्र ऋग्वेदो यजुर्वेदः शिक्षा कल्पो व्याकरणं निरुतं छन्दो ज्योतिषमिति धर्मज्ञान हेतुभूतषडङ्गसहितकर्मकाण्डरूपाऽपरा, ब्रह्मज्ञानहेतु- भूतोपनिषद्रूपा परा । बेदितव्ये उभे विद्ये संस्कृतानामेव वीर्यवत्तरे भवतः इत्यपि न तिरोहितं ज्ञानावदातचेतसां विदुषाम् । एतदपि निविवादं यद् भारतीयजनतायाः श्रीर्वचंस्तपस्तेजोवृद्धिबलप्रज्ञाशतायुष्य नेरुज्यादिगुणहीनताया अनिशं प्रवर्द्धमानाया विकार्यताया निदानमविद्यानिबन्धनं वर्णाश्रमौपयिक- संस्काराणामननुष्ठानमेव । धर्मप्रमत्तानामात्मज्ञानोपहतात्मनां पाश्चात्यसभ्यता- चाकचिक्यकलुषितचेतसामाधुनिक सुधारकब्रुवाणामौद्धत्यमूलकः स्वैराचार- प्रचुरो महानधर्मविप्लबश्च । अतः भारतीयार्यजनसंस्कृतिप्रतिष्ठापनपूर्वकपुमर्थ- सिद्धये नितान्तमावश्यकाः संस्काराः, इति ।

तत्र संस्कारो नाम आत्मशरीरान्यतरनिष्ठो विहितक्रियाजन्योऽतिशय- विशेष एव । स द्विविधः-एकस्तावत् उत्पन्नदुरितमात्रनाशकः यथा बीजगर्भ- समुद्भवेनोनिवर्हणो जातकर्मादिः, द्वितीयस्तु कर्मान्तराधिकारतिपादकः यथा उपनयनं वेदाध्ययनाधिकारापादकम् । द्विविध एव संस्कारः पुर्जाद्वविधः ब्राह्मो देवश्च, गर्भाधानादयः स्मार्ता ब्राह्मसंस्काराः पाकयज्ञहविर्यज्ञादयो देवाः । ते च ब्राह्मसंस्काराः कैश्चन महर्षिभिः ४८, कैश्चन ४०, कैश्चन २५, केश्चन १६ परि-संख्याताः । पारस्करादिभिराचार्यः स्व-स्वग्रहयेषु व्याख्याताः, अन्येश्ध महर्षिभिः मुख्यतया प्रसिद्धि प्रापिताः लोके प्रचलिताथ षोडश एवं संस्काराः । यदुर्ण संस्कारभास्करे-

“गर्भाधानमतश्च पुंसवनके सीमन्तजाताभिषे,

नामाख्यं सह निष्क्रमेण च तथा चान्नाशनं कर्म च ।

चूडास्यं ब्रतबन्धकोऽप्यथ चतुर्वेदवतानां पुरः,

केशान्तः सविसर्गकः परिणयः स्यात् षोडशी कर्मणाम्।” इति

यद्यपि एतेषां षोडशकर्मणां प्रयोगविधिः सर्वास्वपि संस्कारपद्धतिषु लभ्यते तथापि पर्वतीयेषु कर्मकाण्डविधानस्य “दशकर्म” शब्देनैव रूढिः प्रचलति । भगवता मनुना द्वितीयाध्याये २६ तः ७७ षलोकपर्यन्तं प्रधानतया गर्भाधानादि उपनयनान्तानां दशकगंणामेव सविधिवर्णनात्, एतेषामेव दशसंस्काराणां पापनिवृत्तिपूर्वका तिशयविशेषरूप संस्का राधायकत्वरूपपुरुषसंस्कारकर्मत्वस्य सत्त्वात् । अत एवास्माभिरपि कर्मकाण्डप्रदीपाभिषया प्रथितस्येतत्प्रयमभागस्य नाम “दशकर्मादिपद्धति” रित्येव निर्धारितम् ।

एतस्मिश्च सविधि सर्वेषां संस्काराणां प्रयोगविधेः, तत्र च पूर्व निविघ्न- तासिद्धये सर्वाभ्युदयप्राप्तये सकलमङ्गलाभिवृद्धये चावश्यकरणीयानां पनाङ्गा- दिकमंणां पर्वतीयप्रचलितरीत्या सन्निवेशो विहितः । सविधिविहितसंस्का रस्य गार्हस्थ्ये सत्प्रवृत्तस्यापि द्विजातेः पूर्वकर्मोद्भवानि सांगिकाण्यागन्तुकानि वा कानिचिदरिष्टादि सूचकान्युत्पातानि प्रायशः समुपजायन्ते ‘तत्र शान्तिः पुष्कला चेत्तहि दोषो न कश्चन” इति विधानपारिजाते शौनकोक्तदिशा कैश्चिद्विशिष्टा- नुष्ठानेस्तेषां प्रशमनमावश्यकीयम्, अतएव मूलाइलेषाजननादि-विविधशान्ति- प्रकारा यत्र तत्र धर्मशास्त्रेषु समुपलभ्येन्ते । एतेऽपि कर्मकाण्डस्यैवानुगुण्येनाङ्ग- भूता इति यावच्छक्यं तेषां विधिरप्यत्र निदिष्टः ।

“प्रायश्चित्तविहीनानां महापातकिनां नृणाम् । नरकान्ते भवेज्जन्म चिल्लांकितशरीरिणाम् ।” इति

शातातपोक्त्या प्रायश्चित्तमत्यावश्यकमिति प्रायश्चित्तप्रयोगोऽप्यन्त्र सन्नि- वेशितः। एवमेव कृतदारसङ्ग्रहस्याद्यत्वे अग्निहोत्रादिधर्मेषु प्रशस्ताधिकारा- भावात् “कलो दानं दया दमः” इत्यादि बृहस्पत्यादिवचनेः कलौ प्रशस्तत्व- बोधनात् “तदेतत्त्रयं शिक्षेत दमं दानं दयामिति” शतपथोक्तेश्च दानस्यावषय- कत्वश्रवणात् तदन्तर्गतदानधर्मस्य चेतिकर्तव्यताबाहुल्यात् दानप्रकरणमप्यत्र सन्निवेशितम् । यद्यपि स्मृतिपुराणसंग्रहादिषु हेमाद्रधादिषु वा दानस्य विविध प्रकारःा प्रोक्तास्तथापि साम्प्रतं देशकालावस्थानुसारेण यावन्ति दानानि दातुं शक्यन्ते प्रचलितानि च लोके, तेषामेव विधिरत्र प्रदर्शितः । तदुपयुक्तानां स्फुट- विषयाणां केषांचिदत्र यथामति निर्देशः कृतः । गृहं विना नैव गृहस्थस्य गृहस्थता, अतः गृहप्रवेशायावश्यकं वास्तुपूजनं शिलान्यासविधिश्च प्रदत्तः । प्रसङ्गतः ग्रह्यज्ञाद्युपयोगिशालानिमणिप्रकारः प्रतिष्ठाविधिश्च संगृहीतः । एवं लोकोपयोगिभिः प्रायः शताधिकेविषयेरलंकृतोऽयं “दशकर्मादिपद्धत्यात्मकः कर्मकाण्डप्रदीपस्य प्रथमो भागः” कर्मकाण्डेकदक्षाणां विदुषां पुरत उपस्थाप्यते ।

अस्य ग्रन्यस्योपयोगित्वे समादरणीयत्वे च कीदृशं स्थानमिति तु विद्व- त्कृपानिर्णयनिर्भरम् । वयन्तु महाकविकालिदासीय विनम्रतत्थ्यवचसा इत्येव ब्रमः

“आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।

बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥

आशास्महे च गुणेकग्रहिणां निर्भत्सरचेतसां विदुषामनेनांशतोऽपि सन्तोष- लाभश्चेत्तदैव सफलं स्यादस्मदीयः श्रमः । यत्नतः परिशोधितेप्यस्मिन् भ्रान्तेः प्रमादान् मुद्रणदोषाद्वा मानवसुलभा ये केचन दोषाः स्युस्ते परिमार्जनीया विद्भिः । यतो हि-

गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः ।

हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ।

मुद्राकरकराघातकातरा क्वापि भारती ।

करुणार्द्रकरस्पर्शः सुधियः सान्त्वयन्तु ताम् ॥ इति ॥

Reviews

There are no reviews yet.

Be the first to review “Karma Kand Pradeep (श्रीः कर्मकाण्ड प्रदीपः दशकर्मादिपद्धतिः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×