Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.

Kiratarjuniya Maha Kavyam 1-2 Sarg (किरातार्जुनीयमहाकाव्यम् प्रथम-द्वितीय सर्गात्मकम्)

30.00

Author Acharya Narmdeshwar Kumar Tripathi
Publisher Bharatiya Vidya Sansthan
Language Sanskrit & Hindi
Edition 1st edition
ISBN -
Pages 124
Cover Paper Back
Size 12 x 1 x 18 (l x w x h)
Weight
Item Code BVS0175
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

किरातार्जुनीयमहाकाव्यम् प्रथम-द्वितीय सर्गात्मकम् (Kiratarjuniya Maha Kavyam 1-2 Sarg) किरातार्जुनीयमभिधेयम् अष्टादशसर्गाणाम्महाकाव्यम्। अस्मिन्निन्द्रकीलपर्वते तपश्चरणसमयेऽर्जुनेन सह किरातवेषधारिणः शिवस्य युद्धस्य महाभारतीया कथोपनिबद्धा। अतोऽस्य नाम किरातार्जुनीयमिति। महाकाव्यलक्षणनिकषोपले घर्षणं प्राप्य नूनमिदं काव्यं सुवर्णाभिख्यां लभते। अर्जुनो मध्यमः पाण्डवोऽत्र धीरोदात्तनायकत्वेनोपवर्णितः। वीररसच्छटा-दीप्तमिदं काव्यमन्यांन् रसानपि न जहाति।

शिवार्जुनयोर्युद्धमस्मिन् काव्ये वर्णितम्। अर्जुनेन शिवात् पाशुपतास्त्रं प्राप्तमिति पौरुषफलमेव काव्यसिद्धिः। कविना शरदः यद्वर्णनं प्रस्तुतन्तदस्ति मनोहारि। एतत् काव्यं द्रौपद्याः क्रोधेन दीपितम्, अर्जुनवीर्यसमिद्धं, धर्मराजनीतिसमुद्भासितं च वर्तते। भारवेः वैदुष्यमस्मिन् काव्ये सर्वत्र परिलक्ष्यते। प्रकृतिनटी काव्यप्राङ्गणे नरीनर्ति। यथा कालिदासो रघुवंशस्यैकपद्यकारणात् ‘दीपशिखा’ इत्युपाधिना मण्डितः, यथा माघः शिशुपालवधस्यैकश्लोकहेतोर्घण्टामाघोऽभिहितस्तथैव भारविरपि किरातार्जुनीयस्यैकपद्यकारणादातपत्रभारविरिति ख्यातः। किरातार्जुनीयस्येदं पद्यमत्र ध्येयम्-

‘उत्फुल्लस्थलनलिनीवनादमुष्मादुद्भूतः सरसिजसम्भवः परागः।
वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम्।।

महाकविर्भारविः संवादचित्रणे, घटनासंयोजने दक्षः। पदसौष्ठवार्थगाम्भीर्य-विमण्डितमिदं महाकाव्यं निश्चितमेवाद्वितीयमिति।

Reviews

There are no reviews yet.

Be the first to review “Kiratarjuniya Maha Kavyam 1-2 Sarg (किरातार्जुनीयमहाकाव्यम् प्रथम-द्वितीय सर्गात्मकम्)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×