Laghu Siddhant Kaumudi (लघुसिद्धान्तकौमुदी)
Original price was: ₹70.00.₹60.00Current price is: ₹60.00.
Author | - |
Publisher | Gita Press, Gorakhapur |
Language | Sanskrit |
Edition | 29th edition |
ISBN | - |
Pages | 286 |
Cover | Hard Cover |
Size | 14 x 1 x 21 (l x w x h) |
Weight | |
Item Code | GP0145 |
Other | Code - 116 |
10 in stock (can be backordered)
CompareDescription
लघुसिद्धान्तकौमुदी (Laghu Siddhant Kaumudi) निखिलेऽस्मिन् पञ्चतत्त्वाञ्चिते वैरिञ्चप्रपञ्चे ऽनादिकालतो बन्धनमुपेत्य प्रारब्धपरिणतिं भुञ्जानानां जनानामाध्यात्मिकादितापत्रयचिन्ता-चक्रव्यूहोत्पाटनपटीयो ज्ञानमेवामनन्ति मोक्षोपायतया निःश्रेयससाधनैकमतयो यतयो महर्षयश्च। तच्च ज्ञानमाम्नायवाङ्मयतात्पर्यपर्यालोचनोल्लसत्सद्विवेकोद्रेकादेव समधिगन्तुं शक्यत इति नास्ति परोक्षं प्रेक्षावताम्। तात्पर्यपर्यालोचनं च तत्तच्छब्दानुबन्धितत्तदर्थबोधकशक्तिग्रहायत्तम्, शक्तिग्रहस्तु ‘शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याट्यवहारतश्च’ इति वृद्धजनोक्त्या प्राधान्येन व्याकरणादेव बोभवीतीति तदेव सर्वतः प्रागाश्रयणीयं निगमागमार्थसार्थं परिचिचीषुभिः। किञ्च ‘षडङ्गो वेदोऽध्येयो ज्ञेयश्च’ इति विधिश्रवणात् षड्भिरङ्गैः संवलितस्यैव वेदस्य तत्त्वज्ञानं श्रेयः साधनमभिमतम्ः तेष्वङ्गेषु च ‘छन्दः पादौ तु वेदस्य मुखं व्याकरणं स्मृतम्’ इति वचनाद् व्याकरणमेव मुखमिव प्रमुखतामावहति प्रागध्येतव्यतां चेति नाविदितचरं गीर्वाणवाणीप्रणयिनाम्।
व्याकरणं च मुख्यतो नवधानुश्रूयते, ‘ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम्। सारस्वतं चापिशलं शाकलं पाणिनीयकम्॥’ इति तत्त्वनिधावुक्तेः; हनुमन्तमुद्दिश्य ‘सोऽयं नवव्याकरणार्थवेत्ता’ इति वाल्मीकीयवचनाच्च। ननु हनुमतः काले पाणिन्यादेरनुत्पत्त्या नेदं संगच्छत इति चेन्न ‘धाता यथापूर्वमकल्पयत्’ इति श्रुत्या पूर्वपूर्वकल्पोद्भूतपाणिन्यादीनां व्याकरणसत्त्वानुमानात्। तत्रैन्द्रव्याकरणे ‘तामिन्द्रो मव्यतोपक्रम्य व्याकरोत्। तस्मादियं व्याकृता वागुच्यते’ इति श्रुतिरेव प्रमाणम्। ‘चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः’ इत्यादिवचनाच्चान्द्रस्यापि सत्तानुमीयते। ‘शताच्च ठन्यतावशते’ इति सूत्रे भाष्ये नामतो निर्देशात् काशकृत्स्नसत्तापि निश्चीयते। कौमारं त्वाग्नेयपुराणे वर्ण्यते, केचित्तु पाणिनिकृतं प्रातिशाख्यसूत्रमेव कौमारमिति वदन्ति। सारस्वतम्, ऋक्तन्त्रापराभिधानं शाकटायनं चाद्यत्वे
मुद्रिते उपलभ्येते। आपिशलं शाकलं च पाणिनिसूत्रेषु तन्नाम्नोरनुवादादनुमीयेते।
यद्यप्यद्यत्वे व्याकरणान्युपलभ्यन्ते विविधानि जैनेन्द्राशुबोधकातन्त्राद्यभिधानानि तथापि नैतेषां वेदाङ्गत्वम्। निखिललौकिकालौकिकशब्दानां व्युत्पादकतया पाणिनीयव्याकरणमेव सर्वेषां मूर्धन्यं धन्यं च सद् वेदाङ्गतामाधत्ते। ‘इदमक्षरं छन्दोवर्णशः समनुक्रान्तं ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यः। तं खल्विममक्षरसमाम्नायमित्याचक्षते; ‘न भुक्त्वा न नक्तं ब्रूयाद् ब्रह्मराशिः।’ इति ऋक्तन्त्रव्याकरणोक्त- रीत्याक्षररूपस्यास्य चतुर्दशसूत्रसमूहस्याम्नायत्वं निष्पद्यते, तन्मूलकत्वाच्चेदं वेदशरीरमभ्युपगम्यते।
Reviews
There are no reviews yet.