Loading...
Get FREE Surprise gift on the purchase of Rs. 2000/- and above.
-7%

Pitra Karma Nirnay (पितृकर्म निर्णयः)

70.00

Author Pt. Triloki Nath Mishra
Publisher Chaukhambha Vidya Bhavan
Language Sanskrit
Edition 2005
ISBN -
Pages 222
Cover Paper Back
Size 14 x 4 x 22 (l x w x h)
Weight
Item Code CSSO0735
Other Dispatched in 1-3 days

10 in stock (can be backordered)

Compare

Description

पितृकर्म निर्णयः (Pitra Karma Nirnay) विदितमेवैतत् तत्रभवतां भवतां यद् अनादाविह संसारे सनातनपरमात्मना सनातनजीवकख्याणाय सनातनवेदद्वारा संस्थापितः सनातनधर्मरूपो मार्गो विजयते-तमामिति। यदनुसरणोन भारतीयमानवाः सदा (अन्येच्छानधीनेच्छाविषयत्वात्) स्वतः पुरुषार्थभूतं सुखं दुःखाभावश्च प्राप्नुवन्ति प्रारयन्ति च। तत्रापि भवन्तो विशेषतो भाविसन्ततिकल्याणाय परमपरिश्रमेण परम्पराप्राप्त-कुलमर्यादामर्थागमसंरक्षणादिपद्धतिश्च परिपालयितुं यत्नं विदधतां पित्रादीनां सर्वविधकश्याणाय तज्जीवनकाले तदनन्तरण्व “जीवतो वाक्यकरणात् क्षयाहे भूरि-भोजनात्। गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता॥’ इत्यायनुसारेण निरन्तरं यतमाना बिलसन्ति।

अत एव मिथिलामण्डलान्तर्गतद्वार वङ्ग (दरभन्ना) स्थमहारानीरमेश्वर लतासंस्कृतमहाविद्यालयाध्यक्षाः प्रख्यातव्याकरण न्याय वेदान्त-मीमांसा-साहित्यधर्मशास्त्रायनेक शास्त्रपाण्डित्याः पण्डितप्रवराः श्रीमन्त आचार्याः त्रिलोकनाथमिश्रमहोदयाः सेवित पित्रादीनां भवताम्पुरतः “श्रुतिबिंभिन्ना स्मृतयो विभिन्ना नैको मुनिर्यस्य मतं न भिन्नम्। धर्मस्य तत्त्वं निहित गुहायां महाजनो येन गतः स पन्थाः॥” इत्यादिप्रतिपादितमनुसरणीयपन्थानं समुपस्थापयितुकामाः “पितृकर्मनिर्णय” नामकं ग्रन्थरत्ने यथासम्भवं श्रुतिस्मृतिपुराणादिवचनसमन्वयपूर्वकं व्यरीरचन्। यत्परिशीलनेन मैथिला अन्ये च साधारणसंस्कृतज्ञा अपि तत्र विषये सकलवेदादिशास्त्रसारभूतं सिद्धान्तमरुपायासेनैव विज्ञाय तदनुष्ठानेन कृतार्या भविष्यन्तीति निश्वप्रचम्।

ग्रन्धे चास्मिन् स्थलविशेषे काशीस्थचौखम्बा-संस्कृतपुस्तकालयान्तर्गत मिथिलाग्रन्थमालासम्पादकत्वेन सम्पादिता मया टिप्पणीरवलोक्य प्रायः समेत्रां हृदये अमन्दानन्दसन्दोहधारैव प्रवहेदिति मे विश्वासः। अत्र च धर्मशास्त्रनिवन्धग्रन्थशिरोभूषणायमाने ग्रन्थमणौ पितृकर्माङ्गाशेषविषयाणां समीक्षणसमये मैथिलाचारेणैव ग्रन्थष्कृतां दृष्टिरा प्लावितेति सुरभारतीप्रेयोभिः सकलमैथिलैः प्रकृतपुस्तकं क्रीत्वा केवलमैथिलोपकाराय बहुवित्तत्र्ययेन मिथिलाप्रन्थमालाख्यसंस्थासंस्थापकेभ्यो श्रेष्ठिवर्यश्रीजयकृष्णदासहरिदासगुप्त महोदयेभ्यो धन्यवाद‌मात्रमपि प्रददद्भिः तेभ्य आवृण्यं ग्राप्येतावश्यमेवेति दृढमाशासे।

Reviews

There are no reviews yet.

Be the first to review “Pitra Karma Nirnay (पितृकर्म निर्णयः)”

Your email address will not be published. Required fields are marked *

Quick Navigation
×